श्रीलिङ्गमहापुराण -[पूर्वभाग] -075

श्रीलिङ्गमहापुराण -[पूर्वभाग] -075
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचहत्तरवाँ अध्याय
शिव के निर्गुण एवं सगुणस्वरूप का निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चसप्ततितमोऽध्यायः
शिवाद्वैतकथनं

॥ ऋषय ऊचुः ॥
निष्कलो निर्मलो नित्यः सकलत्वं कथं गतः ।
वक्तुमर्हसि चास्माकं यथा पूर्वं यथा श्रुतम् ॥ १ ॥
॥ सूत उवाच ॥
परमार्थविदः केचिदूचुः प्रणवरूपिणम् ।
विज्ञानमिति विप्रेन्द्राः श्रुत्वा श्रुतिशिरस्यजम् ॥ २ ॥


शब्दादिविषयं ज्ञानं ज्ञानमित्यभिधीयते ।
तज्ज्ञानं भ्रान्तिरहितमित्यन्ये नेति चापरे ॥ ३ ॥
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं निराश्रयम् ।
गुरुप्रकाशकं ज्ञानमित्यन्ये मुनयो द्विजाः ॥ ४ ॥
ज्ञानेनैव भवेन्मुक्तिः प्रसादो ज्ञानसिद्धये ।
उभाभ्यां मुच्यते योगी तत्रानन्दमयो भवेत् ॥ ५ ॥
वदन्ति मुनयः केचित्कर्मणा तस्य सङ्गतिम् ।
कल्पनाकल्पितं रूपं संहृत्य स्वेच्छयैव हि ॥ ६ ॥
द्यौर्मूर्धा तु विभोस्तस्य खं नाभिः परमेष्ठिनः ।
सोमसूर्याग्नयो नेत्रे दिशः श्रोत्रं महात्मनः ॥ ७ ॥
चरणौ चैव पातालं समुद्रस्तस्य चाम्बरम् ।
देवास्तस्य भुजाः सर्वे नक्षत्राणि च भूषणम् ॥ ८ ॥
प्रकृतिस्तस्य पत्नी च पुरुषो लिङ्गमुच्यते ।
वक्त्राद्वै ब्राह्मणाः सर्वे ब्रह्मा च भगवान् प्रभुः ॥ ९ ॥
इन्द्रोपेन्द्रौ भुजाभ्यां तु क्षत्रियाश्च महात्मनः ।
वैश्याश्चोरुप्रदेशात्तु शूद्राः पादात्पिनाकिनः ॥ १० ॥
पुष्करावर्तकाद्यास्तु केशास्तस्य प्रकीर्तिताः ।
वायवो घ्राणजास्तस्य गतिः श्रौतं स्मृतिस्तथा ॥ ११ ॥
अथानेनैव कर्मात्मा प्रकृतेस्तु प्रवर्तकः ।
पुंसां तु पुरुषः श्रीमान् ज्ञानगम्यो न चान्यथा ॥ १२ ॥
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ १३ ॥
जपयज्ञसहस्रेभ्यो ध्यानयज्ञो विशिष्यते ।
ध्यानयज्ञात्परो नास्ति ध्यानं ज्ञानस्य साधनम् ॥ १४ ॥
यदा समरसे निष्ठो योगी ध्यानेन पश्यति ।
ध्यानयज्ञरतस्यास्य तदा सन्निहितः शिवः ॥ १५ ॥
नास्ति विज्ञानिनां शौचं प्रायश्चित्तादि चोदना ।
विशुद्धा विद्यया सर्वे ब्रह्मविद्याविदो जनाः ॥ १६ ॥
नास्ति क्रिया च लोकेषु सुखं दुःखं विचारतः ।
धर्माधर्मौ जपो होमो ध्यानिनां सन्निधिः सदा ॥ १७ ॥
परानन्दात्मकं लिङ्गं विशुद्धं शिवमक्षरम् ।
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ १८ ॥
लिङ्गं तु द्विविधं प्राहुर्बाह्यमाभ्यन्तरं द्विजाः ।
बाह्यं स्थूलं मुनिश्रेष्ठाः सूक्ष्ममाभ्यन्तरं द्विजाः ॥ १९ ॥
कर्मयज्ञरताः स्थूलाः स्थूललिङ्गार्चने रताः ।
असतां भावनार्थाय नान्यथा स्थूलविग्रहः ॥ २० ॥
आध्यात्मिकं च यल्लिङ्गं प्रत्यक्षं यस्य नो भवेत् ।
असौ मूढो बहिः सर्वं कल्पयित्वैव नान्यथा ॥ २१ ॥
ज्ञानिनां सूक्ष्मममलं भवेत् प्रत्यक्षमव्ययम् ।
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ २२ ॥
अर्थो विचारतो नास्तीत्यन्ये तत्त्वार्थवेदिनः ।
निष्कलः सकलश्चेति सर्वं शिवमयं ततः ॥ २३ ॥
व्योमैकमपि दृष्टं हि शरावं प्रति सुव्रताः ।
पृथक्त्वं चापृथक्त्वं च शङ्करस्येति चापरे ॥ २४ ॥
प्रत्ययार्थं हि जगतामेकस्थोऽपि दिवाकरः ।
एकोऽपि बहुधा दृष्टो जलाधारेषु सुव्रताः ॥ २५ ॥
जन्तवो दिवि भूमौ च सर्वे वै पाञ्चभौतिकाः ।
तथापि बहुला दृष्टा जातिव्यक्तिविभेदतः ॥ २६ ॥
दृश्यते श्रूयते यद्यत्तत्तद्विद्धि शिवात्मकम् ।
भेदो जनानां लोकेऽस्मिन् प्रतिभासो विचारतः ॥ २७ ॥
स्वप्ने च विपुलान् भोगान् भुक्त्वा मर्त्यः सुखी भवेत् ।
दुःखी च भोगं दुःखं च नानुभूतं विचारतः ॥ २८ ॥
एवमाहुस्तथान्ये च सर्वे वेदार्थतत्त्वगाः ।
हृदि संसारिणां साक्षात् सकलः परमेश्वरः ॥ २९ ॥
योगिनां निष्कलो देवो ज्ञानिनां च जगन्मयः ।
त्रिविधं परमेशस्य वपुर्लोके प्रशस्यते ॥ ३० ॥
निष्कलं प्रथमं चैकं ततः सकलनिष्कलम् ।
तृतीयं सकलं चैव नान्यथेति द्विजोत्तमाः ॥ ३१ ॥
अर्चयन्ति मुहुः केचित् सदा सकलनिष्कलम् ।
सर्वज्ञं हृदये केचिच्छिवलिङ्गे विभावसौ ॥ ३२ ॥
सकलं मुनयः केचित्सदा संसारवर्तिनः ।
एवमभ्यर्चयन्त्येव सदाराः ससुता नराः ॥ ३३ ॥
यथा शिवस्तथा देवी यथा देवी तथा शिवः ।
तस्मादभेदबुद्ध्यैव सप्तविंशत् प्रभेदतः ॥ ३४ ॥
यजन्ति देहे बाह्ये च चतुष्कोणे षडस्रके ।
दशारे द्वादशारे च षोडशारे त्रिरस्रके ॥ ३५ ॥
स स्वेच्छया शिवः साक्षाद्देव्या सार्धं स्थितः प्रभुः ।
सन्तारणार्थं च शिवः सदसद्व्यक्तिवर्जितः ॥ ३६ ॥
तमेकमाहुर्द्विगुणं च केचित्केचित्तमाहुस्त्रिगुणात्मकं च ।
ऊचुस्तथा तं च शिवं तथान्ये संसारिणं वेदविदो वदन्ति ॥ ३७ ॥
भक्त्या च योगेन शुभेन युक्ता विप्राः सदा धर्मरता विशिष्टाः ।
यजन्ति योगेशमशेषमूर्तिं षडस्रमध्ये भगवन्तमेव ॥ ३८ ॥
ये तत्र पश्यन्ति शिवं त्रिरस्रे त्रितत्त्वमध्ये त्रिगुणं त्रियक्षम् ।
ते यान्ति चैनं न च योगिनोऽन्ये तया च देव्या पुरुषं पुराणम् ॥ ३९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवाद्वैतकथनं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-75

कोई टिप्पणी नहीं:

123