श्रीलिङ्गमहापुराण -[उत्तरभाग] -004
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौथा अध्याय
वासुदेवपरायण विष्णुभक्तों के लक्षण तथा उनकी महिमा
श्रीलिङ्गमहापुराणे उत्तरभागे चतुर्थोऽध्यायः
विष्णुभक्तकथनं
॥ ऋषय ऊचुः ॥
वैष्णवा इति ये प्रोक्ता वासुदेवपरायणाः ।
कानि चिह्नानि तेषां वै तन्नो ब्रूहि महामते ॥ १ ॥
तेषां वा किं करोत्येष भगवान् भूतभावनः ।
एतन्मे सर्वमाचक्ष्व सूत सर्वार्थवित्तम ॥ २ ॥
॥ सूत उवाच ॥
अम्बरीषेण वै पृष्टो मार्कण्डेयः पुरामुनिः ।
युष्माभिरद्य यत् प्रोक्तं तद्वदामि यथातथम् ॥ ३ ॥
॥ मार्कण्डेय उवाच ॥
शृणु राजन् यथान्यायं यन्मां त्वं परिपृच्छसि ।
यत्रास्ते विष्णुभक्तस्तु तत्र नारायणः स्थितः ॥ ४ ॥
विष्णुरेव हि सर्वत्र येषां वै देवता स्मृता ।
कीर्त्यमाने हरौ नित्यं रोमाञ्चो यस्य वर्तते ॥ ५ ॥
कम्पः स्वेदस्तथक्षेषु दृस्यन्ते जलबिन्दवः ।
विष्णुभक्तिसमायुक्तान् श्रौतस्मार्तप्रवर्तकान् ॥ ६ ॥
प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः ।
नान्यदाच्छादयेद्वस्त्रं वैष्णवो जगतोऽरणे ॥ ७ ॥
विष्णुभक्तमथायान्तं यो दृष्ट्वा सन्मुखस्थितः ।
प्रणामादि करोत्येवं वासुदेवे यथा तथा ॥ ८ ॥
स वै भक्त इति ज्ञेयः स जयी स्याज्जगत्त्रये ।
रूक्षाक्षराणि शृण्वन् वै तथा भागवतेरितः ॥ ९ ॥
प्रणामपूर्वं क्षान्त्या वै यो वदेद्वैष्णवो हि सः ।
गन्धपुष्पादि कं सर्वं शिरसा यो हि धारयेत् ॥ १० ॥
हरेः सर्वमितीत्येवं मत्त्वासौ वैष्णवः स्मृतः ।
विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः ॥ ११ ॥
प्रतिमां च हरेर्नित्यं पूजयेत् प्रयतात्मवान् ।
विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा ॥ १२ ॥
नारायणपरो नित्यं महाभागवतो हि सः ।
भोजनाराधनं सर्वं यथाशक्त्या करोति यः ॥ १३ ॥
विष्णुभक्तस्य च सदा यथान्यायं हि कथ्यते ।
नारायणपरो विद्वान् यस्यान्नं प्रीतमानसः ॥ १४ ॥
अश्नाति तद्धरेरास्यं गतमन्नं न संशयः ।
स्वार्चनादपि विश्वात्मा प्रीतो भवति माधवः ॥ १५ ॥
महाभागवते तच्च दृष्ट्वासौ भक्तवत्सलः ।
वासुदेवपरं दृष्ट्वा वैष्णवं दग्धकिल्बिषम् ॥ १६ ॥
देवापि भीतास्तं यान्ति प्रणिपत्य यथागतम् ।
श्रूयतां हि पुरा वृत्तं विष्णुभक्तस्य वैभवम् ॥ १७ ॥
दृष्ट्वा यमोऽपि वै भक्तं वैष्णवं दग्धकिल्विषम् ।
उत्थाय प्राञ्जलिर्भूत्वा ननाम भृगुनन्दनम् ॥ १८ ॥
तस्मात्सम्पूजयेद्भक्त्या वैष्णवान् विष्णुवन्नरः ।
स याति विष्णुसामीप्यं नात्र कार्या विचारणा ॥ १९ ॥
अन्यभक्तसहस्रेभ्यो विष्णुभक्तो विशिष्यते ।
विष्णुभक्तसहस्रेभ्यो रुद्रभक्तो विशिष्यते ।
रुद्रभक्तात्परतरो नास्ति लोके न सशंयः ॥ २० ॥
तस्मात्तु वैष्णवं चापि रुद्रभक्तमथापि वा ।
पूजयेत्सर्वयत्नेन धर्मकामार्थमुक्तये ॥ २१ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे विष्णुभक्तकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें