श्रीलिङ्गमहापुराण -[पूर्वभाग] -074

श्रीलिङ्गमहापुराण -[पूर्वभाग] -074
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौहत्तरवाँ अध्याय
ब्रह्मा की आज्ञा से विश्वकर्मा द्वारा विभिन्न लिङ्गों का निर्माण करके देवताओं को प्रदान करना एवं देवताओं द्वारा उन-उन लिङ्गों का पूजन, लिङ्गों के विविध भेद तथा उनकी स्थापना का माहात्म्य
श्रीलिङ्गमहापुराणे पूर्वभागे चतुःसप्ततितमोऽध्यायः
शिवलिङ्गभेदसंस्थापनादिवर्णनं

॥ सूत उवाच ॥
लिङ्गानि कल्पयित्वैवं स्वाधिकारानुरूपतः ।
विश्वकर्मा ददौ तेषां नियोगाद् ब्रह्मणः प्रभोः ॥ १ ॥
इन्द्रनीलमयं लिङ्गं विष्णुना पूजितं सदा ।
पद्मरागमयं शक्रो हैमं विश्रवसः सुतः ॥ २ ॥


विश्वेदेवास्तथा रौप्यं वसवः कान्तिकं शुभम् ।
आरकूटमयं वायुरश्विनौ पार्थिवं सदा ॥ ३ ॥
स्फाटिकं वरुणो राजा आदित्यास्ताम्रनिर्मितम् ।
मौक्तिकं सोमराड् धीमान् स्तथा लिङ्गमनुत्तमम् ॥ ४ ॥
अनन्ताद्या महानागाः प्रवालकमयं शुभम् ।
दैत्या ह्ययोमयं लिङ्गं राक्षसाश्च महात्मनः ॥ ५ ॥
त्रैलोहिकं गुह्यकाश्च सर्वलोहमयं गणाः ।
चामुण्डा सैकतं साक्षान् मातरश्च द्विजोत्तमाः ॥ ६ ॥
दारुजं नैर्ऋतिर्भक्त्या यमो मारकतं शुभम् ।
नीलाद्याश्च तथा रुद्राः शुद्धं भस्ममयं शुभम् ॥ ७ ॥
लक्ष्मीवृक्षमयं लक्ष्मीर्गुहो वै गोमयात्मकम् ।
मुनयो मुनिशार्दूलाः कुशाग्रमयमुत्तमम् ॥ ८ ॥
वामाद्याः पुष्पलिङ्गं तु गन्धलिङ्गं मनोन्मनी ।
सरस्वती च रत्नेन कृतं रुद्रस्य वाम्भसा ॥ ९ ॥
दुर्गा हैमं महादेवं सवेदिकमनुत्तमम् ।
उग्रा पिष्टमयं सर्वे मन्त्रा ह्याज्यमयं शुभम् ॥ १० ॥
वेदाः सर्वे दधिमयं पिशाचाः सीसनिर्मितम् ।
लेभिरे च यथायोग्यं प्रसादाद् ब्रह्मणः पदम् ॥ ११ ॥
बहुनात्र किमुक्तेन चराचरमिदं जगत् ।
शिवलिङ्गं समभ्यर्च्य स्थितमत्र न संशयः ॥ १२ ॥
षड्विधं लिङ्गमित्याहुर्द्रव्याणां च प्रभेदतः ।
तेषां भेदाश्चतुर्युक्त चत्वारिंशदिति स्मृताः ॥ १३ ॥
शैलजं प्रथमं प्रोक्तं तद्धि साक्षाच्चतुर्विधम् ।
द्वितीयं रत्नजं तच्च सप्तधा मुनिसत्तमाः ॥ १४ ॥
तृतीयं धातुजं लिङ्गमष्टधा परमेष्ठिनः ।
तुरीयं दारुजं लिङ्गं तत्तु षोडशधोच्यते ॥ १५ ॥
मृन्मयं पञ्चमं लिङ्गं द्विधा भिन्नं द्विजोत्तमाः ।
षष्ठं तु क्षणिकं लिङ्गं सप्तधा परिकीर्तितम् ॥ १६ ॥
श्रीप्रदं रत्नजं लिङ्गं शैलजं सर्वसिद्धिदम् ।
धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम् ॥ १७ ॥
मृन्मयं चैव विप्रेन्द्राः सर्वसिद्धिकरं शुभम् ।
शैलजं चोत्तमं प्रोक्तं मध्यमं चैव धातुजम् ॥ १८ ॥
बहुधा लिङ्गभेदाश्च नव चैव समासतः ।
मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः ॥ १९ ॥
रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः ।
लिङ्गवेदी महादेवी त्रिगुणा त्रिमयाम्बिका ॥ २० ॥
तया च पूजयेद्यस्तु देवी देवश्च पूजितौ ।
शैलजं रत्नजं वापि धातुजं वापि दारुजम् ॥ २१ ॥
मृन्मयं क्षणिकं वापि भक्त्या स्थाप्य फलं शुभम् ।
सुरेन्द्राम्भोजगर्भाग्नि यमाम्बुपधनेश्वरैः ॥ २२ ॥
सिद्धविद्याधराहीन्द्रैर्यक्षदानवकिन्नरैः ।
स्तूयमानः सुपुण्यात्मा देवदुन्दुभिनिःस्वनैः ॥ २३ ॥
भूर्भूवःस्वर्महर्लोकान् क्रमाद्वै जनतः परम् ।
तपः सत्यं पराक्रम्य भासयन् स्वेन तेजसा ॥ २४ ॥
लिङ्गस्थापनसन्मार्ग निहितस्वायतासिना ।
आशु ब्रह्माण्डमुद्भिद्य निर्गच्छन्निर्विशङ्कया ॥ २५ ॥
शैलजं रत्नजं वापि धातुजं वापि दारुजम् ।
मृन्मयं क्षणिकं त्यक्त्वा स्थापयेत्सकलं वपुः ॥ २६ ॥
विधिना चैव कृत्वा तु स्कन्दोमासहितं शुभम् ।
कुन्दगोक्षीरसङ्काशं लिङ्गं यः स्थापयेन्नरः ॥ २७ ॥
नृणां तनुं समास्थाय स्थितो रुद्रो न संशयः ।
दर्शनात्स्पर्शनात्तस्य लभन्ते निर्वृतिं नराः ॥ २८ ॥
तस्य पुण्यं मया वक्तुं सम्यग्युगशतैरपि ।
शक्यते नैव विप्रेन्द्रास्तस्माद्वै स्थापयेत्तथा ॥ २९ ॥
सर्वेषामेव मर्त्यानां विभोर्दिव्यं वपुः शुभम् ।
सकलं भावनायोग्यं योगिनामेव निष्कलम् ॥ ३० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवलिङ्गभेदसंस्थापनादिवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-74

कोई टिप्पणी नहीं:

123