श्रीलिङ्गमहापुराण -[पूर्वभाग] -070
॥ श्रीसाम्बसदाशिवाय नमः ॥
सत्तरवाँ अध्याय
महेश्वर से होने वाली आदिसृष्टि का स्वरूप, नवविध सर्ग वर्णन एवं प्राजापत्य सर्ग निरूपण तथा भगवती सती की देह से अनेक देवियों का प्रादुर्भाव
श्रीलिङ्गमहापुराणे पूर्वभागे सप्ततितमोऽध्यायः
सृष्टिविस्तार
॥ ऋषय ऊचुः ॥
आदिसर्गस्त्वया सूत सूचितो न प्रकाशितः ।
साम्प्रतं विस्तरेणैव वक्तुमर्हसि सुव्रत ॥ १ ॥
॥ सूत उवाच ॥
महेश्वरो महादेवः प्रकृतेः पुरुषस्य च ।
परत्वे संस्थितो देवः परमात्मा मुनीश्वराः ॥ २ ॥
अव्यक्तं चेश्वरात्तस्मादभवत् कारणं परम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ३ ॥
गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् ।
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ ४ ॥
जगद्योनिं महाभूतं परं ब्रह्म सनातनम् ।
विग्रहः सर्वभूतानामीश्वराज्ञाप्रचोदितम् ॥ ५ ॥
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाव्ययम् ।
अप्रकाशमविज्ञेयं ब्रह्माग्रे समवर्तत ॥ ६ ॥
अस्यात्मना सर्वमिदं व्याप्तं त्वासीच्छिवेच्छया ।
गुणसाम्ये तदा तस्मिन्नविभागे तमोमये ॥ ७ ॥
सर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै ।
गुणभावाद्व्यज्यमानो महान् प्रादुर्बभूव ह ॥ ८ ॥
सूक्ष्मेण महता चाथ अव्यक्तेन समावृतम् ।
सत्त्वोद्रिक्तो महानग्रे सत्तामात्रप्रकाशकः ॥ ९ ॥
मनो महांस्तु विज्ञेयमेकं तत् कारणं स्मृतम् ।
समुत्पन्नं लिङ्गमात्रं क्षेत्रज्ञाधिष्ठितं हि तत् ॥ १० ॥
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः ।
महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया ॥ ११ ॥
मनो महान् मतिर्ब्रह्म पूर्बुद्धिः ख्यातिरीश्वरः ।
प्रज्ञा चितिः स्मृतिः संविद्विश्वेशश्चेति स स्मृतः ॥ १२ ॥
मनुते सर्वभूतानां यस्माच्चेष्टा फलं ततः ।
सौक्ष्म्यात्तेन विभक्तं तु येन तन्मन उच्यते ॥ १३ ॥
तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः ।
विशेषेभ्यो गुणेभ्योऽपि महानिति ततः स्मृतः ॥ १४ ॥
बिभर्ति मानं मनुते विभागं मन्यतेऽपि च ।
पुरुषो भोगसम्बन्धात्तेन चासौ मतिः स्मृतः ॥ १५ ॥
बृहत्त्वाद्बृंहणत्वाच्च भावानां सकलाश्रयात् ।
यस्माद्धारयते भावान् ब्रह्म तेन निरुच्यते ॥ १६ ॥
यः पूरयति यस्माच्च कृत्स्नान् देवाननुग्रहैः ।
नयते तत्त्वभावं च तेन पूरिति चोच्यते ॥ १७ ॥
बुध्यते पुरुषश्चात्र सर्वान् भावान् हितं तथा ।
यस्माद् बोधयते चैव बुद्धिस्तेन निरुच्यते ॥ १८ ॥
ख्यातिः प्रत्युपभोगश्च यस्मात्संवर्तते ततः ।
भोगस्य ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः ॥ १९ ॥
ख्यायते तद्गुणैर्वापि ज्ञानादिभिरनेकशः ।
तस्माच्च महतः संज्ञा ख्यातिरित्यभिधीयते ॥ २० ॥
साक्षात् सर्वं विजानाति महात्मा तेन चेश्वरः ।
यस्माज्ज्ञानानुगश्चैव प्रज्ञा तेन स उच्यते ॥ २१ ॥
ज्ञानादीनि च रूपाणि बहुकर्मफलानि च ।
चिनोति यस्माद्भोगार्थं तेनासौ चितिरुच्यते ॥ २२ ॥
वर्तमानव्यतीतानि तथैवानागतान्यपि ।
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते ॥ २३ ॥
कृत्स्नं च विन्दते ज्ञानं यस्मान् माहात्म्यमुत्तमम् ।
तस्माद्विन्देर्विदेश्चैव संविदित्यभिधीयते ॥ २४ ॥
विद्यतेऽपि च सर्वत्र तस्मिन् सर्वं च विन्दति ।
तस्मात्संविदिति प्रोक्तो महद्भिर्मुनिसत्तमाः ॥ २५ ॥
जानातेर्ज्ञानमित्याहुर्भगवान् ज्ञानसन्निधिः ।
बन्धनादिपरीभावादीश्वरः प्रोच्यते बुधैः ॥ २६ ॥
पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम् ।
व्याख्यातं तत्त्वभावज्ञैर्देवसद्भावचिन्तकैः ॥ २७ ॥
महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया ।
सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ॥ २८ ॥
त्रिगुणाद्रजसोद्रिक्तादहङ्कारस्ततोऽभवत् ।
महता च वृतः सर्गो भूतादिर्बाह्यतस्तु सः ॥ २९ ॥
तस्मादेव तमोद्रिक्तादहङ्कारादजायत ।
भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः ॥ ३० ॥
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ ३१ ॥
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ।
वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह ॥ ३२ ॥
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।
स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत् ॥ ३३ ॥
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।
सम्भवन्ति ततो ह्यापस्ता वै सर्वरसात्मिकाः ॥ ३४ ॥
रसमात्रास्तु ता ह्यापो रूपमात्रोऽग्निरावृणोत् ।
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ॥ ३५ ॥
सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः ।
तस्मिंस्तस्मिंश्च तन्मात्रं तेन तन्मात्रता स्मृता ॥ ३६ ॥
अविशेषवाचकत्वादविशेषास्ततस्तु ते ।
प्रशान्तघोरमूढत्वादविशेषास्ततः पुनः ॥ ३७ ॥
भूततन्मात्रसर्गोऽयं विज्ञेयस्तु परस्परम् ।
वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकात् ॥ ३८ ॥
वैकारिकः स सर्गस्तु युगपत् सम्प्रवर्तते ।
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ॥ ३९ ॥
साधकानीन्द्रियाणि स्युर्देवा वैकारिका दश ।
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ ४० ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि तानि वै ॥ ४१ ॥
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् ।
गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यं च कर्म तत् ॥ ४२ ॥
आकाशं शब्दमात्रं च स्पर्शमात्रं समाविशत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ ४३ ॥
रूपं तथैव विशतः शब्दस्पर्शगुणावुभौ ।
त्रिगुणस्तु ततस्त्वग्निः सशब्दस्पर्शरूपवान् ॥ ४४ ॥
सशब्दस्पर्शरूपं च रसमात्रं समाविशत् ।
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ४५ ॥
शब्दस्पर्शं च रूपं च रसो वै गन्धमाविशत् ।
सङ्गता गन्धमात्रेण आविशन्तो महीमिमाम् ॥ ४६ ॥
तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु शस्यते ।
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ४७ ॥
परस्परानुप्रवेशाद्धारयन्ति परस्परम् ।
भूमेरन्तस्त्विदं सर्वं लोकालोकाचलावृतम् ॥ ४८ ॥
विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः ।
गुणं पूर्वस्य सर्गस्य प्राप्नुवन्त्युत्तरोत्तराः ॥ ४९ ॥
तेषां यावच्च तद्यच्च यच्च तावद् गुणं स्मृतम् ।
उपलभ्याप्सु वै गन्धं केचिद् ब्रूयुरपां गुणम् ॥ ५० ॥
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रयात् ।
एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् ॥ ५१ ॥
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।
महादयो विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ५२ ॥
एककालसमुत्पन्नं जलबुद्बुदवच्च तत् ।
विशेषेभ्योऽण्डमभवन् महत्तदुदकेशयम् ॥ ५३ ॥
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम् ।
आपो दशगुणेनैतास्तेजसा बाह्यतो वृताः ॥ ५४ ॥
तेजो दशगुणेनैव वायुना बाह्यतो वृतम् ।
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ॥ ५५ ॥
आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ।
भूतादिर्महता चापि अव्यक्तेनावृतो महान् ॥ ५६ ॥
शर्वश्चाण्डकपालस्थो भवश्चांभसि सुव्रताः ।
रुद्रोऽग्निमध्ये भगवानुग्रो वायौ पुनः स्मृतः ॥ ५७ ॥
भीमश्चावनिमध्यस्थो ह्यहङ्कारे महेश्वरः ।
बुद्धौ च भगवानीशः सर्वतः परमेश्वरः ॥ ५८ ॥
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ।
एता आवृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ ५९ ॥
प्रसर्गकाले स्थित्वा तु ग्रसन्त्येताः परस्परम् ।
एवं परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ६० ॥
आधाराधेयभावेन विकारास्ते विकारिषु ।
महेश्वरः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ॥ ६१ ॥
अण्डाज्जज्ञे स एवेशः पुरुषोऽर्कसमप्रभः ।
तस्मिन्कार्यस्य करणं संसिद्धं स्वेच्छयैव तु ॥ ६२ ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
तस्य वामाङ्गजो विष्णुः सर्वदेवनमस्कृतः ॥ ६३ ॥
लक्ष्म्या देव्या ह्यभूद्देव इच्छया परमेष्ठिनः ।
दक्षिणाङ्गभवो ब्रह्मा सरस्वत्या जगद्गुरुः ॥ ६४ ॥
तस्मिन्नण्डे इमे लोका अन्तर्विश्वमिदं जगत् ।
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ६५ ॥
लोकालोकद्वयं किञ्चिदण्डे ह्यस्मिन् समर्पितम् ।
यत्तु सृष्टौ प्रसंख्यातं मया कालान्तरं द्विजाः ॥ ६६ ॥
एतत् कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ।
रात्रिश्चैतावती ज्ञेया परमेशस्य कृत्स्नशः ॥ ६७ ॥
अहस्तस्य तु या सृष्टिः रात्रिश्च प्रलयः स्मृतः ।
नाहस्तु विद्यते तस्य न रात्रिरिति धारयेत् ॥ ६८ ॥
उपचारस्तु क्रियते लोकानां हितकाम्यया ।
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ ६९ ॥
तस्मात्सर्वाणि भूतानि बुद्धिश्च सह दैवतैः ।
अहस्तिष्ठन्ति सर्वाणि परमेशस्य धीमतः ॥ ७० ॥
अहरन्ते प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः ।
स्वात्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहृते ॥ ७१ ॥
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ ।
तमःसत्त्वरजोपेतौ समत्वेन व्यवस्थितौ ॥ ७२ ॥
अनुपृक्तावभूतां तावोतप्रोतौ परस्परम् ।
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७३ ॥
तिले यथा भवेत्तैलं घृतं पयसि वा स्थितम् ।
तथा तमसि सत्त्वे च रजस्यनुसृतं जगत् ॥ ७४ ॥
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तथा ।
अर्हमुखे प्रवृत्तश्च परः प्रकृतिसम्भवः ॥ ७५ ॥
क्षोभयामास योगेन परेण परमेश्वरः ।
प्रधानं पुरुषं चैव प्रविश्य स महेश्वरः ॥ ७६ ॥
महेश्वरात्त्रयो देवा जज्ञिरे जगदीश्वरात् ।
शाश्वताः परमा गुह्यः सर्वात्मानः शरीरिणः ॥ ७७ ॥
एत एव त्रयो देवा एत एव त्रयो गुणाः ।
एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥ ७८ ॥
परस्पराश्रिता ह्येते परस्परमनुव्रताः ।
परस्परेण वर्तन्ते धारयन्ति परस्परम् ॥ ७९ ॥
अन्योन्यमिथुना ह्येते अन्योन्यमुपजीविनः ।
क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥ ८० ॥
ईश्वरस्तु परो देवो विष्णुश्च महतः परः ।
ब्रह्मा च रजसा युक्तः सर्गादौ हि प्रवर्तते ॥ ८१ ॥
परः स पुरुषो ज्ञेयः प्रकृतिः सा परा स्मृता ॥ ८२ ॥
अधिष्ठिता सा हि महेश्वरेण प्रवर्तते चोद्यमने समन्तात् ।
अनुप्रवृत्तस्तु महांस्तदेनां चिरस्थिरत्वाद्विषयं श्रियः स्वयम् ॥ ८३ ॥
प्रधानगुणवैषम्यात्सर्गकालः प्रवर्तते ।
ईश्वराधिष्ठितात्पूर्वं तस्मात् सदसदात्मकात् ॥ ८४ ॥
संसिद्धः कार्यकरणे रुद्रश्चाग्रे ह्यवर्तत ।
तेजसाप्रतिमो धीमानव्यक्तः सम्प्रकाशकः ॥ ८५ ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
ब्रह्मा च भगवांस्तस्माच्चतुर्वक्त्रः प्रजापतिः ॥ ८६ ॥
संसिद्धः कार्यकारणे तथा वै समवर्तत ।
एक एव महादेवस्त्रिधैवं स व्यवस्थितः ॥ ८७ ॥
अप्रतीपेन ज्ञानेन ऐश्वर्येण समन्वितः ।
धर्मेण चाप्रतीपेन वैराग्येण च तेऽन्विताः ॥ ८८ ॥
अव्यक्ताज्जायते तेषां मनसा यद्यदीहितम् ।
वशीकृतत्वात्त्रैगुण्यं सापेक्षत्वात्स्वभावतः ॥ ८९ ॥
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकः स्मृतः ।
सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाः स्वयम्भुवः ॥ ९० ॥
ब्रह्मत्वे सृजते लोकान् कालत्वे सङ्क्षिपत्यपि ।
पुरुषत्वे ह्युदासीनस्तिस्रोऽवस्थाः प्रजापतेः ॥ ९१ ॥
ब्रह्मा कमलगर्भाभो रुद्रः कालाग्निसन्निभः ।
पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः ॥ ९२ ॥
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ।
महेश्वरः शरीराणि करोति विकरोति च ॥ ९३ ॥
नानाकृतिक्रियारूप नामवन्ति स्वलीलया ।
महेश्वरः शरीराणि करोति विकरोति च ॥ ९४ ॥
त्रिधा यद्वर्तते लोके तस्मात्त्रिगुण उच्यते ।
चतुर्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः ॥ ९५ ॥
यदाप्नोति यदादत्ते यच्चात्ति विषयानयम् ।
यच्चास्य सततं भावस्तस्मादात्मा निरुच्यते ॥ ९६ ॥
ऋषिः सर्वगतत्वाच्च शरीरी सोऽस्य यत् प्रभुः ।
स्वामित्वमस्य यत्सर्वं विष्णुः सर्वप्रवेशनात् ॥ ९७ ॥
भगवान् भगवद्भावान्निर्मलत्वाच्छिवः स्मृतः ।
परमः सम्प्रकृष्टत्वादवनादोमिति स्मृतः ॥ ९८ ॥
सर्वज्ञः सर्वविज्ञानात्सर्वः सर्वमयो यतः ।
त्रिधा विभज्य चात्मानं त्रैलोक्यं सम्प्रवर्तते ॥ ९९ ॥
सृजते ग्रसते चैव रक्षते च त्रिभिः स्वयम् ।
आदित्वादादिदेवोऽसावजातत्वादजः स्मृतः ॥ १०० ॥
पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः ।
देवेषु च महान् देवो महादेवस्ततः स्मृतः ॥ १०१ ॥
सर्वगत्वाच्च देवानामवश्यत्वाच्च ईश्वरः ।
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते ॥ १०२ ॥
क्षेत्रज्ञः क्षेत्रविज्ञानादेकत्वात् केवलः स्मृतः ।
यस्मात्पुर्यां स शेते च तस्मात्पूरुष उच्यते ॥ १०३ ॥
अनादित्वाच्च पूर्वत्वात्स्वयंभूरिति संस्मृतः ।
याज्यत्वादुच्यते यज्ञः कविर्विक्रान्तदर्शनात् ॥ १०४ ॥
क्रमणः क्रमणीयत्वात्पालकश्चापि पालनात् ।
आदित्यसंज्ञः कपिलो ह्यग्रजोऽग्निरिति स्मृतः ॥ १०५ ॥
हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः ।
तस्माद्धिरण्यगर्भत्वं पुराणेऽस्मिन्निरुच्यते ॥ १०६ ॥
स्वयम्भुवोऽपि वृत्तस्य कालो विश्वात्मनस्तु यः ।
न शक्यः परिसंख्यातुमपि वर्षशतैरपि ॥ १०७ ॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणः स्मृतः ।
तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते ॥ १०८ ॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै ।
समतीतानि कल्पानां तावच्छेषाः परे तु ये ।
यस्त्वयं वर्तते कल्पो वाराहस्तं निबोधत ॥ १०९ ॥
प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्तते द्विजाः ।
यस्मिन् स्वायम्भुवाद्यास्तु मनवस्ते चतुर्दश ॥ ११० ॥
अतीता वर्तमानाश्च भविष्या ये च वै पुनः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥ १११ ॥
पूर्णं युगसहस्रं वै परिपाल्या महेश्वरैः ।
प्रजाभिस्तपसा चैव तेषां शृणुत विस्तरम् ॥ ११२ ॥
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च ।
कथितानि भविष्यन्ति कल्पः कल्पेन चैव हि ॥ ११३ ॥
अतीतानि च कल्पानि सोदर्काणि सहान्वयैः ।
अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥ ११४ ॥
आपो ह्यग्रे समभवन्नष्टे च पृथिवीतले ।
शान्ततारैकनीरेऽस्मिन्न प्राज्ञायत किञ्चन ॥ ११५ ॥
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ।
तदा भवति वै ब्रह्मा सहस्राक्षः सहस्रपात् ॥ ११६ ॥
सहस्रशीर्षा पुरुषो रुक्मवर्णस्त्वतीन्द्रियः ।
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ ११७ ॥
सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमुदैक्षत ।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥ ११८ ॥
आपो नाराश्च सूनव इत्यपां नाम शुश्रुमः ।
आपूर्य ताभिरयनं कृतवानात्मनो यतः ॥ ११९ ॥
अप्सु शेते यतस्तस्मात्ततो नारायणः स्मृतः ।
चतुर्युगसहस्रस्य नैशं कालमुपास्यतः ॥ १२० ॥
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ।
ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा समाचरत् ॥ १२१ ॥
निशायामिव खद्योतः प्रावृट्काले ततस्तु सः ।
ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ॥ १२२ ॥
अनुमानादसम्मूढो भूमेरुद्धरणं पुनः ।
अकरोत्स तनूमन्यां कल्पादिषु यथापुरा ॥ १२३ ॥
ततो महात्मा भगवान् दिव्यरूपमचिन्तयत् ।
सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः ॥ १२४ ॥
किंनु रूपमहं कृत्वा उद्धरेयं महीमिमाम् ।
जलक्रीडानुसदृशं वाराहं रूपमाविशत् ॥ १२५ ॥
अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसंज्ञितम् ।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ १२६ ॥
अद्भिः सञ्छादितां भूमिं स तामाशु प्रजापतिः ।
उपगम्योज्जहारैनामापश्चापि समाविशत् ॥ १२७ ॥
सामुद्रा वै समुद्रेषु नादेयाश्च नदीषु च ।
रसातलतले मग्नां रसातलपुटे गताम् ॥ १२८ ॥
प्रभुर्लोकहितार्थाय दंष्ट्रयाभ्युज्जहार गाम् ।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ॥ १२९ ॥
मुमोच पूर्ववदसौ धारयित्वा धराधरः ।
तस्योपरि जलौघस्य महती नौरिव स्थिता ॥ १३० ॥
तत्समा ह्युरुदेहत्वान्न मही याति सम्प्लवम् ।
तत उत्क्षिप्य तां देवो जगतः स्थापनेच्छया ॥ १३१ ॥
पृथिव्याः प्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ।
पृथिवीं च समां कृत्वा पृथिव्यां सोऽचिनोद् गिरीन् ॥ १३२ ॥
प्राक्सर्गे दह्यमाने तु तदा संवर्तकाग्निना ।
तेनाग्निना विशीर्णास्ते पर्वता भूरिविस्तराः ॥ १३३ ॥
शैत्यादेकार्णवे तस्मिन् वायुना तेन संहताः ।
निषिक्ता यत्र यत्रासंस्तत्र तत्राचलाभवन् ॥ १३४ ॥
तदाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः ।
गिरयो हि निगीर्णत्वाच्छयानत्वाच्छिलोच्चयाः ॥ १३५ ॥
ततस्तेषु विकीर्णेषु कोटिशो हि गिरिष्वथ ।
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः ॥ १३६ ॥
ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्वताम् ।
भूराद्यांश्चतुरो लोकान् पुनः सोऽथ व्यकल्पयत् ॥ १३७ ॥
लोकान् प्रकल्पयित्वाथ प्रजासर्गं ससर्ज ह ।
ब्रह्मा स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ १३८ ॥
ससर्ज सृष्टिं तद्रूपां कल्पादिषु यथापुरा ।
तस्याभिध्यायतः सर्गं तथा वै बुद्धिपूर्वकम् ॥ १३९ ॥
बुद्ध्याश्च समकाले वै प्रादुर्भूतस्तमोमयः ।
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥ १४० ॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।
पञ्चधावस्थितः सर्गो ध्यायतः सोऽभिमानिनः ॥ १४१ ॥
संवृतस्तमसा चैव बीजाङ्कुरवदावृतः ।
बहिरन्तश्चाप्रकाशस्तब्धो निःसंज्ञ एव च ॥ १४२ ॥
यस्मात्तेषां वृता बुद्धिर्दुःखानि करणानि च ।
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥ १४३ ॥
मुख्यसर्गं तथाभूतं दृष्ट्वा ब्रह्मा ह्यसाधकम् ।
अप्रसन्नमनाः सोऽथ ततोऽन्यं सो ह्यमन्यत ॥ १४४ ॥
तस्याभिध्यायतश्चैव तिर्यक्स्रोता ह्यवर्तत ।
तस्मात्तिर्यक्प्रवृत्तः स तिर्यक्स्रोतास्ततः स्मृतः ॥ १४५ ॥
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ।
तस्याभिध्यायतोऽन्यं वै सात्त्विकः समवर्तत ॥ १४६ ॥
ऊर्ध्वस्रोतास्तृतीयस्तु स वै चोर्ध्वं व्यवस्थितः ।
यस्मात् प्रवर्तते चोर्ध्वमूर्ध्वस्रोतास्ततः स्मृतः ॥ १४७ ॥
ते सुखप्रीतिबहुला बहिरन्तश्च संवृताः ।
प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोभवाः स्मृताः ॥ १४८ ॥
ते सत्त्वस्य च योगेन सृष्टाः सत्त्वोद्भवाः स्मृताः ।
ऊर्ध्वस्रोतास्तृतीयो वै देवसर्गस्तु स स्मृतः ॥ १४९ ॥
प्रकाशाद्बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः ।
ते ऊर्ध्वस्रोतसो ज्ञेयास्तुष्टात्मानो बुधैः स्मृताः ॥ १५० ॥
ऊर्ध्वस्रोतःसु सृष्टेषु देवेषु वरदः प्रभुः ।
प्रीतिमानभवद् ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत ॥ १५१ ॥
ससर्ज सर्गमन्यं हि साधकं प्रभुरीश्वरः ।
ततोऽभिध्यायतस्तस्य सत्याभिध्यायिनस्तदा ॥ १५२ ॥
प्रादुरासीत्तदा व्यक्तादर्वाक्स्रोतास्तु साधकः ।
यस्मादर्वाङ्न्यवर्तन्त ततोऽर्वाक्स्रोतसस्तु ते ॥ १५३ ॥
ते च प्रकाशबहुलास्तमःपृक्ता रजोऽधिकाः ।
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः ॥ १५४ ॥
संवृता बहिरन्तश्च मनुष्याः साधकाश्च ते ।
लक्षणैस्तारकाद्यैस्ते ह्यष्टधा तु व्यवस्थिताः ॥ १५५ ॥
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः ।
इत्येष तैजसः सर्गो ह्यर्वाक्स्रोतःप्रकीर्तितः ॥ १५६ ॥
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा तु व्यवस्थितः ।
विपर्ययेण शक्त्या च सिद्ध्या तुष्ट्या तथैव च ॥ १५७ ॥
स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तितः ।
सिद्धात्मानो मनुष्यास्तु ऋषिदेवेषु कृत्स्नशः ॥ १५८ ॥
इत्येष प्राकृतः सर्गो वैकृतो नवमः स्मृतः ।
भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते ॥ १५९ ॥
निवृत्तं वर्तमानं च तेषां जानन्ति वै पुनः ।
भूतादिकानां भूतानां सप्तमः सर्ग एव च ॥ १६० ॥
ते परिग्राहिणः सर्वे संविभागरताः पुनः ।
स्वादनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते ॥ १६१ ॥
विपर्ययेण भूतादिरशक्त्या च व्यवस्थितः ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणः स्मृतः ॥ १६२ ॥
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ १६३ ॥
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।
मुख्यसर्गश्चतुर्थश्च मुख्या वै स्थावराः स्मृताः ॥ १६४ ॥
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ।
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ॥ १६५ ॥
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ १६६ ॥
अबुद्धिपूर्वकाः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।
बुद्धिपूर्वं प्रवर्तन्ते षट्पुनर्ब्रह्मणस्तु ते ॥ १६७ ॥
विस्तरानुग्रहः सर्गः कीर्त्यमानो निबोधत ।
चतुर्धावस्थितः सोऽथ सर्वभूतेषु कृत्स्नशः ॥ १६८ ॥
इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः ।
परस्परानुरक्ताश्च कारणैश्च बुधैः स्मृताः ॥ १६९ ॥
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ।
ऋभुः सनत्कुमारश्च द्वावेतावूर्ध्वरेतसौ ॥ १७० ॥
पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ ।
व्यतीते त्वष्टमे कल्पे पुराणौ लोकसाक्षिणौ ॥ १७१ ॥
तौ वाराहे तु भूर्लोके तेजः सङ्क्षिप्य धिष्ठितौ ।
तावुभौ मोक्षकर्माणावारोप्यात्मानमात्मनि ॥ १७२ ॥
प्रजां धर्मं च कामं च त्यक्त्वा वैराग्यमास्थितौ ।
यथोत्पन्नस्तथैवेह कुमारः स इहोच्यते ॥ १७३ ॥
तस्मात्सनत्कुमारेति नामास्येह प्रकीर्तितम् ।
सनन्दं सनकं चैव विद्वांसं च सनातनम् ॥ १७४ ॥
विज्ञानेन निवृत्तास्ते व्यवर्तन्त महौजसः ।
सम्बुद्धाश्चैव नानात्वे अप्रवृत्ताश्च योगिनः ॥ १७५ ॥
असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः ।
ततस्तेषु व्यतीतेषु ततोऽन्यान् साधकान् सुतान् ॥ १७६ ॥
मानसानसृजद् ब्रह्मा पुनः स्थानाभिमानिनः ।
आ भूतसम्प्लवावस्था यैरियं विधृता मही ॥ १७७ ॥
आपोऽग्निं पृथिवीं वायुमन्तरिक्षं दिवं तथा ।
समुद्रांश्च नदीश्चैव तथा शैलवनस्पतीन् ॥ १७८ ॥
ओषधीनां तथात्मानो वल्लीनां वृक्षवीरुधाम् ।
लताः काष्ठाः कलाश्चैव मुहूर्ताः संधिरात्र्यहान् ॥ १७९ ॥
अर्धमासांश्च मासांश्च अयनाब्दयुगानि च ।
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः ॥ १८० ॥
देवानृषींश्च महतो गदतस्तान्निबोधत ।
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ १८१ ॥
दक्षमत्रिं वसिष्ठं च सोऽसृजन्मानसान्नव ।
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १८२ ॥
तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम् ।
स्थानानि कल्पयामास पूर्ववत्पद्मसम्भवः ॥ १८३ ॥
ततोऽसृजच्च सङ्कल्पं धर्मं चैव सुखावहम् ।
सोऽसृजद्व्यवसायात्तु धर्मं देवो महेश्वरः ॥ १८४ ॥
सङ्कल्पं चैव सङ्कल्पात्सर्वलोकपितामहः ।
मानसश्च रुचिर्नाम विजज्ञे ब्रह्मणः प्रभोः ॥ १८५ ॥
प्राणाद् ब्रह्मासृजद्दक्षं चक्षुर्भ्यां च मरीचिनम् ।
भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः ॥ १८६ ॥
शिरसोऽङ्गिरसश्चैव श्रोत्रादत्रिं तथासृजत् ।
पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः ॥ १८७ ॥
समानजो वसिष्ठश्च अपानान्निर्ममे क्रतुम् ।
इत्येते ब्रह्मणः पुत्रा दिव्या एकादशा स्मृताः ॥ १८८ ॥
धर्मादयः प्रथमजाः सर्वे ते ब्रह्मणः सुताः ।
भृग्वादयस्तु ते सृष्टा नवैते ब्रह्मवादिनः ॥ १८९ ॥
गृहमेधिनः पुराणास्ते धर्मस्तैः सम्प्रवर्तितः ।
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः ॥ १९० ॥
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ।
ऋभुः सनत्कुमारश्च द्वावेतावूर्ध्वरेतसौ ॥ १९१ ॥
पूर्वोत्पन्नौ परं तेभ्यः सर्वेषामपि पूर्वजौ ।
व्यतीते त्वष्टमे कल्पे पुराणौ लोकसाक्षिणौ ॥ १९२ ॥
विराजेतामुभौ लोके तेजः सङ्क्षिप्य धिष्ठितौ ।
तावुभौ योगकर्माणावारोप्यात्मानमात्मनि ॥ १९३ ॥
प्रजां धर्मं च कामं च त्यक्त्वा वैराग्यमास्थितौ ।
यथोत्पन्नः स एवेह कुमारः स इहोच्यते ॥ १९४ ॥
तस्मात्सनत्कुमारेति नामास्येह प्रतिष्ठितम् ।
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः ॥ १९५ ॥
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ।
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः ॥ १९६ ॥
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ १९७ ॥
ततस्तु युञ्जतस्तस्य तमोमात्रसमुद्भवम् ।
समभिध्यायतः सर्गं प्रयत्नेन प्रजापतेः ॥ १९८ ॥
ततोऽस्य जघनात्पूर्वमसुरा जज्ञिरे सुताः ।
असुः प्राणः स्मृतो विप्रास्तज्जन्मानस्ततोऽसुराः ॥ १९९ ॥
यया सृष्टासुराः सर्वे तां तनुं स व्यपोहत ।
सापविद्धा तनुस्तेन सद्यो रात्रिरजायत ॥ २०० ॥
सा तमोबहुला यस्मात्ततो रात्रिर्नियामिका ।
आवृतास्तमसा रात्रौ प्रजास्तस्मात्स्वपन्त्युत ॥ २०१ ॥
सृष्ट्वासुरांस्ततः सो वै तनुमन्यामगृह्णत ।
अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्यपूजयत् ॥ २०२ ॥
ततस्तां युञ्जतस्तस्य प्रियमासीत् प्रजापतेः ।
ततो मुखात् समुत्पन्ना दीव्यतस्तस्य देवताः ॥ २०३ ॥
यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्तिताः ।
धातुर्दिविति यः प्रोक्तः क्रीडायां स विभाव्यते ॥ २०४ ॥
यस्मात्तस्य तु दीव्यन्तो जज्ञिरे तेन देवताः ।
देवान् सृष्ट्वाथ देवेशस्तनुमन्यामपद्यत ॥ २०५ ॥
उत्सृष्टा सा तनुस्तेन सद्योऽहः समजायत ।
तस्मादहो धर्मयुक्तं देवताः समुपासते ॥ २०६ ॥
सत्त्वमात्रात्मिकामेव ततोऽन्यां सोऽभ्यमन्यत ।
पितृवन्मन्यमानस्य पुत्रांस्तान्ध्यायतः प्रभोः ॥ २०७ ॥
पितरो ह्युपपक्षाभ्यां रात्र्यह्णोरन्तरेऽभवन् ।
तस्मात्ते पितरो देवाः पितृत्वं तेन तेषु तत् ॥ २०८ ॥
यया सृष्टास्तु पितरस्तनुं तां स व्यपोहत ।
सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ॥ २०९ ॥
यस्मादहर्देवतानां रात्रिर्या सासुरी स्मृता ।
तयोर्मध्ये तु पैत्री या तनुः सा तु गरीयसी ॥ २१० ॥
तस्माद्देवा सुराः सर्वे ऋषयो मानवास्तथा ।
उपासन्ते मुदायुक्ता रात्र्यह्णोर्मध्यमां तनुम् ॥ २११ ॥
ततो ह्यन्यां पुनर्ब्रह्मा तनुं वै समगृह्णत ।
रजोमात्रात्मिकायां तु मनसा सोऽसृजत् प्रभुः ॥ २१२ ॥
रजःप्रियांस्ततः सोऽथ मानसानसृजत् सुतान् ।
मनस्विनस्ततस्तस्य मानवा जज्ञिरे सुताः ॥ २१३ ॥
सृष्ट्वा पुनः प्रजाश्चापि स्वां तनुं तामपोहत ।
सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत ॥ २१४ ॥
यस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः ।
इत्येतास्तनवस्तेन ह्यपविद्धा महात्मना ॥ २१५ ॥
सद्यो रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च जज्ञिरे ।
ज्योत्स्ना सन्ध्या अहश्चैव सत्त्वमात्रात्मकं त्रयम् ॥ २१६ ॥
तमोमात्रात्मिका रात्रिः सा वै तस्मान्निशात्मिका ।
तस्माद्देवा दिवातन्वा तुष्ट्या सृष्टा मुखात्तु वै ॥ २१७ ॥
यस्मात्तेषां दिवा जन्म बलिनस्तेन वै दिवा ।
तन्वा ययासुरान् रात्रौ जघनादसृजत् प्रभुः ॥ २१८ ॥
प्राणेभ्यो निशिजन्मानो बलिनो निशि तेन ते ।
एतान्येव भविष्याणां देवानामसुरैः सह ॥ २१९ ॥
पितॄणां मानवानां च अतीतानागतेषु वै ।
मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि ॥ २२० ॥
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्यंभांसि तानि वै ।
भान्ति यस्मात्ततोऽम्भांसि शब्दोऽयं सुमनीषिभिः ॥ २२१ ॥
भातिर्दीप्तौ निगदितः पुनश्चाथ प्रजापतिः ।
सोऽम्भांस्येतानि सृष्ट्वा तु देवमानुषदानवान् ॥ २२२ ॥
पितॄंश्चैव सृजत्तन्वा आत्मना विविधान् पुनः ।
तामुत्सृज्य तनुं ज्योत्स्नां ततोऽन्यां प्राप्य स प्रभुः ॥ २२३ ॥
मूर्तिं तमोरजः प्रायां पुनरेवाभ्यपूजयत् ।
अन्धकारे क्षुधाविष्टांस्ततोऽन्यान् सोऽसृजत् प्रभुः ॥ २२४ ॥
तेन सृष्टाः क्षुधात्मानो अम्भांस्यादातुमुद्यताः ।
अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ॥ २२५ ॥
राक्षसा नाम ते यस्मात्क्षुधाविष्टा निशाचराः ।
येऽब्रुवन् यक्षमोऽम्भांसि तेषां हृष्टाः परस्परम् ॥ २२६ ॥
तेन ते कर्मणा यक्षा गुह्यका गूढकर्मणा ।
रक्षेति पालने चापि धातुरेष विभाष्यते ॥ २२७ ॥
एवं च यक्षतिर्धातुर्भक्षणे स निरुच्यते ।
तं दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्णास्तु धीमतः ॥ २२८ ॥
ते शीर्णाश्चोत्थिता ह्यूर्ध्वं ते चैवारुरुधुः प्रभुम् ।
हीनास्तच्छिरसो वाला यस्माच्चैवावसर्पिणः ॥ २२९ ॥
व्यालात्मानः स्मृता बाला हीनत्वादहयः स्मृताः ।
पतत्वात्पन्नगाश्चैव सर्पाश्चैवावसर्पणात् ॥ २३० ॥
तस्य क्रोधोद्भवो योऽसौ अग्निगर्भः सुदारुणः ।
स तु सर्पान् सहोत्पन्नानाविवेश विषात्मकः ॥ २३१ ॥
सर्पान् सृष्ट्वा ततः क्रुद्धः क्रोधात्मानो विनिर्ममे ।
वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः ॥ २३२ ॥
भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात् ।
प्रसन्नं गायतस्तस्य गन्धर्वा जज्ञिरे यदा ॥ २३३ ॥
धयतीत्येष वै धातुः गानत्वे परिपठ्यते ।
धयन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः ॥ २३४ ॥
अष्टस्वेतासु सृष्टासु देवयोनिषु स प्रभुः ।
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसासृजत् ॥ २३५ ॥
स्वच्छन्दतः स्वच्छन्दांसि वयसा च वयांसि च ।
पशून् सृष्ट्वा स देवेशोऽसृजत् पक्षिगणानपि ॥ २३६ ॥
मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत् ।
गाश्चैवाथोदराद् ब्रह्मा पार्श्वाभ्यां च विनिर्ममे ॥ २३७ ॥
पद्भ्यां चाश्वान् समातङ्गान् रासभानावयान् मृगान् ।
उष्ट्रानश्वतरांश्चैव तथान्याश्चैव जातयः ॥ २३८ ॥
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।
एवं पश्वोषधीः सृष्ट्वा यूयुजत्सोऽध्वरे प्रभुः ॥ २३९ ॥
गौरजः पूरुषो मेषो ह्यश्वोऽश्वतरगर्दभौ ।
एतान् ग्राम्यान् पशूनाहुरारण्यान् वै निबोधत ॥ २४० ॥
श्वापदो द्विखुरो हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥ २४१ ॥
महिषा गवयाक्षाश्च प्लवङ्गाः शरभा वृकाः ।
सिंहस्तु सप्तमस्तेषामारण्याः पशवः स्मृताः ॥ २४२ ॥
गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ २४३ ॥
यजूंषि त्रैष्टुभं छन्द स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थ्यं च दक्षिणादसृजन्मुखात् ॥ २४४ ॥
सामानि जगतीछन्द स्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ २४५ ॥
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ २४६ ॥
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।
तेजांसि च ससर्जादौ कल्पस्य भगवान् प्रभुः ॥ २४७ ॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः ॥ २४८ ॥
सृष्ट्वा चतुष्टयं पूर्वं देवासुरनरान् पितॄन् ।
ततोऽसृजत्स भूतानि स्थावराणि चराणि च ॥ २४९ ॥
यक्षान् पिशाचान् गन्धर्वांस्त्वथैवाप्सरसां गणान् ।
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ॥ २५० ॥
अव्ययं च व्ययं चापि यदिदं स्थाणुजङ्गमम् ।
तेषां वै यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ॥ २५१ ॥
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे नृतानृते ॥ २५२ ॥
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।
महाभूतेषु सृष्टेषु इन्द्रियार्थेषु मूर्तिषु ॥ २५३ ॥
विनियोगं च भूतानां धातैव व्यदधात्स्वयम् ।
केचित् पुरुषकारं तु प्राहुः कर्म सुमानवाः ॥ २५४ ॥
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ।
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ॥ २५५ ॥
न चैकं न पृथग्भावमधिकं न ततो विदुः ।
एतदेवं च नैकं च नामभेदेन नाप्युभे ॥ २५६ ॥
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शनाः ।
नाम रूपं च भूतानां कृतानां च प्रपञ्चनम् ॥ २५७ ॥
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ।
ऋषीणां नामधेयानि याश्च वेदेषु वृत्तयः ॥ २५८ ॥
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ।
एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः ॥ २५९ ॥
शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम् ।
एवंभूतानि सृष्टानि स्थावराणि चराणि च ॥ २६० ॥
यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त सत्तमाः ।
तमोमात्रावृतो ब्रह्मा तदा शोकेन दुःखितः ॥ २६१ ॥
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।
अथात्मनि समद्राक्षीत्तमोमात्रां नियामिकाम् ॥ २६२ ॥
रजः सत्त्वं परित्यज्य वर्तमानां स्वधर्मतः ।
ततः स तेन दुःखेन दुःखं चक्रे जगत्पतिः ॥ २६३ ॥
तमश्च व्यनुदत्पश्चाद्रजः सत्त्वं तमावृणोत् ।
तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ॥ २६४ ॥
अधर्मस्तमसो जज्ञे हिंसा शोकादजायत ।
ततस्तस्मिन् समुद्भूते मिथुने दारुणात्मिके ॥ २६५ ॥
गतासुर्भगवानासीत् प्रीतिश्चैनमशिश्रियत् ।
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥ २६६ ॥
द्विधा कृत्वा स्वकं देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी सा तस्य शतरूपा व्यजायत ॥ २६७ ॥
प्रकृतिं भूतधात्रीं तां कामाद्वै सृष्टवान् प्रभुः ।
सा दिवं पृथिवीं चैव महिम्ना व्याप्यधिष्ठिता ॥ २६८ ॥
ब्रह्मणः सा तनुः पूर्वा दिवमावृत्य तिष्ठति ।
या त्वर्धात् सृजतो नारी शतरूपा व्यजायत ॥ २६९ ॥
सा देवी नियुतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत ॥ २७० ॥
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ।
तस्यैव सप्ततियुगं मन्वन्तरमिहोच्यते ॥ २७१ ॥
लेभे स पुरुषः पत्नीं शतरूपामयोनिजाम् ।
तया सार्धं स रमते तस्मात्सा रतिरुच्यते ॥ २७२ ॥
प्रथमः सम्प्रयोगात्मा कल्पादौ समपद्यत ।
विराजमसृजद् ब्रह्मा सोऽभवत् पुरुषो विराट् ॥ २७३ ॥
सम्राट् च शतरूपा वै वैराजः स मनुः स्मृतः ।
स वैराजः प्रजासर्गं ससर्ज पुरुषो मनुः ॥ २७४ ॥
वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ पुत्रौ द्वौ लोकसम्मतौ ॥ २७५ ॥
कन्ये द्वे च महाभागे याभ्यां जाता इमाः प्रजाः ।
देवी नाम तथाकूतिः प्रसूतिश्चैव ते उभे ॥ २७६ ॥
स्वायम्भुवः प्रसूतिं तु दक्षाय प्रददौ प्रभुः ।
प्राणो दक्ष इति ज्ञेयः सङ्कल्पो मनुरुच्यते ॥ २७७ ॥
रुचेः प्रजापतेः सोऽथ आकूतिं प्रत्यपादयत् ।
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ २७८ ॥
यज्ञश्च दक्षिणा चैव यमलौ सम्बभूवतुः ।
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ॥ २७९ ॥
यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे ।
एतस्य पुत्रा यज्ञस्य तस्माद्यामाश्च ते स्मृताः ॥ २८० ॥
अजितश्चैव शुक्रश्च गणौ द्वौ ब्रह्मणा कृतौ ।
यामाः पूर्वं प्रजाता ये तेऽभवंस्तु दिवौकसः ॥ २८१ ॥
स्वायम्भुवसुतायां तु प्रसूत्यां लोकमातरः ।
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत् प्रभुः ॥ २८२ ॥
सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ।
भोगवत्यश्च ताः सर्वाः सर्वास्ता योगमातरः ॥ २८३ ॥
सर्वाश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः ।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥ २८४ ॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ।
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ २८५ ॥
दाराण्येतानि वै तस्य विहितानि स्वयम्भुवा ।
ताभ्यः शिष्टायवीयस्य एकादश सुलोचनाः ॥ २८६ ॥
सती ख्यात्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ २८७ ॥
तास्तथा प्रत्यपद्यन्त पुनरन्ये महर्षयः ।
रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः ॥ २८८ ॥
पुलस्त्योऽत्रिर्वसिष्ठश्च पितरोऽग्निस्तथैव च ।
सतीं भवाय प्रायच्छत् ख्यातिं च भृगवे ततः ॥ २८९ ॥
मरीचये च सम्भूतिं स्मृतिमङ्गिरसे ददौ ।
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च ॥ २९० ॥
क्रतवे सन्नतिं नाम अनसूयां तथात्रये ।
ऊर्जां ददौ वसिष्ठाय स्वाहामप्यग्नये ददौ ॥ २९१ ॥
स्वधां चैव पितृभ्यस्तु तास्वपत्यानि बोधत ।
एताः सर्वा महाभागाः प्रजास्वनुसृताः स्थिताः ॥ २९२ ॥
मन्वन्तरेषु सर्वेषु यावदाभूतसम्प्लवम् ।
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः ॥ २९३ ॥
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः सन्तोष एव च ।
पुष्ट्या लोभः सुतश्चापि मेधापुत्रः श्रुतस्तथा ॥ २९४ ॥
क्रियायामभवत्पुत्रो दण्डः समय एव च ।
बुद्ध्यां बोधः सुतस्तद्वत् प्रमादोऽप्युपजायत ॥ २९५ ॥
लज्जायां विनयः पुत्रो व्यवसायो वसोः सुतः ।
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत ॥ २९६ ॥
यशः कीर्तिसुतश्चापि इत्येते धर्मसूनवः ।
कामस्य हर्षः पुत्रो वै देव्यां प्रीत्यां व्यजायत ॥ २९७ ॥
इत्येष वै सुतोदर्कः सर्गो धर्मस्य कीर्तितः ।
जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं सुतम् ॥ २९८ ॥
निकृत्यां तु द्वयं जज्ञे भयं नरक एव च ।
माया च वेदना चापि मिथुनद्वयमेतयोः ॥ २९९ ॥
भूयो जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ।
वेदनायाः सुतश्चापि दुःखं जज्ञे च रौरवः ॥ ३०० ॥
मृत्योर्व्याधिजराशोक क्रोधासूयाश्च जज्ञिरे ।
दुःखोत्तराः सुता ह्येते सर्वे चाधर्मलक्षणाः ॥ ३०१ ॥
नैषां भार्यास्तु पुत्राश्च सर्वे ह्येते परिग्रहाः ।
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ॥ ३०२ ॥
प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः ।
सोऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसम्भवान् ॥ ३०३ ॥
नाधिकान्न च हीनांस्तान् मानसानात्मनः समान् ।
सहस्रं हि सहस्राणां सोऽसृजत् कृत्तिवाससः ॥ ३०४ ॥
तुल्यानेवात्मनः सर्वान् रूपतेजोबलश्रुतैः ।
पिङ्गलान् सनिषङ्गांश्च सकपर्दान् सलोहितान् ॥ ३०५ ॥
विशिष्टान् हरिकेशांश्च दृष्टिघ्नांश्च कपालिनः ।
महारूपान् विरूपांश्च विश्वरूपान् स्वरूपिणः ॥ ३०६ ॥
रथिनश्चर्मिणश्चैव वर्मिणश्च वरूथिनः ।
सहस्रशतबाहूंश्च दिव्यान् भौमान्तरिक्षगान् ॥ ३०७ ॥
स्थूलशीर्षानष्टदंष्ट्रान् द्विजिह्वांस्तांस्त्रिलोचनान् ।
अन्नादान् पिशिताशांश्च आज्यपान् सोमपानपि ॥ ३०८ ॥
मीढुषोऽतिकपालांश्च शितिकण्ठोर्ध्वरेतसः ।
हव्यादाञ्छ्रुतधर्मांश्च धर्मिणो ह्यथ बर्हिणः ॥ ३०९ ॥
आसीनान् धावतश्चैव पञ्चभूतान् सहस्रशः ।
अध्यापिनोऽध्यायिनश्च जपतो युञ्जतस्तथा ॥ ३१० ॥
धूमवन्तो ज्वलन्तश्च नदीमन्तोऽतिदीप्तिनः ।
वृद्धान् बुद्धिमतश्चैव ब्रह्मिष्ठाञ्शुभदर्शनान् ॥ ३११ ॥
नीलग्रीवान् सहस्राक्षान् सर्वांश्चाथ क्षमाकरान् ।
अदृश्यान् सर्वभूतानां महायोगान् महौजसः ॥ ३१२ ॥
भ्रमन्तोऽभिद्रवन्तश्च प्लवन्तश्च सहस्रशः ।
अयातयामानसृजद्रुद्रानेतान् सुरोत्तमान् ॥ ३१३ ॥
ब्रह्मा दृष्ट्वाब्रवीदेनं मास्राक्षीरीदृशीः प्रजाः ।
स्रष्टव्या नात्मनस्तुल्याः प्रजा देव नमोऽस्तु ते ॥ ३१४ ॥
अन्याः सृज त्वं भद्रं ते प्रजा वै मृत्युसंयुताः ।
नारप्स्यन्ते हि कर्माणि प्रजावगतमृत्यवः ॥ ३१५ ॥
एवमुक्तोऽब्रवीदेनं नाहं मृत्युजरान्विताः ।
प्रजाः स्रक्ष्यामि भद्रं ते स्थितोऽहं त्वं सृज प्रजाः ॥ ३१६ ॥
एते ये वै मया सृष्टा विरूपा नीललोहिताः ।
सहस्राणां सहस्रं तु आत्मनो निःसृताः प्रजाः ॥ ३१७ ॥
एते देवा भविष्यन्ति रुद्रा नाम महाबलाः ।
पृथिव्यामन्तरिक्षे च दिक्षु चैव परिश्रिताः ॥ ३१८ ॥
शतरुद्राः समात्मानो भविष्यन्तीति याज्ञिकाः ।
यज्ञभाजो भविष्यन्ति सर्वदेवगणैः सह ॥ ३१९ ॥
मन्वन्तरेषु ये देवा भविष्यन्तीह भेदतः ।
सार्धं तैरीज्यमानास्ते स्थास्यन्तीहायुगक्षयात् ॥ ३२० ॥
एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता ।
प्रत्युवाच नमस्कृत्य हृष्यमाणः प्रजापतिः ॥ ३२१ ॥
एवं भवतु भद्रं ते यथा ते व्याहृतं विभो ।
ब्रह्मणा समनुज्ञाते तथा सर्वमभूत्किल ॥ ३२२ ॥
ततः प्रभृति देवेशो न चासूयत वै प्रजाः ।
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम् ॥ ३२३ ॥
यस्मादुक्तः स्थितोऽस्मीति तस्मात्स्थाणुरिति स्मृतः ।
एष देवो महादेवः पुरुषोऽर्कसमद्युतिः ॥ ३२४ ॥
अर्धनारीनरवपुस्तेजसा ज्वलनोपमः ।
स्वेच्छयासौ द्विधाभूतः पृथक् स्त्री पुरुषः पृथक् ॥ ३२५ ॥
स एवैकादशार्धेन स्थितोऽसौ परमेश्वरः ।
तत्र या सा महाभागा शङ्करस्यार्धकायिनी ॥ ३२६ ॥
प्रागुक्ता तु महादेवी स्त्री सैवेह सती ह्यभूत् ।
हिताय जगतां देवी दक्षेणाराधिता पुरा ॥ ३२७ ॥
कार्यार्थं दक्षिणं तस्याः शुक्लं वामं तथासितम् ।
आत्मानं विभजस्वेति प्रोक्ता देवेन शम्भुना ॥ ३२८ ॥
सा तथोक्ता द्विधाभूता शुक्ला कृष्णा च वै द्विजाः ।
तस्या नामानि वक्ष्यामि शृण्वन्तु च समाहिताः ॥ ३२९ ॥
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती ।
सती दाक्षायणी विद्या इच्छाशक्तिः क्रियात्मिका ॥ ३३० ॥
अपर्णा चैकपर्णा च तथा चैवैकपाटला ।
उमा हैमवती चैव कल्याणी चैकमातृका ॥ ३३१ ॥
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता ।
गणाम्बिका महादेवी नन्दिनी जातवेदसी ॥ ३३२ ॥
एकरूपमथैतस्याः पृथग्देहविभावनात् ।
सावित्री वरदा पुण्या पावनी लोकविश्रुता ॥ ३३३ ॥
आज्ञा आवेशनी कृष्णा तामसी सात्त्विकी शिवा ।
प्रकृतिर्विकृता रौद्री दुर्गा भद्रा प्रमाथिनी ॥ ३३४ ॥
कालरात्रिर्महामाया रेवती भूतनायिका ।
द्वापरान्तविभागे च नामानीमानि सुव्रताः ॥ ३३५ ॥
गौतमी कौशिकी चार्या चण्डी कात्यायनी सती ।
कुमारी यादवी देवी वरदा कृष्णपिङ्गला ॥ ३३६ ॥
बर्हिध्वजा शूलधरा परमा ब्रह्मचारिणी ।
महेन्द्रोपेन्द्रभगिनी दृषद्वत्येकशूलधृक् ॥ ३३७ ॥
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी ।
शुम्भादिदैत्यहन्त्री च महामहिषमर्दिनी ॥ ३३८ ॥
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका ।
देव्या नामविकाराणि इत्येतानि यथाक्रमम् ॥ ३३९ ॥
भद्रकाल्या मयोक्तानि सम्यक् फलप्रदानि च ।
ये पठन्ति नरास्तेषां विद्यते न च पातकम् ॥ ३४० ॥
अरण्ये पर्वते वापि पुरे वाप्यथवा गृहे ।
रक्षामेतां प्रयुञ्जीत जले वाथ स्थलेऽपि वा ॥ ३४१ ॥
व्याघ्रकुम्भीनचोरेभ्यो भयस्थाने विशेषतः ।
आपत्स्वपि च सर्वासु देव्या नामानि कीर्तयेत् ॥ ३४२ ॥
आर्यकग्रहभूतैश्च पूतनामातृभिस्तथा ।
अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत् ॥ ३४३ ॥
महादेवीकले द्वे तु प्रज्ञा श्रीश्च प्रकीर्तिते ।
आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत् ॥ ३४४ ॥
अनया देवदेवोऽसौ सत्या रुद्रो महेश्वरः ।
आतिष्ठत् सर्वलोकानां हिताय परमेश्वरः ॥ ३४५ ॥
रुद्रः पशुपतिश्चासीत् पुरा दग्धं पुरत्रयम् ।
देवाश्च पशवः सर्वे बभूवुस्तस्य तेजसा ॥ ३४६ ॥
यः पठेच्छृणुयाद्वापि आदिसर्गक्रमं शुभम् ।
स याति ब्रह्मणो लोकं श्रावयेद्वा द्विजोत्तमान् ॥ ३४७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सृष्टिविस्तारो नाम सप्ततितमोऽध्यायः ॥ ७० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें