श्रीलिङ्गमहापुराण -[पूर्वभाग] -071

श्रीलिङ्गमहापुराण -[पूर्वभाग] -071
॥ श्रीसाम्बसदाशिवाय नमः ॥
इकहत्तरवाँ अध्याय
तारकासुर के पुत्रों — विद्युन्माली, तारकाक्ष तथा कमलाक्ष का वृत्तान्त एवं तपस्या द्वारा इन्हें कामचारी तीन पुरों की प्राप्ति, त्रिपुरासुर के विनाश के लिये देवताओं का उद्योग तथा भगवान् शंकर का उन पर अनुग्रह
श्रीलिङ्गमहापुराणे पूर्वभागे एकसप्ततितमोऽध्यायः
पुरदाहे नन्दिकेश्वरवाक्यं

॥ ऋषय ऊचुः ॥
समासाद्विस्तराच्चैव सर्गः प्रोक्तस्त्वया शुभः ।
कथं पशुपतिश्चासीत्पुरं दग्धुं महेश्वरः ॥ १ ॥
कथं च पशवश्चासन् देवाः सब्रह्मकाः प्रभोः ।
मयस्य तपसा पूर्वं सुदुर्गं निर्मितं पुरम् ॥ २ ॥


हैमं च राजतं दिव्यमयस्मयमनुत्तमम् ।
सुदुर्गं देवदेवेन दग्धमित्येव नः श्रुतम् ॥ ३ ॥
कथं ददाह भगवान् भगनेत्रनिपातनः ।
एकेनेषुनिपातेन दिव्येनापि तदा कथम् ॥ ४ ॥
विष्णुनोत्पादितैर्भूतैर्न दग्धं तत्पुरत्रयम् ।
पुरस्य सम्भवः सर्वो वरलाभः पुरा श्रुतः ॥ ५ ॥
इदानीं दहनं सर्वं वक्तुमर्हसि सुव्रत ।
तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥ ६ ॥
यथा श्रुतं तथा प्राह व्यासाद्विश्वार्थसूचकात् ।
॥ सूत उवाच ॥
त्रैलोक्यस्यास्य शापाद्धि मनोवाक्कायसम्भवात् ॥ ७ ॥
निहते तारके दैत्ये तारपुत्रे सबान्धवे ।
स्कन्देन वा प्रयत्नेन तस्य पुत्रा महाबलाः ॥ ८ ॥
विद्युन्माली तारकाक्षः कमलाक्षश्च वीर्यवान् ।
तपस्तेपुर्महात्मानो महाबलपराक्रमाः ॥ ९ ॥
तप उग्रं समास्थाय नियमे परमे स्थिताः ।
तपसा कर्शयामासुर्देहान् स्वान् दानवोत्तमाः ॥ १० ॥
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ।
॥ दैत्या ऊचुः ॥
अवध्यत्वं च सर्वेषां सर्वभूतेषु सर्वदा ॥ ११ ॥
सहिता वरयामासुः सर्वलोकपितामहम् ।
तानब्रवीत्तदा देवो लोकानां प्रभुरव्ययः ॥ १२ ॥
नास्ति सर्वामरत्वं वै निवर्तध्वमतोऽसुराः ।
अन्यं वरं वृणीध्वं वै यादृशं सम्प्ररोचते ॥ १३ ॥
ततस्ते सहिता दैत्याः सम्प्रधार्य परस्परम् ।
ब्रह्माणमब्रुवन्दैत्याः प्रणिपत्य जगद्गुरुम् ॥ १४ ॥
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।
विचरिष्याम लोकेश त्वत् प्रसादाज्जगद्गुरो ॥ १५ ॥
तथा वर्षसहस्रेषु समेष्यामः परस्परम् ।
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥ १६ ॥
समागतानि चैतानि यो हन्याद्भगवंस्तदा ।
एकेनैवेषुणा देवः स नो मृत्युर्भविष्यति ॥ १७ ॥
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ।
ततो मयः स्वतपसा चक्रे वीरः पुराण्यथ ॥ १८ ॥
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।
आयसं चाभवद्भूमौ पुरं तेषां महात्मनाम् ॥ १९ ॥
एकैकं योजनशतं विस्तारायामतः समम् ।
काञ्चनं तारकाक्षस्य कमलाक्षस्य राजतम् ॥ २० ॥
विद्युन्मालेश्चायसं वै त्रिविधं दुर्गमुत्तमम् ।
मयश्च बलवांस्तत्र दैत्यदानवपूजितः ॥ २१ ॥
हैरण्ये राजते चैव कृष्णायसमये तथा ।
आलयं चात्मनः कृत्वा तत्रास्ते बलवांस्तदा ॥ २२ ॥
एवं बभूवुर्दैत्यानामतिदुर्गाणि सुव्रताः ।
पुराणि त्रीणि विप्रेन्द्रास्त्रैलोक्यमिव चापरम् ॥ २३ ॥
पुरत्रये तदा जाते सर्वे दैत्या जगत्त्रये ।
पुरत्रयं प्रविश्यैव बभूवुस्ते बलाधिकाः ॥ २४ ॥
कल्पद्रुमसमाकीर्णं गजवाजिसमाकुलम् ।
नानाप्रसादसङ्कीर्णं मणिजालैः समावृतम् ॥ २५ ॥
सूर्यमण्डलसङ्काशैर्विमानैर्विश्वतोमुखैः ।
पद्मरागमयैः शुभ्रैः शोभितं चन्द्रसन्निभैः ॥ २६ ॥
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ।
शोभितं त्रिपुरं तेषां पृथक्पृथगनुत्तमैः ॥ २७ ॥
दिव्यस्त्रीभिः सुसम्पूर्णं गन्धर्वैः सिद्धचारणैः ।
रुद्रालयैः प्रतिगृहं साग्निहोत्रैर्द्विजोत्तमाः ॥ २८ ॥
वापीकूपतडागैश्च दीर्घिकाभिस्तु सर्वतः ।
मत्तमातङ्गयूथैश्च तुरङ्गैश्च सुशोभनैः ॥ २९ ॥
रथैश्च विविधाकारैर्विचित्रैर्विश्वतोमुखैः ।
सभाप्रपादिभिश्चैव क्रीडास्थानैः पृथक् पृथक् ॥ ३० ॥
वेदाध्ययनशालाभिर्विविधाभिः समन्ततः ।
अधृष्यं मनसाप्यन्यैर्मयस्यैव च मायया ॥ ३१ ॥
पतिव्रताभिः सर्वत्र सेवितं मुनिपुङ्गवाः ।
कृत्वापि सुमहत्पापमपापैः शङ्करार्चनात् ॥ ३२ ॥
दैत्येश्वरैर्महाभागैः सदारैः ससुतैर्द्विजाः ।
श्रौतस्मार्तार्थधर्मज्ञैस्तद्धर्मनिरतैः सदा ॥ ३३ ॥
महादेवेतरं त्यक्त्वा देवं तस्यार्चने स्थितैः ।
व्यूढोरस्कैर्वृषस्कन्धैः सर्वायुधधरैः सदा ॥ ३४ ॥
सर्वदा क्षुधितैश्चैव दावाग्निसदृशेक्षणैः ।
प्रशान्तैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा ॥ ३५ ॥
नीलोत्पलदलप्रख्यैर्नीलकुञ्चितमूर्धजैः ।
नीलाद्रिमेरुसङ्काशैर्नीरदोपमनिः स्वनैः ।
मयेन रक्षितैः सर्वैः शिक्षितैर्युद्धलालसैः ॥ ३६ ॥
अथ समररतैः सदा समन्ताच्छिवपदपूजनया सुलब्धवीर्यैः ।
रविमरुदमरेन्द्रसन्निकाशैः सुरमथनैः सुदृढैः सुसेवितं तत् ॥ ३७ ॥
सेन्द्रा देवा द्विजश्रेष्ठा द्रुमा दावाग्निना यथा ।
पुरत्रयाग्निना दग्धा ह्यभवन् दैत्यवैभवात् ॥ ३८ ॥
अथैवं ते तदा दग्धा देवा देवेश्वरं हरिम् ।
अभिवन्द्य तदा प्राहुस्तमप्रतिमवर्चसम् ॥ ३९ ॥
सोऽपि नारायणः श्रीमान् चिन्तयामास चेतसा ।
किं कार्यं देवकार्येषु भगवानिति स प्रभुः ॥ ४० ॥
तदा सस्मार वै यज्ञं यज्ञमूर्तिर्जनार्दनः ।
यज्वा यज्ञभुगीशानो यज्वनां फलदः प्रभुः ॥ ४१ ॥
ततो यज्ञः स्मृतस्तेन देवकार्यार्थसिद्धये ।
देवं ते पुरुषं चैव प्रणेमुस्तुष्टुवुस्तदा ॥ ४२ ॥
भगवानपि तं दृष्ट्वा यज्ञं प्राह सनातनम् ।
सनातनस्तदा सेन्द्रान् देवानालोक्य चाच्युतः ॥ ४३ ॥
॥ श्रीविष्णुरुवाच ॥
अनेनोपसदा देवा यजध्वं परमेश्वरम् ।
पुरत्रयविनाशाय जगत्त्रयविभूतये ॥ ४४ ॥
॥ सूत उवाच ॥
अथ तस्य वचः श्रुत्वा देवदेवस्य धीमतः ।
सिंहनादं महत्कृत्वा यज्ञेशं तुष्टुवुः सुराः ॥ ४५ ॥
ततः सञ्चिन्त्य भगवान् स्वयमेव जनार्दनः ।
पुनः प्राह स सर्वांस्तांस्त्रिदशांस्त्रिदशेश्वरः ॥ ४६ ॥
हत्वा दग्ध्वा च भूतानि भुक्त्वा चान्यायतोऽपि वा ।
यजेद्यदि महादेवमपापो नात्र संशयः ॥ ४७ ॥
अपापा नैव हन्तव्याः पापा एव न संशयः ।
हन्तव्याः सर्वयत्नेन कथं वध्याः सुरोत्तमाः ॥ ४८ ॥
असुरा दुर्मदाः पापा अपि देवैर्महाबलैः ।
तस्मान्न वध्या रुद्रस्य प्रभावात्परमेष्ठिनः ॥ ४९ ॥
कोऽहं ब्रह्माथवा देवा दैत्या देवारिसूदनाः ।
मुनयश्च महात्मानः प्रसादेन विना प्रभोः ॥ ५० ॥
यः सप्तविंशको नित्यः परात्परतरः प्रभुः ।
विश्वामरेश्वरो वन्द्यो विश्वाधारो महेश्वरः ॥ ५१ ॥
स एव सर्वदेवेशः सर्वेषामपि शङ्करः ।
लीलया देवदैत्येन्द्र विभागमकरोद्धरः ॥ ५२ ॥
तस्यांशमेकं सम्पूज्य देवा देवत्वमागताः ।
ब्रह्मा ब्रह्मत्वमापन्नो ह्यहं विष्णुत्वमेव च ॥ ५३ ॥
तमपूज्य जगत्यस्मिन् कः पुमान् सिद्धिमिच्छति ।
तस्मात्तेनैव हन्तव्या लिङ्गार्चनविधेर्बलात् ॥ ५४ ॥
धर्मनिष्ठाश्च ते सर्वे श्रौतस्मार्तविधौ स्थिताः ।
तथापि यजमानेन रौद्रेणोपसदा प्रभुम् ।
रुद्रमिष्ट्वा यथान्यायं जेष्यामो दैत्यसत्तमान् ॥ ५५ ॥
सतारकाक्षेण मयेन गुप्तं स्वस्थं च गुप्तं स्फटिकाभमेकम् ।
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥ ५६ ॥
॥ सूत उवाच ॥
एवमुक्त्वा हरिश्चेष्ट्वा यज्ञेनोपसदा प्रभुम् ।
उपविष्टो ददर्शाथ भूतसङ्घान् सहस्रशः ॥ ५७ ॥
शूलशक्तिगदाहस्तान् टङ्कोपलशिलायुधान् ।
नानाप्रहरणोपेतान् नानावेषधरांस्तदा ॥ ५८ ॥
कालाग्निरुद्रसङ्काशान् कालरुद्रोपमांस्तदा ।
प्राह देवो हरिः साक्षात् प्रणिपत्य स्थितान् प्रभुः ॥ ५९ ॥
॥ विष्णुरुवाच ॥
दग्ध्वा भित्त्वा च भुक्त्वा च गत्वा दैत्यपुरत्रयम् ।
पुनर्यथागतं वीरा गन्तुमर्हथ भूतये ॥ ६० ॥
ततः प्रणम्य देवेशं भूतसङ्घाः पुरत्रयम् ।
प्रविश्य नष्टास्ते सर्वे शलभा इव पावकम् ॥ ६१ ॥
ततस्तु नष्टास्ते सर्वे भूता देवेश्वराज्ञया ।
ननृतुर्मुमुदुश्चैव जगुर्दैत्याः सहस्रशः ॥ ६२ ॥
तुष्टुवुर्देवदेवेशं परमात्मानमीश्वरम् ।
ततः पराजिता देवा ध्वस्तवीर्याः क्षणेन तु ॥ ६३ ॥
सेन्द्राः सङ्गम्य देवेशमुपेन्द्रं धिष्ठिता भयात् ।
तान् दृष्ट्वा चिन्तयामास भगवान् पुरुषोत्तमः ॥ ६४ ॥
किं कृत्यमिति सन्तप्तः सन्तप्तान् सेन्द्रकान्क्षणम् ।
कथं तु तेषां दैत्यानां बलं हत्वा प्रयत्नतः ॥ ६५ ॥
देवकार्यं करिष्यामि प्रसादात् परमेष्ठिनः ।
पापं विचारतो नास्ति धर्मिष्ठानां न संशयः ॥ ६६ ॥
तस्माद्दैत्या न वध्यास्ते भूतैश्चोपसदोद्भवैः ।
पापं नुदति धर्मेण धर्मे सर्वं प्रतिष्ठितम् ॥ ६७ ॥
धर्मादैश्वर्यमित्येषा श्रुतिरेषा सनातनी ।
दैत्याश्चैते हि धर्मिष्ठाः सर्वे त्रिपुरवासिनः ॥ ६८ ॥
तस्मादवध्यतां प्राप्ता नान्यथा द्विजपुङ्गवाः ।
कृत्वापि सुमहत् पापं रुद्रमभ्यर्चयन्ति ये ॥ ६९ ॥
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा ।
पूजया भोगसम्पत्तिरवश्यं जायते द्विजाः ॥ ७० ॥
तस्मात्ते भोगिनो दैत्या लिङ्गार्चनपरायणाः ।
तस्मात्कृत्वा धर्मविघ्नमहं देवाः स्वमायया ॥ ७१ ॥
दैत्यानां देवकार्यार्थं जेष्येऽहं त्रिपुरं क्षणात् ।
॥ सूत उवाच ॥
विचार्यैवं ततस्तेषां भगवान् पुरुषोत्तमः ।
कर्तुं व्यवसितश्चाभूद्धर्मविघ्नं सुरारिणाम् ॥ ७२ ॥
असृजच्च महातेजाः पुरुषं चात्मसम्भवम् ।
मायी मायामयं तेषां धर्मविघ्नार्थमच्युतः ॥ ७३ ॥
शास्त्रं च शास्ता सर्वेषामकरोत्कामरूपधृक् ।
सर्वसम्मोहनं मायी दृष्टप्रत्ययसंयुतम् ॥ ७४ ॥
एतत्स्वाङ्गभवायैव पुरुषायोपदिश्य तु ।
मायी मायामयं शास्त्रं ग्रन्थषोडशलक्षकम् ॥ ७५ ॥
श्रौतस्मार्तविरुद्धं च वर्णाश्रमविवर्जितम् ।
इहैव स्वर्गनरकं प्रत्ययं नान्यथा पुनः ॥ ७६ ॥
तच्छास्त्रमुपदिश्यैव पुरुषायाच्युतः स्वयम् ।
पुरत्रयविनाशाय प्राहैनं पुरुषं हरिः ॥ ७७ ॥
गन्तुमर्हसि नाशाय भो तूर्णं पुरवासिनाम् ।
धर्मास्तथा प्रणश्यन्तु श्रौतस्मार्ता न संशयः ॥ ७८ ॥
ततः प्रणम्य तं मायी मायाशास्त्रविशारदः ।
प्रविश्य तत्पुरं तूर्णं मुनिर्मायां तदाकरोत् ॥ ७९ ॥
मायया तस्य ते दैत्याः पुरत्रयनिवासिनः ।
श्रौतं स्मार्तं च सन्त्यज्य तस्य शिष्यास्तदाभवन् ॥ ८० ॥
तत्यजुश्च महादेवं शङ्करं परमेश्वरम् ।
नारदोऽपि तदा मायी नियोगान्मायिनः प्रभोः ॥ ८१ ॥
प्रविश्य तत्पुरं तेन मायिना सह दीक्षितः ।
मुनिः शिष्यैः प्रशिष्यैश्च संवृतः सर्वतः स्वयम् ॥ ८२ ॥
स्त्रीधर्मं चाकरोत्स्त्रीणां दुश्चारफलसिद्धिदम् ।
चक्रुस्ताः सर्वदा लब्ध्वा सद्य एव फलं स्त्रियः ॥ ८३ ॥
जनासक्ता बभूवुस्ता विनिन्द्य पतिदेवताः ।
अद्यापि गौरवात्तस्य नारदस्य कलौ मुनेः ॥ ८४ ॥
नार्यश्चरन्ति सन्त्यज्य भर्तॄन् स्वैरं वृथाधमाः ।
स्त्रीणां माता पिता बन्धुः सखा मित्रं च बान्धवः ॥ ८५ ॥
भर्ता एव न सन्देहस्तथाप्यासहमायया ।
कृत्वापि सुमहत् पापं या भर्तुः प्रेमसंयुता ॥ ८६ ॥
प्राप्नुयात् परमं स्वर्गं नरकं च विपर्ययात् ।
पुरैका मुनिशार्दूलाः सर्वधर्मान् सदा पतिम् ॥ ८७ ॥
सन्त्यज्यापूजयन् साध्व्यो देवानन्याञ्जगद्गुरून् ।
ताः स्वर्गलोकमासाद्य मोदन्ते विगतज्वराः ॥ ८८ ॥
नरकं च जगामान्या तस्माद्भर्ता परा गतिः ।
तथापि भर्तॄन् स्वांस्त्यक्त्वा बभूवुः स्वैरवृत्तयः ॥ ८९ ॥
मायया देवदेवस्य विष्णोस्तस्याज्ञया प्रभोः ।
अलक्ष्मीश्च स्वयं तस्य नियोगात्त्रिपुरं गता ॥ ९० ॥
या लक्ष्मीस्तपसा तेषां लब्धा देवेश्वरादजात् ।
बहिर्गता परित्यज्य नियोगाद् ब्रह्मणः प्रभोः ॥ ९१ ॥
बुद्धिमोहं तथाभूतं विष्णुमायाविनिर्मितम् ।
तेषां दत्त्वा क्षणं देवस्तासां मायी च नारदः ॥ ९२ ॥
सुखासीनौ ह्यसम्भ्रान्तौ धर्मविघ्नार्थमव्ययौ ।
एवं नष्टे तदा धर्मे श्रौतस्मार्ते सुशोभने ॥ ९३ ॥
पाषण्डे ख्यापिते तेन विष्णुना विश्वयोनिना ।
त्यक्ते महेश्वरे दैत्यैस्त्यक्ते लिङ्गार्चने तथा ॥ ९४ ॥
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ।
कृतार्थ इव देवेशो देवैः सार्धमुमापतिम् ॥ ९५ ॥
तपसा प्राप्य सर्वज्ञं तुष्टाव पुरुषोत्तमः ।
॥ श्रीभगवानुवाच ॥
महेश्वराय देवाय नमस्ते परमात्मने ॥ ९६ ॥
नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे ।
शाश्वताय ह्यनन्ताय अव्यक्ताय च ते नमः ॥ ९७ ॥
॥ सूत उवाच ॥
एवं स्तुत्वा महादेवं दण्डवत् प्रणिपत्य च ।
जजाप रुद्रं भगवान् कोटिवारं जले स्थितः ॥ ९८ ॥
देवाश्च सर्वे ते देवं तुष्टुवुः परमेश्वरम् ।
सेन्द्राः ससाध्याः सयमाः सरुद्राः समरुद्गणाः ॥ ९९ ॥
॥ देवा ऊचुः ॥
नमः सर्वात्मने तुभ्यं शङ्करायार्तिहारिणे ।
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ १०० ॥
गतिर्नः सर्वदास्माभिर्वन्द्यो देवारिमर्दनः ।
त्वमादिस्त्वमनन्तश्च अनन्तश्चाक्षयः प्रभुः ॥ १०१ ॥
प्रकृतिः पुरुषः साक्षात्स्रष्टा हर्ता जगद्गुरो ।
त्राता नेता जगत्यस्मिन् द्विजानां द्विजवत्सल ॥ १०२ ॥
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ।
याज्यो मुक्त्यर्थमीशानो योगिभिर्योगविभ्रमैः ॥ १०३ ॥
हृत्पुण्डरीकसुषिरे योगिनां संस्थितः सदा ।
वदन्ति सूरयः सन्तं परं ब्रह्मस्वरूपिणम् ॥ १०४ ॥
भवन्तं तत्त्वमित्यार्यास्तेजोराशिं परात्परम् ।
परमात्मानमित्याहुरस्मिञ्जगति तद्विभो ॥ १०५ ॥
दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो ।
अणोरल्पतरं प्राहुर्महतोऽपि महत्तरम् ॥ १०६ ॥
सर्वतः पाणिपादं त्वां सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ॥ १०७ ॥
महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम् ।
विश्वरूपं विरूपाक्षं सदाशिवमनामयम् ॥ १०८ ॥
कोटिभास्करसङ्काशं कोटिशीतांशुसन्निभम् ।
कोटिकालाग्निसङ्काशं षड्विंशकमनीश्वरम् ॥ १०९ ॥
प्रवर्तकं जगत्यस्मिन् प्रकृतेः प्रपितामहम् ।
वदन्ति वरदं देवं सर्वावासं स्वयम्भुवम् ॥ ११० ॥
श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदो जनाः ॥ १११ ॥
अदृष्टमस्माभिरनेकमूर्ते विना कृतं यद्भवताथ लोके ।
त्वमेव दैत्यासुरभूतसङ्घान् देवान्नरान् स्थावरजङ्गमांश्च ॥ ११२ ॥
पाहि नान्या गतिः शम्भो विनिहत्यासुरोत्तमान् ।
मायया मोहिताः सर्वे भवतः परमेश्वर ॥ ११३ ॥
यथा तरङ्गा लहरीसमूहा युध्यन्ति चान्योन्यमपांनिधौ च ।
जलाश्रयादेव जडीकृताश्च सुरासुरास्तद्वदजस्य सर्वम् ॥ ११४ ॥
॥ सूत उवाच ॥
य इदं प्रातरुत्थाय शुचिर्भूत्वा जपेन्नरः ।
शृणुयाद्वा स्तवं पुण्यं सर्वकाममवाप्नुयात् ॥ ११५ ॥
स्तुतस्त्वेवं सुरैर्विष्णोर्जपेन च महेश्वरः ।
सोमः सोमामथालिङ्ग्य नन्दिदत्तकरः स्मयन् ॥ ११६ ॥
प्राह गम्भीरया वाचा देवानालोक्य शङ्करः ।
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वराः ॥ ११७ ॥
विष्णोर्मायाबलं चैव नारदस्य च धीमतः ।
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तमाः ॥ ११८ ॥
पुरत्रयविनाशं च करिष्येऽहं सुरोत्तमाः ।
॥ सूत उवाच ॥
अथ सब्रह्मका देवाः सेन्द्रोपेन्द्राः समागताः ॥ ११९ ॥
श्रुत्वा प्रभोस्तदा वाक्यं प्रणेमुस्तुष्टुवुश्च ते ।
अप्येतदन्तरे देवी देवमालोक्य विस्मिता ॥ १२० ॥
लीलांबुजेन चाहत्य कलमाह वृषध्वजम् ।
॥ देव्युवाच ॥
क्रीडमानं विभो पश्य षण्मुखं रविसन्निभम् ॥ १२१ ॥
पुत्रं पुत्रवतां श्रेष्ठं भूषितं भूषणैः शुभैः ।
मुकुटैः कटकैश्चैव कुण्डलैर्वलयैः शुभैः ॥ १२२ ॥
नूपुरैश्छन्नवारैश्च तथा ह्युदरबन्धनैः ।
किङ्किणीभिरनेकाभिर्हैमैरश्वत्थपत्रकैः ॥ १२३ ॥
कल्पकद्रुमजैः पुष्पैः शोभितैरलकैः शुभैः ।
हारैर्वारिजरागादि मणिचित्रैस्तथाङ्गदैः ॥ १२४ ॥
मुक्ताफलमयैर्हारैः पूर्णचन्द्रसमप्रभैः ।
तिलकैश्च महादेव पश्य पुत्रं सुशोभनम् ॥ १२५ ॥
अङ्कितं कुङ्कुमाद्यैश्च वृत्तं भसितनिर्मितम् ।
वक्त्रवृन्दं च पश्येश वृन्दं कामलकं यथा ॥ १२६ ॥
नेत्राणि च विभो पश्य शुभानि त्वं शुभानि च ।
अञ्जनानि विचित्राणि मङ्गलार्थं च मातृभिः ॥ १२७ ॥
गङ्गादिभिः कृत्तिकाद्यैः स्वाहया च विशेषतः ।
इत्येवं लोकमातुश्च वाग्भिः सम्बोधितः शिवः ॥ १२८ ॥
न ययौ तृप्तिमीशानः पिबन् स्कन्दाननामृतम् ।
न सस्मार च तान्देवान् दैत्यशस्त्रनिपीडितान् ॥ १२९ ॥
स्कन्दमालिङ्ग्य चाघ्राय नृत्य पुत्रेत्युवाच ह ।
सोऽपि लीलालसो बालो ननर्तार्तिहरः प्रभुः ॥ १३० ॥
सहैव ननृतुश्चान्ये सह तेन गणेश्वराः ।
त्रैलोक्यमखिलं तत्र ननर्तेशाज्ञया क्षणम् ॥ १३१ ॥
नागाश्च ननृतुः सर्वे देवाः सेन्द्रपुरोगमाः ।
तुष्टुवुर्गणपाः स्कन्दं मुमोदाम्बा च मातरः ॥ १३२ ॥
ससृजुः पुष्पवर्षाणि जगुर्गन्धर्वकिन्नराः ।
नृत्यामृतं तदा पीत्वा पार्वतीपरमेश्वरौ ।
अवापतुस्तदा तृप्तिं नन्दिना च गणेश्वराः ॥ १३३ ॥
ततः स नन्दी सह षण्मुखेन तथा च सार्धं गिरिराजपुत्र्या ।
विवेश दिव्यं भवनं भवोऽपि यथाम्बुदोऽन्याम्बुदमम्बुदाभः ॥ १३४ ॥
द्वारस्य पार्श्वे ते तस्थुर्देवा देवस्य धीमतः ।
तुष्टुवुश्च महादेवं किञ्चिदुद्विग्नचेतसः ॥ १३५ ॥
किन्तु किन्त्विति चान्योन्यं प्रेक्ष्य चैतत् समाकुलाः ।
पापा वयमिति ह्यन्ये अभाग्याश्चेति चापरे ॥ १३६ ॥
भाग्यवन्तश्च दैत्येन्द्रा इति चान्ये सुरेश्वराः ।
पूजाफलमिमं तेषामित्यन्ये नेति चापरे ॥ १३७ ॥
एतस्मिन्नन्तरे तेषां श्रुत्वा शब्दाननेकशः ।
कुम्भोदरो महातेजा दण्डेनाताडयत् सुरान् ॥ १३८ ॥
दुद्रुवुस्ते भयाविष्टा देवा हाहेतिवादिनः ।
अपतन् मुनयश्चान्ये देवाश्च धरणीतले ॥ १३९ ॥
अहो विधेर्बलं चेति मुनयः कश्यपादयः ।
दृष्ट्वापि देवदेवेशं देवानां चासुरद्विषाम् ॥ १४० ॥
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ।
प्रोचुर्नमः शिवायेति पूज्य चाल्पतरं हृदि ॥ १४१ ॥
ततः कपर्दी नन्दीशो महादेवप्रियो मुनिः ।
शूली माली तथा हाली कुण्डली वलयी गदी ॥ १४२ ॥
वृषमारुह्य सुश्वेतं ययौ तस्याज्ञया तदा ।
ततो वै नन्दिनं दृष्ट्वा गणः कुम्भोदरोऽपि सः ॥ १४३ ॥
प्रणम्य नन्दिनं मूर्ध्ना सह तेन त्वरन् ययौ ।
नन्दी भाति महातेजा वृषपृष्ठे वृषध्वजः ॥ १४४ ॥
सगणो गणसेनानीर्मेघपृष्ठे यथा भवः ।
दशयोजनविस्तीर्णं मुक्ताजालैरलङ्कृतम् ॥ १४५ ॥
सितातपत्रं शैलादेराकाशमिव भाति तत् ।
तत्रान्तर्बद्धमाला सा मुक्ताफलमयी शुभा ॥ १४६ ॥
गङ्गाकाशान्निपतिता भाति मूर्ध्नि विभोर्यथा ।
अथ दृष्ट्वा गणाध्यक्षं देवदुन्दुभयः शुभाः ॥ १४७ ॥
नियोगाद्वज्रिणः सर्वे विनेदुर्मुनिपुङ्गवाः ।
तुष्टुवुश्च गणेशानं वाग्भिरिष्टप्रदं शुभम् ॥ १४८ ॥
यथा देवा भवं दृष्ट्वा प्रीतिकण्टकितत्वचः ।
नियोगाद्वज्रिणो मूर्ध्नि पुष्पवर्षं च खेचराः ॥ १४९ ॥
ववृषुश्च सुगन्धाढ्यं नन्दिनो गगनोदितम् ।
वृष्ट्या तुष्टस्तदा रेजे तुष्ट्या पुष्ट्या यथार्थया ॥ १५० ॥
नन्दी भवश्चान्द्रयातु स्नातया गन्धवारिणा ।
पुष्पैर्नानाविधैस्तत्र भाति पृष्ठं वृषस्य तत् ॥ १५१ ॥
सङ्कीर्णं तु दिवः पृष्ठं नक्षत्रैरिव सुव्रताः ।
कुसुमैः संवृतो नन्दी वृषपृष्ठे रराज सः ॥ १५२ ॥
दिवः पृष्ठे यथा चन्द्रो नक्षत्रैरिव सुव्रताः ।
तं दृष्ट्वा नन्दिनं देवाः सेन्द्रोपेन्द्रास्तथाविधम् ॥ १५३ ॥
तुष्टुवुर्गणपेशानं देवदेवमिवापरम् ।
॥ देवा ऊचुः ॥
नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च ॥ १५४ ॥
रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते ।
कूष्माण्डगणनाथाय योगिनां पतये नमः ॥ १५५ ॥
सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे ।
वेदानां पतये चैव वेदवेद्याय ते नमः ॥ १५६ ॥
वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे ।
वज्रालङ्कृतदेहाय वज्रिणाराधिताय ते ॥ १५७ ॥
रक्ताय रक्तनेत्राय रक्ताम्बरधराय ते ।
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने ॥ १५८ ॥
नमः सेनाधिपतये रुद्राणां पतये नमः ।
भूतानां भुवनेशानां पतये पापहारिणे ॥ १५९ ॥
रुद्राय रुद्रपतये रौद्रपापहराय ते ।
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः ॥ १६० ॥
॥ सूत उवाच ॥
ततः प्रीतो गणाध्यक्षः प्राह देवांश्छिवात्मजः ।
रथं च सारथिं शम्भोः कार्मुकं शरमुत्तमम् ॥ १६१ ॥
कर्तुमर्हथ यत्नेन नष्टं मत्वा पुरत्रयम् ।
अथ ते ब्रह्मणा सार्धं तथा वै विश्वकर्मणा ॥ १६२ ॥
रथं चक्रुः सुसंरब्धा देवदेवस्य धीमतः ॥ १६३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पुरदाहे नन्दिकेश्वरवाक्यं नाम एकसप्ततितमोऽध्यायः ॥ ७१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-71

कोई टिप्पणी नहीं:

123