श्रीगणेशपुराणे क्रीडाखण्डे चतुश्चत्वारिंशोऽध्यायः
बालचरिते दिवोदासोपाख्यानं
॥ कीर्तिरुवाच ॥
ढुण्डिराजावतारोऽयं ख्यातस्ते शक्तिसम्भवः ।
दुरासदवधार्थाय त्रिलोकीपालनाय च ॥ १ ॥
एकपादः स्थितस्तुण्डनगरे चैकपादतः ।
स्थितो दैत्यं समाक्रान्त्य वाराणस्यामिति श्रुतम् ॥ २ ॥
उभाभ्यामपि पादाभ्यामुभयत्र स्थितिः कथम् ।
एवं मे संशयं ब्रह्मन् नुद त्वं सर्वविद् यतः ॥ ३ ॥
॥ मुनिरुवाच ॥
किमसाध्यं विश्वरूपे विश्वकर्तरि विश्वपे ।
विश्वव्यापिनि विश्वेशे ढुण्डिराजे च शासति ॥ ४ ॥
विश्वान्तर्यामिणि परे विश्वसंहारकारिणि ।
सप्तपातालचरणे स्वर्गव्यापि शिरोरुहे ॥ ५ ॥
सर्वतः पाणिचरणे सर्वतः श्रोत्रचक्षुषि ।
मनसश्च श्रुतीनां च ब्रह्मादीनां च योगिनाम् ॥ ६ ॥
अगम्ये तत्त्वतो वायुपृथिवीजलरूपिणि ।
यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ॥ ७ ॥
भ्रमन्ति पवनोद्भूताः पतङ्गा इव व्योमनि ।
संशयो वा वितर्को वा तस्मिन् मातर्न विद्यते ॥ ८ ॥
अनेकरूपिणि विभौ प्रभुः कर्तुं चराचरम् ।
यदिच्छया भवेद् राज्ञि सुधा विषस्वरूपिणी ॥ ९ ॥
अमृतं विषरूपं च तत्र किं किं न सम्भवेत् ।
अवतारस्य देवस्य विचित्रा गतिरुच्यते ॥ १० ॥
कियन्तो ह्यवतारा वै कदा कुत्रेति निश्चितुम् ।
न शक्यते सुरैः सर्वैः सशेषैरपि सर्वदा ॥ ११ ॥
अतस्त्यक्त्वा तु सन्देहं कथां शुणु मयेरिताम् ।
यां श्रुत्वा सर्वधर्मज्ञे मुच्यते पापसञ्चयात् ॥ १२ ॥
सूर्यवंशोद्भवो राजा दिवोदासोऽभवत्पुरा ।
वदान्यश्च महामानी मान्यो भूमण्डलेऽखिले ॥ १३ ॥
वक्ता बृहस्पतिसमः सर्वज्ञः सर्वदा शिवः ।
वेदशास्त्रपुराणानां ज्ञानी विज्ञजनप्रियः ॥ १४ ॥
कामिनीमोहनतनुर्जितेन्द्रियतया स्थितः ।
उपकारपरो नित्यं परद्रोहपराङ्मुखः ॥ १५ ॥
निस्पृहः परवित्तषु स्थूललक्ष्यः पराक्रमी ।
तपसा तस्य तुष्टेन ब्रह्मणा राज्यमुत्तमम् ॥ १६ ॥
काश्यां वृष्टिविहीनायां दत्तं लोकोपकारिणा ।
सर्वदेवबहिष्कारात् सोऽपि जग्राह बुद्धिमान् ॥ १७ ॥
स्वयमेवाभवत्सोऽथ रविरिन्द्रो हुताशनः ।
मरुच्चन्द्रश्च धर्मेण पालयामास तां पुरीम् ॥ १८ ॥
तपसा तस्य सञ्जाता वृष्टिर्लोका इतस्ततः ।
अविमुक्तं समायाताः प्रशशंसुर्नृपं च तम् ॥ १९ ॥
तस्य पत्नी सुशीला सा नाम्ना नाम पतिव्रता ।
धर्मशीला दानपरा पतिवाक्यपरायणा ॥ २० ॥
आचारं व्यवहारं वा प्रायश्चित्तमसौ नृपः ।
पण्डितैः कारयामास राजदण्डं न चाददे ॥ २१ ॥
शिवेन मरुतः सर्वे मन्दारगिरिमन्वयुः ।
नापमृत्युर्न शोको वा नैव दुःखं हि कस्यचित् ॥ २२ ॥
उत्पातास्त्रिविधा नासँस्तस्मिन् राज्यं प्रशासति ।
हाहाकारः शमं यातो नाऽवृष्टिविहितो महान् ॥ २३ ॥
पशुपक्षिमनुष्याणां सस्यानि च बहून्यपि ।
यदा यत्तं प्राणिमात्रं जातानि वृष्टियोगतः ॥ २४ ॥
स्वाहास्वधावषट्काराः सर्व आसन् यथा पुरा ।
ते च देवाः सुखं प्राप्ता ये प्रार्थयन्नृपं पुरा ॥ २५ ॥
यं तुष्टुवुः सुराः सर्वे ब्रह्मवाक्यप्रणोदिताः ।
सोऽपि नाना स्तुतिं चक्रे देवानां दर्शनाद्भृशम् ॥ २६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दिवोदासोपाख्यानं नाम
चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें