श्रीगणेशपुराणे क्रीडाखण्डे
अष्टचत्वारिंशोऽध्यायः
कीर्तेवरप्रदनं
॥ मुनिरुवाच ॥
त्यक्तं राज्यमिति ज्ञात्वा निजं रूपं समाश्रितः ।
अवसत् सर्वलोकानां ढुण्ढिस्तत्रार्थदायकः ॥ १ ॥
दूतं च प्रेषयामास शीघ्रमागम्यतामिति ।
शङ्कराय महाबुद्धिस्ततः स हर्षनिर्भरः ॥ २ ॥
आरुह्य वृषभं देवो ययौ वाराणसीं पुरीम् ।
दिव्यवादित्रनिर्घोषैः स्वगणैः परिवारितः ॥ ३ ॥
जैगीषव्यं निराहारं वल्मीकमिव संस्थितम् ।
अनुगृह्य ययौ ढुण्ढिं प्रणम्य च उवाच तम् ॥ ४ ॥
॥ शिव उवाच ॥
त्वमेव विश्वेश्वर विश्वरूप विश्वं सृजस्यत्सि हि पासि देव ।
शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ॥ ५ ॥
ब्रह्मापि सृष्टिं कुरुतेङ्गितात्ते (ब्रह्माङ्गितात्ते जगतीं विधते) तद्रक्षणं चैव
हरिस्थताऽहम् ।
संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥ ६ ॥
तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्धयै ।
त्वया विना वेदविधिर्वृथा स्यात् त्वदीयशक्त्या सुरशत्रुनाशः ॥ ७ ॥
अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान ।
यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष ॥ ८ ॥
त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च ।
वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितो हि ॥ ९ ॥
त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः ।
त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीनाः ॥ १० ॥
अनेकरूपाङ्घ्रिविलोचनस्त्वमनेकशीर्षश्रुतिबाहुजिह्वः ।
अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः ।
तव प्रसादादविमुक्तमेतद् दृष्टं चिराद् यत्नवताऽखिलेश ॥ ११ ॥
॥ मुनिरुवाच ॥
एवं स्तुत्वा च संपूज्य प्रार्थयामास शङ्करः ।
गतं विरहदुःखं मे प्राप्य वाराणसीं पुरीम् ॥ १२ ॥
इदानीं सर्वदा रक्ष मद्भक्तांश्च पुरीमिमाम् ।
विना प्रसादं ते न स्यात् काशीवासः कदाचन ॥ १३ ॥
दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत् ।
तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा ॥ १४ ॥
माघे मासी चतुर्थ्यां यो भौमवारे विधूदये ।
अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् ॥ १५ ॥
संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन यो नुयात् ।
तस्यापि सकलान् कामान् यच्छ लक्ष्मीमनेकधा ॥ १६ ॥
य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः ।
पठेत्स्तोत्रं सकृद्वापि भुक्तिर्मुक्तिश्च तस्य च ॥ १७ ॥
अन्वेषयित्वा सर्वार्थान् विदधासि नृणामिह ।
अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ॥ १८ ॥
ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम् ।
स्मरणात्सर्वकार्याणां सिद्धिदं च भविष्यति ॥ १९ ॥
॥ मुनिरुवाच ॥
एवमुक्त्वाऽस्थापयात्स गण्डकीयशिलाकृताम् ।
मूर्तिं ढुण्ढेर्महादेवः प्रासादे चारु निर्मिते ॥ २० ॥
ततो विवेश भवनं सर्वे देवाः स्वमन्दिरम् ।
दिवोदासस्य मुक्तिं स ददौ भक्तस्य शङ्करः ॥ २१ ॥
॥ गृत्समद उवाच ॥
एवं विमोहितस्तेन दिवोदासः स्वमायया ।
विष्णुना बौद्धरूपेण तस्यास्य च हितं कृतम् ॥ २२ ॥
सर्वं ते कथितं देव सामर्थ्यं ढुण्ढिना कृतम् ।
एवं प्रभावो देवोऽसौ यद्वरादुत्थितः सुतः ॥ २३ ॥
॥ ब्रह्मोवाच उवाच ॥
एवं गृत्समदः प्रोक्त्वा तस्यै ढुण्डिविचेष्टितम् ।
गृहीत्वाज्ञां ययौ शीघ्रं निजमाश्रममण्डलम् ॥ २४ ॥
तदानीमेव सा पुत्रमादाय प्रस्थिता ततः ।
ढुण्ढेरायतनं याता नानानारीनरैर्युतम् ॥ २५ ॥
महोत्सवं प्रकुर्वद्भिर्दृष्ट्वा कीर्तिर्ननाम तम् ।
ययौ वाराणसीं पुण्यां मरणान्मुक्तिदायिनीम् ॥ २६ ॥
माघमासे चतुर्थ्यां सा भौमवारे मुदान्विता ।
अनेकस्वर्णपात्रस्थैः पक्वान्नैः पायसादिभिः ॥ २७ ॥
पूजितं भक्तनिवहैर्नृत्यगीतविशारदैः ।
नानालङ्कारसंयुक्तं दिव्यमाल्याम्बरावृतम् ॥ २८ ॥
नानामणिगणोपेतं नानामुक्ताविभूषितम् ।
सुवर्णरत्ननिचयैर्दक्षिणार्थं निवेदितैः ॥ २९ ॥
न दृश्यते देवमुखमिति चिन्तापराऽभवत् ।
मयाऽकिञ्चनयाऽस्मै किं निवेद्यमिति साऽनघ ॥ ३० ॥
सा दूर्वाशमिमन्दारकुसुमैमार्गसञ्चितैः ।
पुपूज परया भक्त्या पुत्रोदयमयाचत ॥ ३१ ॥
शमीमन्दारदूर्वाभिर्यथा तुष्टोऽभवत्तयोः ।
न तथा द्रव्यनिचयैर्ढुण्डिराजस्तुतोष ह ॥ ३२ ॥
ततो भक्ता गताः सर्वे स्वस्वमन्दिर मादृताः ।
उभौ तौ जननीपुत्रौ सन्निधौ तत्र तस्थतुः ॥ ३३ ॥
तयोर्निराहारतया भक्तिभावेन तोषितः ।
आविरासीन्मूर्तिमध्यात् ढुण्डिराजो महोत्कटः ॥ ३४ ॥
ऊचतुर्मुनिना प्रोक्तं यत्स्वरूपं महेशितुः ।
तदेतत् पुण्यनिचयैर्दृष्टं साक्षात्सुभास्वरम् ॥ ३५ ॥
सर्वालङ्कारसंयुक्तं मुकुटेन विराजितम् ।
दशबाहुधरं चारुनेत्रपङ्कजशोभितम् ॥ ३६ ॥
अनर्घ्यरत्नमुक्तानां बिभ्रद् दाम महत्तरम् ।
पीताम्बरयुतं दन्तविराजितमनुत्तमम् ॥ ३७ ॥
दृष्ट्वैवं परमं रूपं मग्नावानन्दसागरे ।
विस्मृतौ पूजनं कर्तुं नमस्कारं च तावुभौ ॥ ३८ ॥
उवाच भगवान् देवो वरं वरय सुव्रते ।
सुप्रसन्नः प्रदास्यामि यत्ते मनसि वर्तते ॥ ३९ ॥
मुक्ताफलैर्न रत्नैश्च द्रव्यैर्नानाविधैरहम् ।
प्रीतो यथा शमीपत्रैर्मन्दारैरपि शोभने ॥ ४० ॥
॥ ब्रह्मोवाच ॥
एवमाकर्ण्य तद्वाक्यं कीर्तिस्तोषमियात् परम् ।
देहभावं समासाद्य जगाद द्विरदाननम् ॥ ४१ ॥
किं स्त्रिया वचनं कार्यं सर्वज्ञे सर्वरूपिणि ।
आज्ञयाऽथ तथाऽप्यूचे सान्निध्याल्लब्धबोधया ॥ ४२ ॥
॥ कीर्तिरुवाच ॥
निष्कलो निरहंकारो निर्गुणोऽसि जगत्प्रभुः ।
पूर्णानन्दः परानन्दः पुराणश्च परात्परः ॥ ४३ ॥
दिक्पालरूपी सोमार्कसरित्सागररूपवान् ।
त्वमेव पृथिवी वायुराकाशस्तेज एव च ॥ ४४ ॥
जलं तथाऽन्तरिक्षं च गन्धर्वोरगराक्षसाः ।
चराचरस्वरूपस्त्वं दीनानाथकृपानिधिः ॥ ४५ ॥
विनायकादिरूपेण व्यक्तिं प्राप्तोऽसि साम्प्रतम् ।
अद्य मे नयने धन्ये जन्म भर्ता सुतोऽप्ययम् ॥ ४६ ॥
पितरौ च कुलं शीलं रूपं ज्ञानं तपोऽपि च ।
जन्मान्तरीयपुण्येन दृष्टः क्षिप्रप्रसादनः ॥ ४७ ॥
तवैव चाज्ञया देव स्थापिताऽस्य तवाभिधा ।
सपत्न्याऽस्य विषं दत्तं मृत उत्थापितः पुनः ॥ ४८ ॥
गृत्समदेन मुनिना तव भक्त्यैव विश्वराट् ।
शमीपत्रैश्च पूजा ते कथिता तव लब्धये ॥ ४९ ॥
मुनिप्रभावाद् दृष्टोऽसि तापत्रयनिवारणः ।
प्रसन्नश्चेद् देहि नाथ भक्तिं मम सुतस्य ते ॥ ५० ॥
त्रैलोक्येऽपि यशश्चाग्र्यं राज्ये निःसङ्गवृत्तिताम् ।
दीर्घायुः सद्गुणग्रामं बलं कीर्तिं सुखं क्षमाम् ॥ ५१ ॥
विजयं सर्वसङ्ग्रामे द्विजे देवे रतिं पराम् ।
॥ ढुण्ढिरुवाच ॥
ये ये वरास्त्वया प्रोक्तास्ते ते दत्ता मयाऽनघे ॥ ५२ ॥
सहस्रयज्ञकर्ताऽसौ जीवन्वर्षसहस्रकम् ।
शान्तो दान्तो हि मद्भक्तो राज्यं कर्ता सुतस्तव ॥ ५३ ॥
चतुर्भिरप्युपायैः स वशे सर्वं करिष्यति ।
मम ध्यानं नामजपः सर्वदाऽस्य भविष्यति ।
अन्ते मम स्मृतिं कृत्वा मत्स्वरूपं प्रपत्स्यते ॥ ५४ ॥
॥ ब्रह्मोवाच ॥
एवं तस्यै वरान्दत्त्वा परितुष्टो विनायकः ॥ ५५ ॥
ददौ स्वपरशुं तस्य पर्शुबाहुरिति स्फुटम् ।
चक्रे नाम स्वयं देवस्ततश्चान्तर्हितोऽभवत् ॥ ५६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कीर्तेवरप्रदानं
नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें