श्रीलिङ्गमहापुराण -[उत्तरभाग] -002
॥ श्रीसाम्बसदाशिवाय नमः ॥
दूसरा अध्याय
भगवद्गुणगान का माहात्म्य
श्रीलिङ्गमहापुराणे उत्तरभागे द्वितीयोऽध्यायः
विष्णुमाहात्म्यं
॥ मार्कण्डेय उवाच ॥
ततो नारायणो देवस्तस्मै सर्वं प्रदाय वै ।
कालयोगेन विश्वत्मा समं चक्रेऽथ तुम्बरोः ॥ १ ॥
नारदं मुनिशार्दूलमेवं वृत्तमभूत्पुरा ।
नारायणस्य गीतानां गानं श्रेष्ठं पुनः पुनः ॥ २ ॥
गानेनाराधितो विष्णुः सत्कीर्ति ज्ञानवर्चसी ।
ददाति तुष्टिं स्थानं च यथासौ कौशिकस्य वै ॥ ३ ॥
पद्माक्षप्रभृतीनां च संसिद्धिं प्रददौ हरिः ।
तस्मात्त्वया महाराज विष्णुक्षेत्रे विशेषतः ॥ ४ ॥
अर्चनं गाननृत्याद्यं वाद्योत्सवसमन्वितम् ।
कर्तव्यं विष्णुभक्तैर्हि पुरुषैरनिशं नृप ॥ ५ ॥
श्रोतव्यं च सदा नित्यं श्रोतव्योसौ हरिस्तथा ।
विष्णुक्षेत्रे तु यो विद्वान् कारयेद्भक्तिसंयुतः ॥ ६ ॥
गाननृत्यादिकं चैव विष्ण्वाख्यानां कथां तथा ।
जातिस्मृतिं च मेधां च तथैवोपरमे स्मृतिम् ॥ ७ ॥
प्राप्नोति विष्णुसायुज्यं सत्यमेतन्नृपाधिप ।
एतत्ते कथितं राजन् यन्मां त्वं परिपृच्छसि ॥ ८ ॥
किं वदामि च ते भूतो वद धर्मभृतां वर ॥ ९ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे विष्णुमाहात्म्यं नाम
द्वितीयोऽध्यायः ॥ २ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें