श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशत्तमोऽध्यायः
गणेशलोकवर्णनं

॥ मुनिरुवाच ॥

कथं च काशीराजेन प्राप्तं तत् स्थानमुत्तमम् ।
मुद्गलस्योपदेशेन तन्मे शंसितुमर्हसि ॥ १ ॥
॥ ब्रह्मोवाच ॥
तीर्थयात्राप्रसङ्गेन मुद्गलस्तं नृपं ययौ ।
स पूजयित्वा पप्रच्छ सर्वज्ञं तं मुनिं नृपः ॥ २ ॥


॥ नृप उवाच ॥
विनायकस्य लोकः कः प्राप्यते स कथं मया ।
॥ मुनिरुवाच ॥
स्वानन्दभुवनेत्येवं निजलोकेति च द्वयम् ॥ ३ ॥
वैनायकस्य लोकस्य विख्यातं नाम वर्तते ।
उत्पत्स्येते यदा दैत्यौ देवान्तकनरान्तकौ ॥ ४ ॥
विनायकोऽपि तौ हन्तुं मानुषेऽवतरिष्यति ।
स तु बालकरूपेण लीला अद्भुतविक्रमाः ॥ ५ ॥
करिष्यति नृलोकेऽस्मिन्स्वेच्छाचारी महाबलः ।
शुक्लस्य भक्तियुक्तस्य दरिद्रस्य गृहे यदा ॥ ६ ॥
भुक्त्वा दत्त्वामोघलक्ष्मीं शुक्लायेन्द्रस्य दुर्लभाम् ।
विवाहार्थं समानीतो दर्शयिष्यति पौरुषम् ॥ ७ ॥
यदा ते गृहमागच्छेत् तदा तद्भक्तितो नृप ।
काशीराज महाबाहो निजलोकमवाप्स्यसि ॥ ८ ॥
॥ ब्रह्मोवाच ॥
एवमुक्त्वा गते तस्मिन्काशीराजो महामतिः ।
गणेशभक्तिं कुर्वाणः कालाकाङ्क्षी बभूव ह ॥ ९ ॥
ततो बहुतिथे कालेऽवतीर्णोऽसौ विनायकः ।
कश्यपस्य गृहे यो वै लीलाविग्रहवान्विभुः ॥ १० ॥
हता नानाविधा दैत्याः क्रीडा नानाविधाः कृताः ।
दारिद्र्यं हृतवान्सद्यः शुक्लस्यादत् गृहे तदा ॥ ११ ॥
काशिराजस्य भवनं पुनरागान्महाबलः ।
हतौ महाबलौ दैत्यौ देवान्तकनरान्तकौ ॥ १२ ॥
स्वानन्दभुवनं यातः क्षीरसागरमध्यगम् ।
काशीराजस्तु विरहाच्चिन्तयन् सर्वदा तु तम् ॥ १३ ॥
आलिङ्गति नरं कञ्चिदयमेव विनायकः ।
इति मत्वा सभामध्ये सर्वं तादात्मकं जगत् ॥ १४ ॥
पश्यति स्म दिवा रातौ सौऽपि तन्मयतामियात् ।
निराहारः कदाचित् स तिष्ठति स्म नृपस्तदा ॥ १५ ॥
ग्रासमात्रं कदाचित् स भुनक्ति च यथामति ।
कदाचिद्धसते क्वापि नृत्यति स्म नृपस्तदा ॥ १६ ॥
निद्राति बहुकालं तं पश्यन् स्वप्ने विनायकम् ।
एवं नृपे स्थितेऽमात्याश्चिन्तामापुः सुदारुणाम् ॥ १७ ॥
यदिलोका विजानीयुः परचक्रं पतेत् तदा ।
एवं चिन्तयतां तेषाममात्यानां नृपालये ॥ १८ ॥
तदैव मुद्गलो ध्यानं विसृज्य नृपतिं ययौ ।
तद्दर्शनप्राप्तबोधः प्रणनाम नृपो मुनिम् ॥ १९ ॥
उपवेश्यासनं पश्चात् सम्पूज्य च यथाविधि ।
बद्धाञ्जलिरुवाचाथ धन्यो वंशो जनुर्मम ॥ २० ॥
पितरौ मन्दिरं नेत्रे धन्यं त्वद्दर्शनान्मुने ।
यत्प्रसादात्परं स्थानं संसारतारणं नृणाम् ॥ २१ ॥
अवमानान्महद् दुःखं तं त्वा पुण्येन दृष्टवान् ।
तमुवाच ततो विप्रो वाचा तस्य सुतोषितः ॥ २२ ॥
॥ मुनिरुवाच ॥
त्वादृशस्तु विनीतात्मा नैव दृष्टो न च श्रुतः ।
पूजनात् परितुष्टोऽहं वाञ्छितं ते ददाम्यहम् ॥ २३ ॥
॥ ब्रह्मोवाच ॥
तद्वाक्यपरितुष्टोऽसौ काशीराजो जगाद तम् ।
अनेनैव च देहेन स्वानन्दभुवनं मुने ॥ २४ ॥
इच्छेयं च चिरं तत्र स्थातुं नैव च सम्पदः ।
तत ऊचे मुद्गलोऽसौ परितुष्टस्तया गिरा ॥ २५ ॥
अनेन जडदेहेन स्वानन्दभुवनं नृप ।
प्राप्स्यसे त्वं गणेशस्य पुनरावृत्तिवर्जितः ॥ २६ ॥
भुक्त्वाऽत्रन्नसम्पदः पञ्चसहस्रपरिवत्सरान् ।
ब्रह्मकल्पमयं कालं ततः स्वानन्दमाप्स्यसि ॥ २७ ॥
॥ नृप उवाच ॥
कीदृक् स लोकः किन्नामा वद सत्यं मुने मम ।
केन पुण्येन गम्योऽसौ श्रुता लोका मयाऽखिलाः ॥ २८ ॥
॥ मुद्गल उवाच ॥
शृणु राजन् मयाऽश्रावि महिमा कपिलान्मुनेः ।
सामान्यतः सर्वलोकाः प्रसिद्धा ये श्रुतास्त्वया ॥ २९ ॥
गहना गतिरत्यन्तमस्य लोकस्य भूपते ।
दिव्यलोकेति नामास्य निजलोकेति चापरम् ॥ ३० ॥
स कामदायिनीपीठे सन्तिष्ठति विनायकः ।
विस्तीर्णं पञ्चसाहस्रयोजनानि महामते ॥ ३१ ॥
रत्नकाञ्चनभूमौ स राजते भासयन्दिशः ।
स्वानन्दनामा दिव्योऽयमिक्षुसागरमध्यगः ॥ ३२ ॥
न वेदैर्न च दानैश्च व्रतैर्यज्ञैर्जपेरपि ।
तपोभिर्विविधैश्चैव प्राप्यते नैव कर्हिचित् ॥ ३३ ॥
विनायकस्य कृपया प्राप्यते नित्यभक्तितः ।
समष्टिव्यष्टिरूपोऽत्र सदा तिष्ठति विघ्नराट् ॥ ३४ ॥
पादैः स सप्तपातालं व्याप्य शेषशिरांसि च ।
कूर्मं (मत्स्यं)च कमठं चैव श्रोत्राभ्यां च दिशोऽखिलाः ॥ ३५ ॥
केशैर्व्योमापि संरोध्य स्थित आधारपङ्कजे ।
भूमध्येऽप्यग्निचक्रे तं द्विपत्रे ध्याति कृति(पुण्यकृत्) ॥ ३६ ॥
खेचरीमुद्रया युक्तो नान्यो ध्यातुं न च क्षमः ।
सहस्रपत्रं ब्रह्माण्डसरोजं विलसत्प्रभम् ॥ ३७ ॥
तत्र तेजःस्वरूपोऽस्ति हृदि द्वादशपत्रकम् ।
दशपत्रं नाभिचक्रं लिङ्गे षटपत्रकं शुभम् ॥ ३८ ॥
षोडशारं कण्ठदेशे तत्र सर्वत्र विघ्नराट् ।
तेजोरूपी दीप्यमानः सत्यलोके यथा विधिः ॥ ३९ ॥
द्वादशारं तु वैकुण्ठं तत्र विष्णुः सदा स्थितः ।
कण्ठाब्जे पञ्चवक्त्रोऽसौ कैलासे सगणो यथा ॥ ४० ॥
सोमसूर्याग्निनेत्रोऽसौ भूमण्डलमहोदरः ।
एकविंशतिस्वर्गान् स व्याप्य चौषधिरोमवान् ॥ ४१ ॥
सरितः सागरा यस्य धर्मबिन्दुर्विभात्यसौ ।
ब्रह्माण्डे भान्ति यस्यैव ब्रह्माण्डानि तु रेणुवत् ॥ ४२ ॥
त्रयस्त्रिंशत्कोटिदेवा जीवा ये च सहस्रशः ।
औदुम्बरगता भान्ति मशका इव तद्गताः ॥ ४३ ॥
रचनां तस्य लोकस्यसङ्क्षेपेण ब्रुवे नृप ।
तुङ्गं यन्मेरुशिखरं तत्कैलासशिरस्पृहम् ॥ ४४ ॥
सहस्रयोजनं शून्यमगम्यं मुनिपुङ्गवैः ।
तत्र एका शक्तिरुच्चैर्भ्रामिका नाम नामतः ॥ ४५ ॥
यत्सम्मताद् भ्रमन्त्येव भ्रमराः शुभ्र एव च ।
पद्मासनगताधारशक्तिस्तन्मस्तके स्थिता ॥ ४६ ॥
चामीकरनिभा या तन्मस्तके कामदायिनी ।
कोटिसूर्यनिभा तस्या मूर्ध्नि पीठं महत्तरम् ॥ ४७ ॥
विकरालं जटाभारं बिभ्रती वदनं तथा ।
सहस्रसूर्यसङकाशा भासयन्ती दिशो दश ॥ ४८ ॥
विस्तीर्णं दशसाहस्रयोजनं तावदायतम् ।
असङ्ख्यसूर्यसंङकाशं तन्मध्ये योजनायतम् ॥ ४९ ॥
स्वानन्दभुवनं भाति यत्र काञ्च्चनरत्नजाः ।
असङ्ख्याता गृहा भान्ति भास्वरा गजमौक्तिकाः ॥ ५० ॥
तस्यैव कृपया प्राप्यो दुःखमोहविवर्जितः ।
तदुत्तरे भाति परं इक्षुसागर एव तु ॥ ५१ ॥
सहस्रपत्रसंयुक्ता तन्मध्ये पद्मिनी शुभा ।
सहस्रपत्रं कमलं तस्यां भाति यथा शशी ॥ ५२ ॥
तत्कर्णिकागतस्तल्पो रत्नकाञ्चननिर्मितः ।
दिव्याम्बरयुतः शेते नृप तत्र विनायकः ॥ ५३ ॥
सिद्धिबुद्धी सदा तस्य पादसंवाहनं मुदा ।
कुर्वाते परया भक्त्या सामवेदस्त्रिमूर्तिमान् ॥ ५४ ॥
गानं करोति शास्त्राणि मूर्तिमन्ति स्तुवन्ति तम् ।
पुराणानि च सर्वाणि वर्णयन्त्यस्य सद्गुणान् ॥ ५५ ॥
बालरूपधरस्तत्र शुण्डादण्डविराजितः ।
कोमलाङ्गोऽरुणनिभो विशालाक्षो विषाणवान् ॥ ५६ ॥
मुकुटी कुण्डली राजत्कस्तूरीतिलकः स्वराट् ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ ५७ ॥
मुक्तामणिगणोपेतं सरत्नं दाम सन्दधत् ।
अनन्तकोटिसूर्यौजाश्चन्द्रार्धकृतशेखरः ॥ ५८ ॥
स्मरणात् पापहा सद्यः स्मृता गङ्गा यथा नृणाम् ।
तेजोवती ज्वालिनी च शक्ती पर्यङकपार्श्वयोः ॥ ५९ ॥
सहस्रादित्यसङ्काशे तिष्ठतो नृप सर्वदा ।
न शीतं न जरा तत्र क्लमः स्वेदोऽथ तन्द्र्यपि ॥ ६० ॥
क्षुधा तृषा वा दुखं वा न कदाचन जायते ।
आनन्दहृदमग्नास्ते तत्रासन् ये सुपुण्यतः ॥ ६१ ॥
विश्वव्यापी बालरूपी यत्र तिष्ठति विश्ववित् ।
॥ मुद्गल उवाच ॥
एवं ते कथितो लोको गणेशस्य यथामति ॥ ६२ ॥
तस्मादनन्यभक्त्या त्वं तमेवाराधय प्रभो ।
॥ ब्रह्मोवाच ॥
एवमुक्त्वा गतः स्थानं स्वकीयं मुद्गलो मुनिः ॥ ६३ ॥
काशीराजो गणेशस्य भजने तत्परोऽभवत् ।
सहस्रपञ्चवर्षाणि कृत्वा राज्यमनेन ह ।
देहेन यानमारुह्य गतः स्वानन्दधाम तत् ॥  ६४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशलोकवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-50

कोई टिप्पणी नहीं:

123