श्रीलिङ्गमहापुराण -[उत्तरभाग] -005
॥ श्रीसाम्बसदाशिवाय नमः ॥
पाँचवाँ अध्याय
विष्णुभक्त राजर्षि अम्बरीष का आख्यान, विष्णुमाया द्वारा नारद एवं पर्वत मुनि का वानरमुख होना तथा इसी का रामावतार में हेतु बनना
श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चमोऽध्यायः
श्रीमत्याख्यानं
॥ ऋषय ऊचुः ॥
ऐक्ष्वाकुरम्बरीषो वै वासुदेवपरायणः ।
पालयामास पृथिवीं विष्णोराज्ञापुरः सरः ॥ १ ॥
श्रुतमेतन् महाबुद्धे तत्सर्वं वक्तुमर्हसि ।
नित्यं तस्य हरेश्चक्रं शत्रुरोगभयादिकम् ॥ २ ॥
हन्तीति श्रूयते लोके धार्मिकस्य महात्मनः ।
अम्बरीषस्य चरितं तत्सर्वं ब्रूहि सत्तम ॥ ३ ॥
माहात्म्यमनुभावं च भक्तियोगमनुत्तमम् ।
यथावच्छ्रोतुमिच्छामः सूत वक्तुं त्वमर्हसि ॥ ४ ॥
॥ सूत उवाच ॥
श्रूयतां मुनिशार्दूलाश्चरितं तस्य धीमतः ।
अम्बरीषस्य माहात्म्यं सर्वपापहरं परम् ॥ ५ ॥
त्रिशङ्कोर्दयिता भार्या सर्वलक्षणशोभिता ।
अम्बरीषस्य जननी नित्यं शौचसमन्विता ॥ ६ ॥
योगनिद्रासमारूढं शेषपर्यङ्कशायिनम् ।
नारायणं महात्मानं ब्रह्माण्डकमलोद्भवम् ॥ ७ ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् ।
सत्त्वेन सर्वगं विष्णुं सर्वदेवनमस्कृतम् ॥ ८ ॥
अर्चयामाम सततं वाङ्मनः कायकर्मभिः ।
माल्यदानादिकं सर्वं स्वयमेवमचीकरत् ॥ ९ ॥
गन्धादिषेषणं चैव धूपद्रव्यादिकं तथा ।
भूमेरालेपनादीनि हविषां पचनं तथा ॥ १० ॥
तत्कौतुकसमाविष्टा स्वयमेव चकार सा ।
शुभा पद्मावती नित्यं वाचा नारायणेति वै ॥ ११ ॥
अनन्तेत्येव सा नित्यं भाषमाणा पतिव्रता ।
दशवर्षसहस्राणि तत्परेणान्तरात्मना ॥ १२ ॥
अर्चयामास गोविन्दं गन्धपुष्पादिभिः शुचिः ।
विष्णुभक्तान् महाभागान् सर्वपापविवर्जितान् ॥ १३ ॥
दानमानार्चनैर्नित्यं धनरत्नैरतोषयत् ।
ततः कदाचित्सा देवी द्वादशीं समुपोष्य वै ॥ १४ ॥
हरेरग्रे महाभागा सुष्वाप पतिना सह ।
तत्र नारायणो देवस्तामाह पुरुषोत्तमः ॥ १५ ॥
किमिच्छसि वरं भद्रे मत्तस्त्वं ब्रूहि भामिनि ।
सा दृष्ट्वा तु वरं वव्रे पुत्रो मे वैष्णवो भवेत् ॥ १६ ॥
सार्वभौमो महातेजाः स्वकर्मनिरतः शुचिः ।
तथेत्युक्त्वा ददौ तस्यै फलमेकं जनार्दनः ॥ १७ ॥
सा प्रबुद्धा फलं दृष्ट्वा भर्त्रे सर्वं न्यवेदयत् ।
भक्षयामास संहृष्टा फलं तद्गतमानसा ॥ १८ ॥
ततः कालेन सा देवी पुत्रं कुलविवर्धनम् ।
असूत सा सदाचारं वासुदेवपरायणम् ॥ १९ ॥
शुभलक्षणसम्पन्नं चक्राङ्किततनूरुहम् ।
जातं दृष्ट्वा पिता पुत्रं क्रियाः सर्वाश्चकार वै ॥ २० ॥
अम्बरीष इति ख्यातो लोके समभवत् प्रभुः ।
पितर्युपरते श्रीमानभिषिक्तो महामुनिः ॥ २१ ॥
मन्त्रिष्वाधाय राज्यं च तप उग्रं चकार सः ।
संवत्सरसहस्रं वै जपन्नारायणं प्रभुम् ॥ २२ ॥
हृत्पुण्डरीकमध्यस्थं सूर्यमण्डलमध्यतः ।
शङ्खचक्रगदापद्मधारयन्तं चतुर्भुजम् ॥ २३ ॥
शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम् ।
सर्वाभरणसंयुक्तं पीताम्बरधरं प्रभुम् ॥ २४ ॥
श्रीवत्सवक्षसं देवं पुरुषं पुरुषोत्तमम् ।
ततो गरुडमारुह्य सर्वदेवैरभिष्टुतः ॥ २५ ॥
आजगाम स विश्वात्मा सर्वलोकनमस्कृतः ।
ऐरावतमिवाचिन्त्यं कृत्वा वै गरुडं हरिः ॥ २६ ॥
स्वयं शक्र इवासीनस्तमाह नृपसत्तमम् ।
इन्द्रोऽहमस्मि भद्रं ते किं ददामि वरं च ते ॥ २७ ॥
सर्वलोकेश्वरोऽहं त्वां रक्षितुं समुपागतः ।
॥ अम्बरीष उवाच ॥
नाहं त्वमाभिसन्धाय तप आस्थितवानिह ॥ २८ ॥
त्वया दत्तं च नेष्यामि गच्छ शक्र यथासुखम् ।
मम नारायणो नाथस्तन्नामामि जगत्पतिम् ॥ २९ ॥
गच्छेन्द्र मा कृथास्त्वत्र मम बुद्धिविलोपनम् ।
ततः प्रहस्य भगवान् स्वरूपमकरोद्धरीः ॥ ३० ॥
शार्ङ्गचक्रगदापाणिः खङ्गहस्तो जनार्दनः ।
गरुडोपरि सर्वात्मा नीलाचल इवापरः ॥ ३१ ॥
देवगन्धर्वसङ्घैश्च स्तूयमानः समन्ततः ।
प्रणम्य स च सन्तुष्टस्तुष्टाव गरुडध्वजम् ॥ ३२ ॥
प्रसीद लोकनाथेश मम नाथ जनार्दन ।
कृष्ण विष्णो जगन्नाथ सर्वलोकनमस्कृत ॥ ३३ ॥
त्वमादिस्त्वमनादिस्त्वमनन्तः पुरुषः प्रभुः ।
अप्रमेयो विभुर्विष्णुर्गोविन्दः कमलेक्षणः ॥ ३४ ॥
महेश्वराङ्गजो मध्ये पुष्करः खगमः खगः ।
कव्यवाहः कपाली त्वं हव्यवाहः प्रभञ्जनः ॥ ३५ ॥
आदिदेवः क्रियानन्दः परमात्मात्मनी स्थितः ।
त्वां प्रपन्नोस्मि गोविन्द जय देवकिनन्दन ।
जय देव जगन्नाथ पाहि मां पुष्करेक्षण ॥ ३६ ॥
नान्या गतिस्त्वदन्या मे त्वमेव शरणं मम ।
॥ सूत उवाच ॥
तमाह भगवान् विष्णुः किं ते हृदि चिकीर्षितम् ॥ ३७ ॥
तत्सर्वं ते प्रदास्यामि भक्तोसि मम सुव्रत ।
भक्तिप्रियोऽहं सततं तस्माद्दातुमिहागतः ॥ ३८ ॥
॥ अम्बरीष उवाच ॥
लोकनाथ परानन्द नित्यं मे वर्तते मतिः ।
वासुदेवपरो नित्यं वाङ्मनः कायकर्मभिः ॥ ३९ ॥
यथा त्वं देवदेवस्य भवस्य परमात्मनः ।
तथा भवाम्यहं विष्णो तव देव जनार्दन ॥ ४० ॥
पालियिष्यामि पृथिवीं कृत्वा वै वैष्णवं जगत् ।
यज्ञहोमार्चनैश्चैव तर्पयामि सुरोत्तमान् ॥ ४१ ॥
वैष्णवान् पालयिष्यामि निहनिष्यामि शात्रवान् ।
लोकतापभये भीत इति मे धीयते मतिः ॥ ४२ ॥
॥ श्रीभगवानुवाच ॥
एवमस्तु यथेच्छं वै चक्रमेतत्सुदर्शनम् ।
पुरा रुद्रप्रसादेन लब्धं वै दुर्लभं मया ॥ ४३ ॥
ऋषिशापादिकं दुःखं शत्रुरोगादिकं तथा ।
निहनिष्यति ते नित्यमित्युक्त्वान्तरधीयत ॥ ४४ ॥
॥ सूत उवाच ॥
ततः प्रणम्य मुदितो राजा नारायणं प्रभुम् ।
प्रविश्य नगरीं रम्यामयोध्यां पर्यपालयत् ॥ ४५ ॥
ब्राह्मणादींश्च वर्णांश्च स्वस्वकर्मण्ययोजयत् ।
नारायणपरो नित्यं विष्णुभक्तानकल्मषान् ॥ ४६ ॥
पालयामास हृष्टात्मा विशेषेण जनाधिपः ।
अश्वमेधशतैरिष्ट्वा वाजपेयशतेन च ॥ ४७ ॥
पालयामास पृथिवीं सागरावरणामिमाम् ।
गृहे गृहे हरिस्तस्थौ वेदघोषो गृहे गृहे ॥ ४८ ॥
नामघोषो हरेश्चैव यज्ञघोषस्तथैव च ।
अभवन्नृपशार्दूले तस्मिन् राज्यं प्रशासति ॥ ४९ ॥
नासस्या नातृणा भूमिर्न दुर्भिक्षादिभिर्युता ।
रागहीनाः प्रजा नित्यं सर्वोपद्रववर्जिताः ॥ ५० ॥
अम्बरीषो महातेजाः पालयामास मेदिनीम् ।
तस्यैवं वर्तमानस्य कन्या कमललोचना ॥ ५१ ॥
श्रीमती नाम विख्याता सर्वलक्षणसंयुता ॥
प्रदानसमयं प्राप्ता देवमायेव शोभना ॥ ५२ ॥
तस्मिन् काले मुनिः श्रीमान् नारदोऽभ्यागतश्च वै ।
अम्बरीषस्य राज्ञो वै पर्वतश्च महामतिः ॥ ५३ ॥
तावुभावागतौ दृष्ट्वा प्रणिपत्य यथाविधि ।
अम्बरीषो महातेजाः पूजयामास तावृषी ॥ ५४ ॥
कन्यां तां रममाणां वै मेघमध्ये शतह्रदाम् ।
प्राह तां प्रेक्ष्य भगवान्नारदः सस्मितस्तदा ॥ ५५ ॥
केयं राजन् महाभागा कन्या सुरसुतोपमा ।
ब्रूहि धर्मभृतां श्रेष्ठ सर्वलक्षणशोभिता ॥ ५६ ॥
॥ राजोवाच ॥
दुहितेयं मम विभो श्रीमती नाम नामतः ।
प्रदानसमयं प्राप्ता वरमन्वेषते शुभा ॥ ५७ ॥
इत्युक्तो मुनिशार्दूलस्तामैच्छन्नारदो द्विजाः ।
पर्वतोपि मुनिस्तां वै चकमे मुनिसत्तमाः ॥ ५८ ॥
अनुज्ञाप्य च राजानं नारदो वाक्यमब्रवीत् ।
रहस्याहूय धर्मात्मा मम देहि सुतामिमाम् ॥ ५९ ॥
पर्वतो हि तथा प्राह राजानं रहसि प्रभुः ।
तावुभौ सह धर्मात्मा प्रणिपत्य भयार्दितः ॥ ६० ॥
उभौ भवन्तौ कन्यां मे पार्थयानौ कथं त्वहम् ।
करिष्यामि महाप्राज्ञ शृणु नारद मे वचः ॥ ६१ ॥
त्वं च पर्वत मे वाक्यं शृणु वक्ष्यामि यत् प्रभो ।
कन्येयं युवयोरेकं वरयिष्यति चेच्छुभा ॥ ६२ ॥
तस्मै कन्यां प्रयच्छामि नान्यथा शक्तिरस्ति मे ।
तथेत्युक्त्वा ततो भूयः श्वो यास्याव इति स्म ह ॥ ६३ ॥
इत्युक्त्वा मुनिशार्दूलौ जग्मतुः प्रीतिमानसौ ।
वासुदेवपरौ नित्यमुभौ ज्ञानविदां वरौ ॥ ६४ ॥
विष्णु लोकं ततो गत्वा नारदो मुनिसत्तमः ।
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह ॥ ६५ ॥
श्रोतव्यमस्ति भगवन्नाथ नारायण प्रभो ।
रहसि त्वां प्रवक्ष्यामि नमस्ते भुवनेश्वर ॥ ६६ ॥
ततः प्रहस्य गोविन्दः सर्वानुत्सार्य तं मुनिम् ।
ब्रूहीत्याह च विश्वात्मा मुनिराह च केशवम् ॥ ६७ ॥
त्वदीयो नृपतिः श्रीमानम्बरीषो महीपतिः ।
तस्य कन्या विशालाक्षी श्रीमती नाम नामतः ॥ ६८ ॥
परिणेतुमनास्तत्र गतोऽस्मि वचनं शृणु ।
पर्वतोऽयं मुनिः श्रीमांस्तव भृत्यस्तपोनिधिः ॥ ६९ ॥
तामैच्छत्सोपि भगवन्नावामाह जनाधिपः ।
अम्बरीषो महातेजाः कन्येयं युवयोर्वरम् ॥ ७० ॥
लावण्ययुक्तं वृणुयाद्यदि तस्मै ददाम्यहम् ।
इत्याहावां नृपस्तत्र तथेत्युक्त्वाहमागतः ॥ ७१ ॥
आगमिष्यामि ते राजन् श्वः प्रभाते गृहं त्विति ।
आगतोहं जगन्नाथ कर्तुमर्हसि मे प्रियम् ॥ ७२ ॥
वानराननवद्भाति पर्वतस्य मुखं यथा ।
तथा कुरु जगन्नाथ मम चेदिच्छसि प्रियम् ॥ ७३ ॥
तथेत्युक्त्वा स गोविन्दः प्रहस्त मधुसूदनः ।
त्वयोक्तं च करिष्यामि गच्छ सौम्य यथागतम् ॥ ७४ ॥
एवमुक्त्वा मुनिर्हृष्टः प्रणिपत्य जनार्दनम् ।
मन्यमानः कृतात्मानं तथायोध्यां जगाम सः ॥ ७५ ॥
गते मुनिवरे तस्मिन् पर्वतोऽपि महामुनिः ।
प्रणम्य माधवं हृष्टो रहस्येनमुवाच ह ॥ ७६ ॥
वृत्तं तस्य निवेद्याग्रे नारदस्य जगत्पतेः ।
गोलाङ्गूलमुखं यद्वन्मुखं भाति तथा कुरु ॥ ७७ ॥
तच्छ्रुत्वा भगवान् विष्णुस्त्वयोक्तं च करोमि वै ।
गच्छ शीघ्रमयोध्यां वै मा वेदीर्नारदस्य वै ॥ ७८ ॥
त्वया मे संविदं तत्र तथेत्युक्त्वा जगाम सः ।
ततो राजा समाज्ञाय प्राप्तौ मुनिवरौ तदा ॥ ७९ ॥
माङ्गल्यैर्विविधैः सर्वामयोध्यां ध्वजमालिनीम् ।
मण्डयामास पुष्पैश्च लाजैर्श्चैव समन्ततः ॥ ८० ॥
अम्बुसिक्तगृहद्वारां सिक्तापणमहापथाम् ।
दिव्यगन्धरसोपेतां धूपितां दिव्यधूपकैः ॥ ८१ ॥
कृत्वा च नगरीं राजा मण्डयामास तां सभाम् ।
दिव्यैर्गन्धैस्तथा धूपै रत्नैश्च विविधैस्तथा ॥ ८२ ॥
अलङ्कृतां मणिस्तम्भैर्नानामाल्योपशोभिताम् ।
परार्ध्यास्तरणोपेतैर्दिव्यैर्भद्रासनैर्वृताम् ॥ ८३ ॥
कृत्वा नृपेन्द्रस्तां कन्यां ह्यादाय प्रविवेश ह ।
सर्वाभरणसम्पन्नां श्रीरिवायतलोजनाम् ॥ ८४ ॥
करसम्मितमध्याङ्गीं पञ्चस्निग्धां शुभाननाम् ।
स्त्रीभिः परिवृतां दिव्यां श्रीमतीं संश्रितां तदा ॥ ८५ ॥
सभा च सा भूपपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा ।
न्यस्तासना माल्यवती सुबद्धा तामाययुस्ते नरराजवर्गाः ॥ ८६ ॥
अथापरो ब्रह्मवरात्मजो हि त्रैविद्यविद्यो भगवान् महात्मा ।
सपर्वतो ब्रह्मविदां वरिष्ठो महामुनिर्नारद आजगाम ॥ ८७ ॥
तावगतौ समीक्ष्याथ राजा सम्भ्रान्तमानसः ।
दिव्यमासनामादाय पूजयामास तावुभौ ॥ ८८ ॥
उभौ देवर्षिसिद्धौ ता वुभौ ज्ञानविदां वरौ ।
समासीनौ महात्मानौ कन्यार्थं मुनिसत्तमौ ॥ ८९ ॥
तावुभौ प्रणिपत्याग्रे कन्यां तां श्रीमतीं शुभाम् ।
सुतां कमलपत्राक्षीं प्राह राजा यशस्विनीम् ॥ ९० ॥
अनयोर्यं वरं भद्रे मनसा त्मविहेच्छसि ।
तस्मै मालामिमां देहि प्रणिपत्य यथाविधि ॥ ९१ ॥
एवमुक्ता तु सा कन्या स्त्रीभिः परिवृता तदा ।
मालां हिरण्मयीं दिव्यामादाय शुभलोचना ॥ ९२ ॥
यत्रासीनौ महात्मानौ तत्रागम्य स्थिता तदा ।
वीक्षमाणा मुनिश्रेष्ठौ नारदं पर्वतं तथा ॥ ९३ ॥
शाखामृगाननं दृष्ट्वा नारदं पर्वतं तथा ।
गोलाङ्गुलमुखं कन्या किञ्चित् त्राससमन्विता ॥ ९४ ॥
सम्भ्रान्तमानसा तत्र प्रवातकदली यथा ।
तस्थौ तामहा राजासौ वत्से किं त्वं करिष्यसि ॥ ९५ ॥
अनयोरेक मुद्दिश्य देहि मालामिमां शुभे ।
सा प्राह पितरं त्रस्ता इमौ तौ नरवानरौ ॥ ९६ ॥
मुनिश्रेष्ठं न पश्यामि नारदं पर्वतं तथा ।
अनयोर्मध्यतस्त्वेकमूनषोडशवार्षिकम् ॥ ९७ ॥
सर्वाभरणसम्पन्नमतसीपुष्पसन्निभम् ।
दीर्घबाहुं विशालाक्षं तुङ्गोरस्थलमुत्तमम् ॥ ९८ ॥
रेखाङ्कितकटिग्रीवं रक्तान्तायतलोचनम् ।
नम्रचापानुकरणपटुभ्रूयुगशोभितम् ॥ ९९ ॥
विभक्तत्रिवलीव्यक्तं नाभिव्यक्तशुभोदरम् ।
हिरण्याम्बरसंवीतं तुङ्गरत्ननखं शुभम् ।
पद्माकारकरं त्वेनं पद्मास्यं पद्मलोचनम् ॥ १०० ॥
सुनासं पद्महृदयं पद्मनाभं श्रिया वृतम् ।
दन्तपङ्क्तिभिरत्यर्थं कुन्दकुड्मलसन्निभैः ॥ १०१ ॥
हसन्तं मां समालोक्य दक्षिणं च प्रसार्य वै ।
पाणिं स्थितममुं तत्र पश्यामि शुभमूर्धजम् ॥ १०२ ॥
सम्भ्रान्तमानसां तत्र वेपतीं कदलीमिव ।
स्थितां तामाह राजासौ वत्से किं त्वं करिष्यसि ॥ १०३ ॥
एवमुक्ते मुनिः प्राह नारदः संशयं गतः ।
कियन्तो बाहवस्तस्य कन्ये ब्रूहि यथातथम् ॥ १०४ ॥
बाहुद्वयं च पश्यामीत्याह कन्या शुचिस्मिता ।
प्राह तां पर्वतस्तत्र तस्य वक्षःस्थले शुभे ॥ १०५ ॥
किं पश्यसि च मे ब्रूहि करे किं वास्य पश्यसि ।
कन्या तमाह मालां वै पञ्चरूपामनुत्तमाम् ॥ १०६ ॥
वक्षःस्थलेऽस्य पश्यामि करे कार्मुकसायकान् ।
एवमुक्तौ मुनिश्रेष्ठौ परस्परमनुत्तमौ ॥ १०७ ॥
मनसा चिन्तयन्तौ तौ मायेयं कस्यचिद् भवेत् ।
मायावी तस्करो नूनं स्वयमेव जनार्दनः ॥ १०८ ॥
आगतो न यथा कुर्यात् कथमस्मन्मुखं त्विदम् ।
गोलाङ्गूलत्वमित्येवं चिन्तया मास नारदः ॥ १०९ ॥
पर्वतोपि यथान्यायं वानरत्वं कथं मम ।
प्राप्तमित्येव मनसा चिन्तामापेदिवांस्तथा ॥ ११० ॥
ततो राजा प्रणम्यासौ नारदं पर्वतं तथा ।
भवद्भ्यां किमिदं तत्र कृतं बुद्धिविमोहजम् ॥ १११ ॥
स्वस्थौ भवन्तौ तिष्ठेतां यथा कन्यार्थ मुद्यतौ ।
एवमुक्तौ मुनिश्रेष्ठौ नृपमूचतुरुल्बणौ ॥ ११२ ॥
त्वमेव मोहं कुरुषे नावामिह कथञ्चन ।
आवयोरेकमेषा ते वरयत्वेव मा चिरम् ॥ ११३ ॥
ततः सा कन्यका भूयः प्रणिप्तयेष्टदेवताम् ।
मायामादाय तिष्ठन्तं तयोर्मध्ये समाहितम् ॥ ११४ ॥
सर्वाभरणसंयुक्तमतसीपुष्पसन्निभम् ।
दीर्घबाहुं सुपुष्टाङ्गं कर्णान्तायतलोचनम् ॥ ११५ ॥
पूर्ववत् पुरुषं दृष्ट्वा मालां तस्मै ददौ हि सा ।
अनन्तरं हि सा कन्या न दृष्टा मनुजैः पुनः ॥ ११६ ॥
ततो नादः समभवत् किमेतदिति विस्मितौ ।
तामादाय गतो विष्णुः स्वस्थानं पुरुषोत्तमः ॥ ११७ ॥
पुरा तदर्थमनिशं तपस्तप्त्वा वराङ्गना ।
श्रीमती सा समुत्पन्ना सा गता च तथा हरिम् ॥ ११८ ॥
तावुभौ मुनिशार्दूलौ धिक्कृतावतिदुःखितौ ।
वासुदेवं प्रति तदा जग्मतुर्भवनं हरेः ॥ ११९ ॥
तावागतौ समीक्ष्याह श्रीमतिं भगवान् हरिः ।
मुनिश्रेष्ठौ समायातौ गूहस्वात्मानमत्र वै ॥ १२० ॥
तथेत्युक्त्वा च सा देवी प्रहसन्ती चकार ह ।
नारदः प्रणिपत्याग्रे प्राह दामोदरं हरिम् ॥ १२१ ॥
प्रियं हि कृतवानद्य मम त्वं पर्वतस्य हि ।
त्वमेव नूनं गोविन्द कन्यां तां हृतवानासि ॥ १२२ ॥
विमोह्यावां स्वयं बुद्ध्या प्रतार्य सुरसत्तम ।
इत्युक्तः पुरुषो विष्णुः पिधाय श्रोत्रमच्युतः ।
पाणिभ्यां प्राह भगवान् भवद्भ्यां किमुदीरितम् ॥ १२३ ॥
कामवानपि भावोऽयं मुनिवृत्तिरहो किल ।
एवमुक्तो मुनिः प्राह वासुदेवं स नारदः ॥ १२४ ॥
कर्णमूले मम कथं गोलाङ्गूलमुखं त्विति ।
कर्णमूले तमाहेदं वानरत्वं कृतं मया ॥ १२५ ॥
पर्वतस्य मया विद्वन् गोलाङ्गूलमुखं तव ।
मया तव कृतं तत्र प्रियार्थं नान्यथा त्विति ॥ १२६ ॥
पर्वतोऽपि तथा प्राह तस्याप्येवं जगाद सः ।
शृण्वतोरुभयोस्तत्र प्राह दामोदरो वचः ॥ १२७ ॥
प्रियं भवद्भ्यां कृतवान् सत्येनात्मानमालभे ।
नारदः प्राह धर्मात्मा आवयोर्मध्यतः स्थितः ॥ १२८ ॥
धनुष्मान् पुरुषः कोऽत्र तां हृत्वा गतवान् किल ।
तच्छ्रुत्वा वासुदेवोऽसौ प्राह तौ मुनिसत्तमौ ॥ १२९ ॥
मायाविनो महात्मनो बहवः सन्ति सत्तमाः ।
तत्र सा श्रीमती नूनमदृष्ट्वा मुनिसत्तमौ ॥ १३० ॥
चक्रपाणिरहं नित्यं चतुर्बाहुरिति स्थितः ।
तां तथा नाहमैच्छं वै भवद्भ्यां विदितं हि तत् ॥ १३१ ॥
इत्युक्तौ प्रणिपत्यैनमूचतुः प्रीतिमानसौ ।
कोऽत्र दोषस्तव विभो नारायण जगत्पते ॥ १३२ ॥
दौरात्म्यं तन्नृपस्यैव मायां हि कृतवानसौ ।
इत्युक्त्वा जग्मतुस्तस्मान्मुनी नारदपर्वतौ ॥ १३३ ॥
अम्बरीषं समासाद्य शापेनैनमयोजयत् ।
नारदः पर्वतश्चैव यस्मादावामिहागतौ ॥ १३४ ॥
आहूय पश्चादन्यस्मै कन्यां त्वं दत्तवानसि ।
मायायोगेन तस्मात्त्वं तमो ह्यभिभविष्यति ॥ १३५ ॥
तेन चात्मानमत्यर्थं यथावत्त्वं च वेत्स्यसि ।
एवं शापे प्रदत्ते तु तमोराशिरथोत्थितः ॥ १३६ ॥
नृपं प्रति ततश्चक्रं विष्णोः प्रादुरभूत् क्षणात् ।
चक्रवित्रासितं घोरं तावुभौ तम अभ्यगात् ॥ १३७ ॥
ततः सन्त्रस्तसर्वाङ्गौ धावमानौ महामुनी ।
पृष्ठतश्चक्रमालोक्य तमोराशिं दुरासदम् ॥ १३८ ॥
कन्यासिद्धिरहो प्राप्ता ह्यावयोरिति वेगितौ ।
लोकालोकान्तमनिशं धावमानौ भयार्दितौ ॥ १३९ ॥
त्राहि त्राहीति गोविन्दं भाषमाणौ भयार्दितौ ।
विष्णुलोकं ततो गत्वा नारायण जगत्पते ॥ १४० ॥
वासुदेव हृषीकेश पद्मनाभ जनार्दन ।
त्राह्यावां पुण्डरीकाक्ष नाथोऽसि पुरुषोत्तम ॥ १४१ ॥
ततो नारायणश्चिन्त्य श्रीमाञ्छ्रीवत्सलाञ्छनः ।
निवार्य चक्रं ध्वान्तं च भक्तानुग्रहकाम्यया ॥ १४२ ॥
अम्बरीषश्च मद्भक्तस्तथैतौ मुनिसत्तमौ ।
अनयोरस्य च तथा हितं कार्यं मयाधुना ॥ १४३ ॥
आहूय तत्तमः श्रीमान् गिरा प्रह्लादयन् हरिः ।
प्रोवाच भगवान् विष्णुः शृणुतां मे इदं वचः ॥ १४४ ॥
ऋषिशापो न चैवासीदन्यथा च वरो मम ।
दत्तो नृपाय रक्षार्थं नास्ति तस्यान्यथा पुनः ॥ १४५ ॥
अम्बरीषस्य पुत्रस्यनप्तुः पुत्रो महायशाः ।
श्रीमान् दशरथो नाम राजा भवति धार्मिकः ॥ १४६ ॥
तस्याहमग्रजः पुत्रो रामनामा भवाम्यहम् ।
तत्र मे दक्षिणो बाहुर्भरतो नाम वै भवेत् ॥ १४७ ॥
शत्रुघ्नो नाम सव्यश्च शेषोऽसौ लक्ष्मणः स्मृतः ।
तत्र मां समुपागच्छ गच्छेदानीं नृपं विना ॥ १४८ ॥
मुनिश्रेष्ठौ च हित्वा त्वमिति स्माह च माधवः ।
एवमुक्तं तमो नाशं तत्क्षणाच्च जगाम वै ॥ १४९ ॥
निवारितं हरेश्चक्रं यथापूर्वमतिष्ठत ।
मुनिश्रेष्ठौ भयान्मुक्तौ प्रणिपत्य जनार्दनम् ॥ १५० ॥
निर्गतौ शोकसन्तप्तौ ऊचतुस्तौ परस्परम् ।
अद्यप्रभृति देहान्तमावां कन्यापरिग्रहम् ॥ १५१ ॥
न करिष्याव इत्युक्त्वा प्रतिज्ञाय च तावृषी ।
योगध्यानपरौ शुद्धौ यथापूर्वं व्यवस्थितौ ॥ १५२ ॥
अम्बरीषश्च राजासौ परिपाल्य च मेदिनीम् ।
सभृत्यज्ञातिसम्पन्नो विष्णुलोकं जगाम वै ॥ १५३ ॥
मानार्थमम्बरीषस्य तथैव मुनिसिंहयोः ।
रामो दाशरथिर्भूत्वा नात्मवेदीश्वरोऽभवत् ॥ १५४ ॥
मुनयश्च तथा सर्वे भृग्वाद्या मुनिसत्तमाः ।
माया न कार्या विद्वद्भिरित्याहुः प्रेक्ष्यतं हरिम् ॥ १५५ ॥
नारदः पर्वतश्चैव चिरं ज्ञात्वा विचेष्टितम् ।
मायां विष्णोर्विनिन्द्यैव रुद्रभक्तौ बभूवतुः ॥ १५६ ॥
एतद्धि कथितं सर्वं मया युष्माकमद्य वै ।
अम्बरीषस्य माहात्म्यं मायावित्वं च वै हरेः ॥ १५७ ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वापि मानवः ।
मायां विसृज्य पुण्यात्मा रुद्रलोकं स गच्छति ॥ १५८ ॥
इदं पवित्रं परमं पुण्यं वेदैरुदीरितम् ।
सायं प्रातः पठेन्नित्यं विष्णोः सायुज्यमाप्नुयात् ॥ १५९ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे श्रीमत्याख्यानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
1. शिवमहापुराण - द्वितीय रुद्रसंहिता [प्रथम-सृष्टिखण्ड] - अध्याय 03
2. शिवमहापुराण - द्वितीय रुद्रसंहिता [प्रथम-सृष्टिखण्ड] - अध्याय 04

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें