श्रीलिङ्गमहापुराण -[पूर्वभाग] -073
॥ श्रीसाम्बसदाशिवाय नमः ॥
तिहत्तरवाँ अध्याय
लिङ्गार्चन की विधि तथा उसकी महिमा
श्रीलिङ्गमहापुराणे पूर्वभागे त्रिसप्ततितमोऽध्यायः
ब्रह्मप्रोक्तलिङ्गार्चनविधि
॥ सूत उवाच ॥
गते महेश्वरे देवे दग्ध्वा च त्रिपुरं क्षणात् ।
सदस्याह सुरेन्द्राणां भगवान् पद्मसम्भवः ॥ १ ॥
॥ पितामह उवाच ॥
सन्त्यज्य देवदेवेशं लिङ्गमूर्तिं महेश्वरम् ।
तारपौत्रो महातेजास्तारकस्य सुतो बली ॥ २ ॥
तारकाक्षोऽपि दितिजः कमलाक्षश्च वीर्यवान् ।
विद्युन्माली च दैत्येशः अन्ये चापि सबान्धवाः ॥ ३ ॥
त्यक्त्वा देवं महादेवं मायया च हरेः प्रभोः ।
सर्वे विनष्टाः प्रध्वस्ताः स्वपुरैः पुरसम्भवैः ॥ ४ ॥
तस्मात्सदा पूजनीयो लिङ्गमूर्तिः सदाशिवः ।
यावत्पूजा सुरेशानां तावदेव स्थितिर्यतः ॥ ५ ॥
पूजनीयः शिवो नित्यं श्रद्धया देवपुङ्गवैः ।
सर्वलिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् ॥ ६ ॥
तस्मात् सम्पूजयेल्लिङ्गं य इच्छेत् सिद्धिमात्मनः ।
सर्वे लिङ्गार्चनादेव देवा दैत्याश्च दानवाः ॥ ७ ॥
यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशनाः ।
पितरो मुनयश्चापि पिशाचाः किन्नरादयः ॥ ८ ॥
अर्चयित्वा लिङ्गमूर्तिं संसिद्धा नात्र संशयः ।
तस्माल्लिङ्गं यजेन्नित्यं येन केनापि वा सुराः ॥ ९ ॥
पशवश्च वयं तस्य देवदेवस्य धीमतः ।
पशुत्वं च परित्यज्य कृत्वा पाशुपतं ततः ॥ १० ॥
पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः ।
विशोध्य चैव भूतानि पञ्चभिः प्रणवैः समम् ॥ ११ ॥
प्राणायामैः समायुक्तैः पञ्चभिः सुरपुङ्गवाः ।
चतुर्भिः प्रणवैश्चैव प्राणायामपरायणैः ॥ १२ ॥
त्रिभिश्च प्रणवैर्देवाः प्राणायामैस्तथाविधैः ।
द्विधा न्यस्य तथौङ्कारं प्राणायामपरायणः ॥ १३ ॥
ततश्चौङ्कारमुच्चार्य प्राणापानौ नियम्य च ।
ज्ञानामृतेन सर्वाङ्गान्यापूर्य प्रणवेन च ॥ १४ ॥
गुणत्रयं चतुर्धाख्यमहङ्कारं च सुव्रताः ।
तन्मात्राणि च भूतानि तथा बुद्धीन्द्रियाणि च ॥ १५ ॥
कर्मेन्द्रियाणि संशोध्य पुरुषं युगलं तथा ।
चिदात्मानं तनुं कृत्वा चाग्निर्भस्मेति संस्पृशेत् ॥ १६ ॥
वायुर्भस्मेति च व्योम तथाम्भः पृथिवी तथा ।
त्रियायुषं त्रिसन्ध्यं च धूलयेद्भसितेन यः ॥ १७ ॥
स योगी सर्वतत्त्वज्ञो व्रतं पाशुपतं त्विदम् ।
भवेन पाशमोक्षार्थं कथितं देवसत्तमाः ॥ १८ ॥
एवं पाशुपतं कृत्वा सम्पूज्य परमेश्वरम् ।
लिङ्गे पुरा मया दृष्टे विष्णुना च महात्मना ॥ १९ ॥
पशवो नैव जायन्ते वर्षमात्रेण देवताः ।
अस्माभिः सर्वकार्याणां देवमभ्यर्च्य यत्नतः ॥ २० ॥
बाह्ये चाभ्यन्तरे चैव मन्ये कर्तव्यमीश्वरम् ।
प्रतिज्ञा मम विष्णोश्च दिव्यैषा सुरसत्तमाः ॥ २१ ॥
मुनीनां च न सन्देहस्तस्मात्सम्पूजयेच्छिवम् ।
सा हानिस्तन्महच्छिद्रं स मोहः सा च मूकता ॥ २२ ॥
यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत् ।
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ २३ ॥
भवसंस्मरणोद्युक्ता न ते दुःखस्य भाजनम् ।
भवनानि मनोज्ञानि दिव्यमाभरणं स्त्रियः ॥ २४ ॥
धनं वा तुष्टिपर्यन्तं शिवपूजाविधेः फलम् ।
ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये ।
तेऽर्चयन्तु सदा कालं लिङ्गमूर्तिं महेश्वरम् ॥ २५ ॥
हत्वा भित्त्वा च भूतानि दग्ध्वा सर्वमिदं जगत् ॥ २६ ॥
यजेदेकं विरूपाक्षं न पापैः स प्रलिप्यते ।
शैलं लिङ्गं मदीयं हि सर्वदेवनमस्कृतम् ॥ २७ ॥
इत्युक्त्वा पूर्वमभ्यर्च्य रुद्रं त्रिभुवनेश्वरम् ।
तुष्टाव वाग्भिरिष्टाभिर्देवदेवं त्रियम्बकम् ॥ २८ ॥
तदाप्रभृति शक्राद्याः पूजयामासुरीश्वरम् ।
साक्षात् पाशुपतं कृत्वा भस्मोद्धूलितविग्रहाः ॥ २९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे
ब्रह्मप्रोक्तलिङ्गार्चनविधिर्नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें