श्रीगणेशपुराणे क्रीडाखण्डे त्रिचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रिचत्वारिंशोऽध्यायः
बालचरिते ढुण्डिराजाख्यानं

॥ गृत्समद उवाच ॥

विजिते तु गणेशेन दैत्ये तस्मिन् दुरासदे ।
दिक्पाला मुनयश्चैव शशी सूर्यो गुरुः कविः ॥ १ ॥
प्रशशंसुर्देवदेवं दुरासदरिपुं विभुम् ।
श्रुतिस्मृतिकृतो मार्गः स्थापितो निहितोऽसुरः ॥ २ ॥


स्थापना च कृताऽस्माकमशक्त्तानां दुरासदे ।
त्वमेव सृजसे विश्वं त्वमेव फलदायकः ॥ ३ ॥
समः सर्वेषु भूतेषु कर्मभिर्न च लिप्यसे ।
त्वदाश्रयाश्चतुर्वर्णा जन्तवश्च त्वदाश्रयाः ॥ ४ ॥
गवेषयंश्च नानार्थास्तत्तत्कर्मणि योजयन् ।
गवेषणे ढुण्ढिरयं धातुरुक्तो मनीषिभिः ॥ ५ ॥
स आस्ते ढुण्ढिरित्येव संज्ञा राजोत्तराऽस्तु च ।
तव यद्दर्शनं पूजा ध्यानं स्मरणमेव च ॥ ६ ॥
धर्मार्थकाममोक्षाणां साधनं पुत्रपौत्रदम् ।
इत्युत्वा पुपुजुस्तेऽमुं मन्दारैश्च शमीदलैः ॥ ७ ॥
दुर्वाङ्कुरैर्हरिद्भिश्च श्वेतैश्च कुसुमैरपि ।
नानापक्वान्ननैवेद्यैः फलैर्बहुविधैरपि ॥ ८ ॥
रत्नानां निचयैवप्रभोजनस्तमतोषयन् ।
एवं ते पूजिताः सर्वे सप्तावरणरूपिणः ॥ ९ ॥
स्थिता वाराणसीं त्रातुं षट्पञ्चाशद्विनायकाः ।
एकः पञ्चमुखस्तत्र विश्वेशद्वारि तिष्ठति ॥ १० ॥
अन्ये च भिन्ननामानो व्याप्य वाराणसीं स्थिताः ।
स्थिते विश्वेश्वरे तत्र सर्वे तत्रैव संस्थिताः ॥ ११ ॥
आचन्द्रं स्वाधिकारेषु ब्रह्माद्या मुनयोऽखिलाः ।
अकुर्वन् सर्वकर्माणि सर्वे लोका यथा पुरा ॥ १२ ॥
इति ते सर्वमाख्यातं कीर्ते पृष्टं हि यत्त्वया ।
ढुण्ढिराजस्यावतारो धर्मकामसुखप्रदः ।
दिवोदासबहिर्भावं कथयिष्येऽधुना तव ॥ १३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते ढुण्डिराजस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-43

कोई टिप्पणी नहीं:

123