श्रीलिङ्गमहापुराण -[पूर्वभाग] -072
॥ श्रीसाम्बसदाशिवाय नमः ॥
बहत्तरवाँ अध्याय
त्रिपुरासुर वध के लिये विश्वकर्मा द्वारा एक दिव्य रथ का निर्माण तथा भगवान् महेश्वर का उस रथ पर आरूढ़ हो त्रिपुरासुर को दग्ध करना एवं ब्रह्मा द्वारा भगवान् शिव की स्तुति
श्रीलिङ्गमहापुराणे पूर्वभागे द्विसप्तितमोऽध्यायः
त्रिपुरदाहे ब्रह्मस्तवं
॥ सूत उवाच ॥
अथ रुद्रस्य देवस्य निर्मितो विश्वकर्मणा ।
सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ॥ १ ॥
सर्वभूतमयश्चैव सर्वदेवनमस्कृतः ।
सर्वदेवमयश्चैव सौवर्णः सर्वसम्मतः ॥ २ ॥
रथाङ्गं दक्षिणं सूर्यो वामाङ्गं सोम एव च ।
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ॥ ३ ॥
अरेषु तेषु विप्रेन्द्राश्चादित्या द्वादशैव तु ।
शशिनः षोडशारेषु कला वामस्य सुव्रताः ॥ ४ ॥
ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम् ।
नेम्यः षडृतवश्चैव तयोर्वै विप्रपुङ्गवाः ॥ ५ ॥
पुष्करं चान्तरिक्षं वै रथनीडश्च मन्दरः ।
अस्ताद्रिरुदयाद्रिश्च उभौ तौ कूबरौ स्मृतौ ॥ ६ ॥
अधिष्ठानं महामेरुराश्रयाः केसराचलाः ।
वेगः संवत्सरस्तस्य अयने चक्रसङ्गमौ ॥ ७ ॥
मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः ।
तस्य काष्ठाः स्मृता घोणा चाक्षदण्डाः क्षणाश्च वै ॥ ८ ॥
निमेषाश्चानुकर्षाश्च ईषा चास्य लवाः स्मृताः ।
द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ॥ ९ ॥
धर्मो विरागो दण्डोऽस्य यज्ञा दण्डाश्रयाः स्मृताः ।
दक्षिणाः सन्धयस्तस्य लोहाः पञ्चाशदग्नयः ॥ १० ॥
युगान्तकोटी तौ तस्य धर्मकामावुभौ स्मृतौ ।
ईषादण्डस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः ॥ ११ ॥
कोणस्तथा ह्यहङ्कारो भूतानि च बलं स्मृतम् ।
इन्द्रियाणि च तस्यैव भूषणानि समन्ततः ॥ १२ ॥
श्रद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः ।
पदानि भूषणान्येव षडङ्गान्युपभूषणम् ॥ १३ ॥
पुराणन्यायमीमांसा धर्मशास्त्राणि सुव्रताः ।
वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः ॥ १४ ॥
मन्त्रा घण्टाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः ।
अवच्छेदो ह्यनन्तस्तु सहस्रफणभूषितः ॥ १५ ॥
दिशः पादा रथस्यास्य तथा चोपदिशश्च ह ।
पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः ॥ १६ ॥
समुद्रास्तस्य चत्वारो रथकम्बलिकाः स्मृताः ।
गङ्गाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः ॥ १७ ॥
चामरासक्तहस्ताग्राः सर्वाः स्त्रीरूपशोभिताः ।
तत्रतत्र कृतस्थानाः शोभयाञ्चक्रिरे रथम् ॥ १८ ॥
आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम् ।
सारथिर्भगवान् ब्रह्मा देवाभीषुधराः स्मृताः ॥ १९ ॥
प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् ।
लोकालोकाचलस्तस्य ससोपानः समन्ततः ॥ २० ॥
विषमश्च तदा बाह्यो मानसाद्रिः सुशोभनः ।
नासाः समन्ततस्तस्य सर्व एवाचलाः स्मृताः ॥ २१ ॥
तलाः कपोताः कापोताः सर्वे तलनिवासिनः ।
मेरुरेव महाछत्रं मन्दरः पार्श्वडिण्डिमः ॥ २२ ॥
शैलेन्द्रः कार्मुकं चैव ज्या भुजङ्गाधिपः स्वयम् ।
कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः ॥ २३ ॥
घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी ।
इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च ॥ २४ ॥
कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः ।
अनीकं विषसम्भूतं वायवो वाजकाः स्मृताः ॥ २५ ॥
एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा ।
सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम् ॥ २६ ॥
आरुरोह रथं दिव्यं रणमण्डनधृग्भवः ।
सर्वदेवगणैर्युक्तं कम्पयन्निव रोदसी ॥ २७ ॥
ऋषिभिः स्तूयमानश्च वन्द्यमानश्च वन्दिभिः ।
उपनृत्यश्चाप्सरसां गणैर्नृत्यविशारदैः ॥ २८ ॥
सुशोभमानो वरदः सम्प्रेक्ष्यैव च सारथिम् ।
तस्मिन्नारोहति रथं कल्पितं लोकसम्भृतम् ॥ २९ ॥
शिरोभिः पतिता भूमीं तुरगा वेदसम्भवाः ।
अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः ॥ ३० ॥
वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम् ।
क्षणान्तरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् ॥ ३१ ॥
अभीषुहस्तो भगवानुद्यम्य च हयान् विभुः ।
स्थापयामास देवस्य वचनाद्वै रथं शुभम् ॥ ३२ ॥
ततोऽश्वांश्चोदयामास मनोमारुतरंहसः ।
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम् ॥ ३३ ॥
अथाह भगवान् रुद्रो देवानालोक्य शङ्करः ।
पशूनामाधिपत्यं मे दत्तं हन्मि ततोऽसुरान् ॥ ३४ ॥
पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः ।
कल्पयित्वैव वध्यास्ते नान्यथा नैव सत्तमाः ॥ ३५ ॥
इति श्रुत्वा वचः सर्वं देवदेवस्य धीमतः ।
विषादमगमन् सर्वे पशुत्वं प्रति शङ्किताः ॥ ३६ ॥
तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत् ।
मा वोऽस्तु पशुभावेऽस्मिन् भयं विबुधसत्तमाः ॥ ३७ ॥
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ।
यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ॥ ३८ ॥
पशुत्वादिति सत्यं च प्रतिज्ञातं समाहिताः ।
ये चाप्यन्ये चरिष्यन्ति व्रतं पाशुपतं मम ॥ ३९ ॥
मोक्ष्यन्ति ते न सन्देहः पशुत्वात्सुरसत्तमाः ।
नैष्ठिकं द्वादशाब्दं वा तदर्धं वर्षकत्रयम् ॥ ४० ॥
शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते ।
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ॥ ४१ ॥
तथेति चाब्रुवन्देवाः शिवे लोकनमस्कृते ।
तस्माद्वै पशवः सर्वे देवासुरनराः प्रभोः ॥ ४२ ॥
रुद्रः पशुपतिश्चैव पशुपाशविमोचकः ।
यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् ॥ ४३ ॥
तत्कृत्वा न च पापीयानिति शास्त्रस्य निश्चयः ।
ततो विनायकः साक्षाद् बालोऽबालपराक्रमः ॥ ४४ ॥
अपूजितस्तदा देवैः प्राह देवान्निवारयन् ।
॥ श्रीविनायक उवाच ॥
मामपूज्य जगत्यस्मिन् भक्ष्यभोज्यादिभिः शुभैः ॥ ४५ ॥
कः पुमान् सिद्धिमाप्नोति देवो वा दानवोऽपि वा ।
ततस्तस्मिन् क्षणादेव देवकार्ये सुरेश्वराः ॥ ४६ ॥
विघ्नं करिष्ये देवेश कथं कर्तुं समुद्यताः ।
ततः सेन्द्राः सुराः सर्वे भीताः सम्पूज्य तं प्रभुम् ॥ ४७ ॥
भक्ष्यभोज्यादिभिश्चैव उण्डरैश्चैव मोदकैः ।
अब्रुवंस्ते गणेशानं निर्विघ्नं चास्तु नः सदा ॥ ४८ ॥
भवोऽप्यनेकैः कुसुमैर्गणेशं भक्ष्यैश्च भोज्यैः सुरसैः सुगन्धैः ।*
आलिङ्ग्य चाघ्राय सुतं तदानीमपूजयत् सर्वसुरेन्द्रमुख्यः ॥ ४९ ॥*
सम्पूज्य पूज्यं सह देवसङ्घैर्विनायकं नायकमीश्वराणाम् ।
गणेश्वरैरेव नगेन्द्रधन्वा पुरत्रयं दग्धुमसौ जगाम ॥ ५० ॥
तं देवदेवं सुरसिद्धसङ्घा महेश्वरं भूतगणाश्च सर्वे ।
गणेश्वरा नन्दिमुखास्तदानीं स्ववाहनैरन्वयुरीशमीशाः ॥ ५१ ॥
अग्रे सुराणां च गणेश्वराणां तदाथ नन्दी गिरिराजकल्पम् ।
विमानमारुह्य पुरं प्रहर्तुं जगाम मृत्युं भगवानिवेशः ॥ ५२ ॥
यान्तं तदानीं तु शिलादपुत्रमारुह्य नागेन्द्रवृषाश्ववर्यान् ।
देवास्तदानीं गणपाश्च सर्वे गणा ययुः स्वायुधचिह्नहस्ताः ॥ ५३ ॥
खगेन्द्रमारुह्य नगेन्द्रकल्पं खगध्वजो वामत एव शम्भोः ।
जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः ॥ ५४ ॥
तं सर्वदेवाः सुरलोकनाथं समन्ततश्चान्वयुरप्रमेयम् ।
सुरासुरेशं सशितशक्तिटङ्कगदात्रिशूलासिवरायुद्धैश्च ॥ ५५ ॥*
रराज मध्ये भगवान् सुराणां विवाहनो वारिजपत्रवर्णः ।
यथा सुमेरोः शिखराधिरूढः सहस्ररश्मिर्भगवान् सुतीक्ष्णः ॥ ५६ ॥
सहस्रनेत्रः प्रथमः सुराणां गजेन्द्रमारुह्य च दक्षिणेऽस्य ।
जगाम रुद्रस्य पुरं निहन्तुं यथोरगांस्तत्र तु वैनतेयः ॥ ५७ ॥
तं सिद्धगन्धर्वसुरेन्द्रवीराः सुरेन्द्रवृन्दाधिपमिन्द्रमीशम् ।
समन्ततस्तुष्टुवुरिष्टदं ते जयेति शक्रं वरपुष्पवृष्ट्या ॥ ५८ ॥
तदा ह्यहल्योपपतिं सुरेशं जगत्पतिं देवपतिं दिविष्ठाः ।*
प्रणेमुरालोक्य सहस्रनेत्रं सलीलमम्बा तनयं यथेन्द्रम् ॥ ५९ ॥*
यमपावकवित्तेशा वायुर्निर्ऋतिरेव च ।
अपाम्पतिस्तथेशानो भवं चानु समागताः ॥ ६० ॥
वीरभद्रो रणे भद्रो नैर्ऋत्यां वै रथस्य तु ।
वृषभेन्द्रं समारुह्य रोमजैश्च समावृतः ॥ ६१ ॥
सेवां चक्रे पुरं हन्तुं देवदेवं त्रियम्बकम् ।
महाकालो महातेजा महादेव इवापरः ॥ ६२ ॥
वायव्यां सगणैः सार्धं सेवां चक्रे रथस्य तु ॥ ६३ ॥
षण्मुखोऽपि सह सिद्धचारणैः सेनया च गिरिराजसन्निभः ।
देवनाथगणवृन्दसंवृतो वारणेन च तथाग्निसम्भवः ॥ ६४ ॥
विघ्नं गणेशोऽप्यसुरेश्वराणां कृत्वा सुराणां भगवानविघ्नम् ।
विघ्नेश्वरो विघ्नगणैश्च सार्धं तं देशमीशानपदं जगाम ॥ ६५ ॥
काली तदा कालनिशाप्रकाशं शूलं कपालाभरणा करेण ।
प्रकम्पयन्ती च तदा सुरेन्द्रान् महासुरासृङ्मधुपानमत्ता ॥ ६६ ॥
मत्तेभगामी मदलोलनेत्रा मत्तैः पिशाचैश्च गणैश्च मत्तैः ।
मत्तेभचर्माम्बरवेष्टिताङ्गी ययौ पुरस्ताच्च गणेश्वरस्य ॥ ६७ ॥
तां सिद्धगन्धर्वपिशाचयक्ष विद्याधराहीन्द्रसुरेन्द्रमुख्याः ।
प्रणेमुरुच्चैरभितुष्टुवुश्च जयेति देवीं हिमशैलपुत्रीम् ॥ ६८ ॥
मातरः सुरवरारिसूदनाः सादरं सुरगणैः सुपूजिताः ।
मातरं ययुरथ स्ववाहनैः स्वैर्गणैर्ध्वजधरैः समन्ततः ॥ ६९ ॥
दुर्गारूढमृगाधिपा दुरतिगा दोर्दण्डवृन्दैः शिवा
बिभ्राणाङ्कुशशूलपाशपरशुं चक्रासिशङ्खायुधम् ।
प्रौढादित्यसहस्रवह्निसदृशैर्नेत्रैर्दहन्ती पथं
बाला बालपराक्रमा भगवती दैत्यान् प्रहर्तुं ययौ ॥ ७० ॥
तं देवमीशं त्रिपुरं निहन्तुं तदा तु देवेन्द्ररविप्रकाशाः ।
गजैर्हयैः सिंहवरै रथैश्च वृषैर्ययुस्ते गणराजमुख्याः ॥ ७१ ॥
हलैश्च फालैर्मुसलैर्भुशुण्डैर्गिरीन्द्रकूटैर्गिरिसन्निभास्ते ।
ययुः पुरस्ताद्धि महेश्वरस्य सुरेश्वरा भूतगणेश्वराश्च ॥ ७२ ॥
तथेन्द्रपद्मोद्भवविष्णुमुख्याः सुरा गणेशाश्च गणेशमीशम् ।
जयेति वाग्भिर्भगवन्तमूचुः किरीटदत्ताञ्जलयः समन्तात् ॥ ७३ ॥
ननृतुर्मुनयः सर्वे दण्डहस्ता जटाधराः ।
ववृषुः पुष्पवर्षाणि खेचराः सिद्धचारणाः ।
पुरत्रयं च विप्रेन्द्राः प्राणदत्सर्वतस्तथा ॥ ७४ ॥
गणेश्वरैर्देवगणैश्च भृङ्गी सहावृतः सर्वगणेन्द्रवर्यः ।
जगाम योगी त्रिपुरं निहन्तुं विमानमारुह्य यथा महेन्द्रः ॥ ७५ ॥
केशो विगतवासाश्च महाकेशो महाज्वरः ।
सोमवल्ली सवर्णश्च सोमपः सेनकस्तथा ॥ ७६ ॥
सोमधृक् सूर्यवाचश्च सूर्यपेषणकस्तथा ।
सूर्याक्षः सूरिनामा च सुरः सुन्दर एव च ॥ ७७ ॥
प्रकुदः ककुदन्तश्च कम्पनश्च प्रकम्पनः ।
इन्द्रश्चेन्द्रजयश्चैव महाभीर्भीमकस्तथा ॥ ७८ ॥
शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः ।
यमजिह्वः शताश्वश्च कण्ठनः कण्ठपूजनः ॥ ७९ ॥
द्विशिखस्त्रिशिखश्चैव तथा पञ्चशिखो द्विजाः ।
मुण्डोऽर्धमुण्डो दीर्घश्च पिशाचास्यः पिनाकधृक् ॥ ८० ॥
पिप्पलायतनश्चैव तथा ह्यङ्गारकाशनः ।
शिथिलः शिथिलास्यश्च अक्षपादो ह्यजः कुजः ॥ ८१ ॥
अजवक्त्रो हयवक्त्रो गजवक्त्रोऽर्ध्ववक्त्रकः ।
इत्याद्याः परिवार्येशं लक्ष्यलक्षणवर्जिताः ॥ ८२ ॥
वृन्दशस्तं समावृत्य जग्मुः सोमं गणैर्वृताः ।
सहस्राणां सहस्राणि रुद्राणामूर्ध्वरेतसाम् ॥ ८३ ॥
समावृत्य महादेवं देवदेवं महेश्वरम् ।
दग्धुं पुरत्रयं जग्मुः कोटिकोटिगणैर्वृताः ॥ ८४ ॥
त्रयस्त्रिंशत्सुराश्चैव त्रयश्च त्रिशतास्तथा ।
त्रयश्च त्रिसहस्राणि जग्मुर्देवाः समन्ततः ॥ ८५ ॥
मातरः सर्वलोकानां गणानां चैव मातरः ।
भूतानां मातरश्चैव जग्मुर्देवस्य पृष्ठतः ॥ ८६ ॥
भाति मध्ये गणानां च रथमध्ये गणेश्वरः ।
नभस्यमलनक्षत्रे तारामध्य इवोडुराट् ॥ ८७ ॥
रराज देवी देवस्य गिरिजा पार्श्वसंस्थिता ।
तदा प्रभावतो गौरी भवस्येव जगन्मयी ॥ ८८ ॥
शुभावती तदा देवी पार्श्वसंस्था विभाति सा ।
चामरासक्तहस्ताग्रा सा हेमाम्बुजवर्णिका ॥ ८९ ॥
अथ विभाति विभोर्विशदं वपुर्भसितभासितमम्बिकया तया ।
सितमिवाभ्रमहो सह विद्युता नभसि देवपतेः परमेष्ठिनः ॥ ९० ॥
भातीन्द्रधनुषाकाशं मेरुणा च यथा जगत् ।
हिरण्यधनुषा सौम्यं वपुः शम्भोः शशिद्युति ॥ ९१ ॥
सितातपत्रं रत्नांशु मिश्रितं परमेष्ठिनः ।
यथोदये शशाङ्कस्य भात्यखण्डं हि मण्डलम् ॥ ९२ ॥
सदुकूला शिवे रक्ता लम्बिता भाति मालिका ।
छत्रान्ता रत्नजाकाशात्पतन्तीव सरिद्वरा ॥ ९३ ॥
अथ महेन्द्रविरिञ्चिविभावसु प्रभृतिभिर्नतपादसरोरुहः ।
सह तदा च जगाम तयाम्बया सकललोकहिताय पुरत्रयम् ॥ ९४ ॥
दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली ।
किमत्र दग्धुं त्रिपुरं पिनाकी स्वयं गतश्चात्र गणैश्च सार्धम् ॥ ९५ ॥
रथेन किं चेषुवरेण तस्य गणैश्च किं देवगणैश्च शम्भोः ।
पुरत्रयं दग्धुमलुप्तशक्तेः किमेतदित्याहुरजेन्द्रमुख्याः ॥ ९६ ॥
मन्वाम नूनं भगवान् पिनाकी लीलार्थमेतत् सकलं प्रवर्त्तुम् ।
व्यवस्थितश्चेति तथान्यथा चेदाडम्बरेणास्य फलं किमन्यत् ॥ ९७ ॥
पुरत्रयस्यास्य समीपवर्ती सुरेश्वरैर्नन्दिमुखैश्च नन्दी ।
गणैर्गणेशस्तु रराज देव्या जगद्रथो मेरुरिवाष्टशृङ्गैः ॥ ९८ ॥
अथ निरीक्ष्य सुरेश्वरमीश्वरं सगणमद्रिसुतासहितं तदा ।
त्रिपुररङ्गतलोपरि संस्थितः सुरगणोऽनुजगाम स्वयं तथा ॥ ९९ ॥
जगत्त्रयं सर्वमिवापरं तत् पुरत्रयं तत्र विभाति सम्यक् ।
नरेश्वरैश्चैव गणैश्च देवैः सुरेतरैश्च त्रिविधैर्मुनीन्द्राः ॥ १०० ॥
अथ सज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् ।
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥ १०१ ॥
तस्मिन् स्थिते महादेवे रुद्रे विततकार्मुके ।
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै ॥ १०२ ॥
एकीभावं गते चैव त्रिपुरे समुपागते ।
बभूव तुमुलो हर्षो देवतानां महात्मनाम् ॥ १०३ ॥
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः संस्तुवन्तोऽष्टमूर्तिकम् ॥ १०४ ॥
अथाह भगवान् ब्रह्मा भगनेत्रनिपातनम् ।
पुष्ययोगेऽपि सम्प्राप्ते लीलावशमुमापतिम् ॥ १०५ ॥
स्थाने तव महादेव चेष्टेयं परमेश्वर ।
पूर्वदेवाश्च देवाश्च समास्तव यतः प्रभो ॥ १०६ ॥
तथापि देवा धर्मिष्ठाः पूर्वदेवाश्च पापिनः ।
यतस्तस्माज्जगन्नाथ लीलां त्यक्तुमिहार्हसि ॥ १०७ ॥
किं रथेन ध्वजेनेश तव दग्धुं पुरत्रयम् ।
इषुणा भूतसङ्घैश्च विष्णुना च मया प्रभो ॥ १०८ ॥
पुष्ययोगे त्वनुप्राप्ते पुरं दग्धुमिहार्हसि ।
यावन्न यान्ति देवेश वियोगं तावदेव तु ॥ १०९ ॥
दग्धुमर्हसि शीघ्रं त्वं त्रीण्येतानि पुराणि वै ।
अथ देवो महादेवः सर्वज्ञस्तदवैक्षत ॥ ११० ॥
पुरत्रयं विरूपाक्षस्तत्क्षणाद्भस्म वै कृतम् ।
सोमश्च भगवान् विष्णुः कालाग्निर्वायुरेव च ॥ १११ ॥
शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम् ।
दग्धमप्यथ देवेश वीक्षणेन पुरत्रयम् ॥ ११२ ॥
अस्मद्धितार्थं देवेश शरं मोक्तुमिहार्हसि ।
अथ सम्मृज्य धनुषो ज्यां हसन् त्रिपुरार्दनः ॥ ११३ ॥
मुमोच बाणं विप्रेन्द्रा व्याकृष्याकर्णमीश्वरः ।
तत्क्षणात् त्रिपुरं दग्ध्वा त्रिपुरान्तकरः शरः ॥ ११४ ॥
देवदेवं समासाद्य नमस्कृत्वा व्यवस्थितः ।
रेजे पुरत्रयं दग्धं दैत्यकोटिशतैर्वृतम् ॥ ११५ ॥
इषुणा तेन कल्पान्ते रुद्रेणेव जगत्त्रयम् ।
ये पूजयन्ति तत्रापि दैत्या रुद्रं सबान्धवाः ॥ ११६ ॥
गाणपत्यं तदा शम्भोर्ययुः पूजाविधेर्बलात् ।
न किञ्चिदब्रुवन् देवाः सेन्द्रोपेन्द्रा गणेश्वराः ॥ ११७ ॥
भयाद्देवं निरीक्ष्यैव देवीं हिमवतः सुताम् ।
दृष्ट्वा भीतं तदानीकं देवानां देवपुङ्गवः ॥ ११८ ॥
किं चेत्याह तदा देवान् प्रणेमुस्तं समन्ततः ॥ ११९ ॥
ववन्दिरे नन्दिनमिन्दुभूषणं ववन्दिरे पर्वतराजसम्भवाम् ।
ववन्दिरे चाद्रिसुतासुतं प्रभुं ववन्दिरे देवगणा महेश्वरम् ॥ १२० ॥
तुष्टाव हृदये ब्रह्मा देवैः सह समाहितः ।
विष्णुना च भवं देवं त्रिपुरारातिमीश्वरम् ॥ १२१ ॥
॥ श्रीपितामह उवाच ॥
प्रसीद देवदेवेश प्रसीद परमेश्वर ।
प्रसीद जगतां नाथ प्रसीदानन्ददाव्यय ॥ १२२ ॥
पञ्चास्यरुद्ररुद्राय पञ्चाशत् कोटिमूर्तये ।
आत्मत्रयोपविष्टाय विद्यातत्त्वाय ते नमः ॥ १२३ ॥
शिवाय शिवतत्त्वाय अघोराय नमोनमः ।
अघोराष्टकतत्त्वाय द्वादशात्मस्वरूपिणे ॥ १२४ ॥
विद्युत् कोटिप्रतीकाशमष्टकाशं सुशोभनम् ।
रूपमास्थाय लोकेऽस्मिन् संस्थिताय शिवात्मने ॥ १२५ ॥
अग्निवर्णाय रौद्राय अंबिकार्धशरीरिणे ।
धवलश्यामरक्तानां मुक्तिदायामराय च ॥ १२६ ॥
ज्येष्ठाय रुद्ररूपाय सोमाय वरदाय च ।
त्रिलोकाय त्रिदेवाय वषट्काराय वै नमः ॥ १२७ ॥
मध्ये गगनरूपाय गगनस्थाय ते नमः ।
अष्टक्षेत्राष्टरूपाय अष्टतत्त्वाय ते नमः ॥ १२८ ॥
चतुर्धा च चतुर्धा च चतुर्धा संस्थिताय च ।
पञ्चधा पञ्चधा चैव पञ्चमन्त्रशरीरिणे ॥ १२९ ॥
चतुःषष्टिप्रकाराय अकाराय नमोनमः ।
द्वात्रिंशत्तत्त्वरूपाय उकाराय नमो नमः ॥ १३० ॥
षोडशात्मस्वरूपाय मकाराय नमो नमः ।
अष्टधात्मस्वरूपाय अर्धमात्रात्मने नमः ॥ १३१ ॥
ओङ्काराय नमस्तुभ्यं चतुर्धा संस्थिताय च ।
गगनेशाय देवाय स्वर्गेशाय नमो नमः ॥ १३२ ॥
सप्तलोकाय पाताल नरकेशाय वै नमः ।
अष्टक्षेत्राष्टरूपाय परात्परतराय च ॥ १३३ ॥
सहस्रशिरसे तुभ्यं सहस्राय च ते नमः ।
सहस्रपादयुक्ताय शर्वाय परमेष्ठिने ॥ १३४ ॥
नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये ।
पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये ॥ १३५ ॥
चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते ।
गुणाष्टकवृतायैव गुणिने निर्गुणाय ते ॥ १३६ ॥
मूलस्थाय नमस्तुभ्यं शाश्वतस्थानवासिने ।
नाभिमण्डलसंस्थाय हृदि निःस्वनकारिणे ॥ १३७ ॥
कन्धरे च स्थितायैव तालुरन्ध्रस्थिताय च ।
भ्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च ॥ १३८ ॥
चन्द्रबिम्बस्थितायैव शिवाय शिवरूपिणे ।
वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे ॥ १३९ ॥
त्रिधा संवृत्य लोकान् वै प्रसुप्तभुजगात्मने ।
त्रिप्रकारं स्थितायैव त्रेताग्निमयरूपिणे ॥ १४० ॥
सदाशिवाय शान्ताय महेशाय पिनाकिने ।
सर्वज्ञाय शरण्याय सद्योजाताय वै नमः ॥ १४१ ॥
अघोराय नमस्तुभ्यं वामदेवाय ते नमः ।
तत्पुरुषाय नमोऽस्तु ईशानाय नमो नमः ॥ १४२ ॥
नमस्त्रिंशत् प्रकाशाय शान्तातीताय वै नमः ।
अनन्तेशाय सूक्ष्माय उत्तमाय नमोऽस्तु ते ॥ १४३ ॥
एकाक्षाय नमस्तुभ्यमेकरुद्राय ते नमः ।
नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने ॥ १४४ ॥
अनन्तासनसंस्थाय अनन्तायान्तकारिणे ।
विमलाय विशालाय विमलाङ्गाय ते नमः ॥ १४५ ॥
विमलासनसंस्थाय विमलार्थार्थरूपिणे ।
योगपीठान्तरस्थाय योगिने योगदायिने ॥ १४६ ॥
योगिनां हृदि संस्थाय सदा नीवारशूकवत् ।
प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते ॥ १४७ ॥
प्रत्याहाररतानां च प्रतिस्थानस्थिताय च ।
धारणायै नमस्तुभ्यं धारणाभिरताय ते ॥ १४८ ॥
धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च ।
ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः ॥ १४९ ॥
ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः ।
ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते ॥ १५० ॥
समाधानाभिगम्याय समाधानाय ते नमः ।
समाधानरतानां तु निर्विकल्पार्थरूपिणे ॥ १५१ ॥
दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरत्रयं हि ।
कः स्तोतुमिच्छेत्कथमीदृशं त्वां स्तोष्ये हि तुष्टाय शिवाय तुभ्यम् ॥ १५२ ॥
भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव ।
एते गणाः सिद्धगणैः प्रणामं कुर्वन्ति देवेश गणेश तुभ्यम् ॥ १५३ ॥
निरीक्षणादेव विभोऽसि दग्धुं पुरत्रयं चैव जगत्त्रयं च ।
लीलालसेनाम्बिकया क्षणेन दग्धं किलेषुश्च तदाथ मुक्तः ॥ १५४ ॥
कृतो रथश्चेषुवरश्च शुभ्रं शरसनं ते त्रिपुरक्षयाय ।
अनेकयत्नैश्च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसङघैः ॥ १५५ ॥
रथो रथी देववरो हरिश्च रुद्रः स्वयं शक्रपितामहौ च ।
त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्यतोष्यं प्रणिपत्य मूर्ध्ना ॥ १५६ ॥
अनन्तपादस्त्वमनन्तबाहुरनन्तमूर्धान्तकरः शिवश्च ।
अनन्तमूर्तिः कथमीदृशं त्वां तोष्ये ह्यतोष्यं कथमीदृशं त्वाम् ॥ १५७ ॥
नमो नमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम् ।
स्थूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्म सूक्ष्माय सूक्ष्मार्थविदे विधात्रे ॥ १५८ ॥
स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे ।
नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे ॥ १५९ ॥
वेदान्तवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय ।
वेदात्मरूपाय भवाय तुभ्यमन्ताय मध्याय सुमध्यमाय ॥ १६० ॥
आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिङ्गिने च ।
अलिङ्गिने लिङ्गमयाय तुभ्यं लिङ्गाय वेदादिमयाय साक्षात् ॥ १६१ ॥
रुद्राय मूर्धाननिकृन्तनाय ममादिदेवस्य च यज्ञमूर्तेः ।
विध्वान्तभङ्गं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या ॥ १६२ ॥
अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश ।
देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्त्व ॥ १६३ ॥
एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं मूर्तामूर्तं मूर्तमेकं ह्यमूर्तम् ।
एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते ॥ १६४ ॥
स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि ।
मूर्तिर्नो वै दैवकीशान देवैर्लक्ष्या यत्नैरप्यलक्ष्यं कथं तु ॥ १६५ ॥
दिव्यः क्व देवेश भवत् प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश्च ।
तथापि भक्त्या विलपन्तमीश पितामहं मां भगवन् क्षमस्व ॥ १६६ ॥
॥ सूत उवाच ॥
य इमं शृणुयाद् द्विजोत्तमा भुवि देवं प्रणिपत्य पठेत् ।
स च मुञ्चति पापबन्धनं भवभक्त्या पुरशासितुः स्तवम् ॥ १६७ ॥
श्रुत्वा च भक्त्या चतुराननेन स्तुतो हसञ्शैलसुतां निरीक्ष्य ।
स्तवं तदा प्राह महानुभावं महाभुजो मन्दरशृङ्गवासी ॥ १६८ ॥
॥ शिव उवाच ॥
स्तवेनानेन तुष्टोऽस्मि तव भक्त्या च पद्मज ।
वरान् वरय भद्रं ते देवानां च यथेप्सितान् ॥ १६९ ॥
॥ सूत उवाच ॥
ततः प्रणम्य देवेशं भगवान्पद्मसम्भवः ।
कृताञ्जलिपुटो भूत्वा प्राहेदं प्रीतमानसः ॥ १७० ॥
॥ श्रीपितामह उवाच ॥
भगवन् देवदेवेश त्रिपुरान्तक शङ्कर ।
त्वयि भक्तिं परां मेऽद्य प्रसीद परमेश्वरम् ॥ १७१ ॥
देवानां चैव सर्वेषां त्वयि सर्वार्थदेश्वर ।
प्रसीद भक्तियोगेन सारथ्येन च सर्वदा ॥ १७२ ॥
जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ।
कृताञ्जलिपुटो भूत्वा प्राह साम्बं त्रियम्बकम् ॥ १७३ ॥
वाहनत्वं तवेशान नित्यमीहे प्रसीद मे ।
त्वयि भक्तिं च देवेश देवदेव नमोऽस्तु ते ॥ १७४ ॥
सामर्थ्यं च सदा मह्यं भवन्तं वोढुमीश्वरम् ।
सर्वज्ञत्वं च वरद सर्वगत्वं च शङ्कर ॥ १७५ ॥
॥ सूत उवाच ॥
तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः ।
सारथ्ये वाहनत्वे च कल्पयामास वै भवः ॥ १७६ ॥
दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान् देवदेवो महात्मा ।
सार्धं देव्या नन्दिना भूतसङ्घैरन्तर्धानं कारयामास शर्वः ॥ १७७ ॥
ततस्तदा महेश्वरे गते रणाद् गणैः सह ।
सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम् ॥ १७८ ॥
ययुश्च दुःखवर्जिताः स्ववाहनैर्दिवं ततः ।
सुरेश्वरा मुनीश्वरा गणेश्वराश्च भास्कराः ॥ १७९ ॥
त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा ।
यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः ॥ १८० ॥
श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति ।
मानसैर्वाचिकैः पापैस्तथा वै कायिकैः पुनः ॥ १८१ ॥
स्थूलैः सूक्ष्मैः सुसूक्ष्मैश्च महापातकसम्भवैः ।
पातकैश्च द्विजश्रेष्ठा उपपातकसम्भवैः ॥ १८२ ॥
पापैश्च मुच्यते जन्तुः श्रुत्वाध्यायमिमं शुभम् ।
शत्रवो नाशमायान्ति सङ्ग्रामे विजयीभवेत् ॥ १८३ ॥
सर्वरोगैर्न बाध्येत आपदो न स्पृशन्ति तम् ।
धनमायुर्यशो विद्यां प्रभावमतुलं लभेत् ॥ १८४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे त्रिपुरदाहे ब्रह्मस्तवो नाम
द्विसप्तितमोऽध्यायः ॥ ७२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें