श्रीलिङ्गमहापुराण -[पूर्वभाग] -069
॥ श्रीसाम्बसदाशिवाय नमः ॥
उनहत्तरवाँ अध्याय
चन्द्रवंश-वर्णन में भगवान् श्रीकृष्ण के अवतार की कथा तथा संक्षेप में कृष्णचरित का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे एकोनसप्ततितमोऽध्यायः
सोमवंशानुकीर्तनं
॥ सूत उवाच ॥
सात्वतः सत्यसम्पन्नः प्रजज्ञे चतुरः सुतान् ।
भजनं भ्राजमानं च दिव्यं देवावृधं नृपम् ॥ १ ॥
अन्धकं च महाभागं वृष्णिं च यदुनन्दनम् ।
तेषां निसर्गांश्चतुरः शृणुध्वं विस्तरेण वै ॥ २ ॥
अयुतायुः शतायुश्च बलवान् हर्षकृत्स्मृतः ॥ ३ ॥
तेषां देवावृधो राजा चचार परमं तपः ।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्मरन् ॥ ४ ॥
तस्य बभ्रुरिति ख्यातः पुण्यश्लोको नृपोत्तमः ।
अनुवंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥ ५ ॥
गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः ।
यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकात् ॥ ६ ॥
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
पुरुषाः पञ्च षष्टिस्तु षट्सहस्राणि चाष्ट च ॥ ७ ॥
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ।
यज्वा दानमतिर्वीरो ब्रह्मण्यस्तु दृढव्रतः ॥ ८ ॥
कीर्तिमांश्च महातेजाः सात्वतानां महारथः ।
तस्यान्ववाये सम्भूता भोजा वै दैवतोपमाः ॥ ९ ॥
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः ।
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥ १० ॥
माद्री लेभे च तं पुत्रं ततः सा देवमीढुषम् ।
अनमित्रं शिनिं चैव तावुभौ पुरुषोत्तमौ ॥ ११ ॥
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ।
प्रसेनश्च महाभागः सत्राजिच्च सुतावुभौ ॥ १२ ॥
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ।
स्यमन्तको नाम मणिर्दत्तस्तस्मै विवस्वता ॥ १३ ॥
पृथिव्यां सर्वरत्नानामसौ राजाभवन्मणिः ।
कदाचिन्मृगयां यातः प्रसेनेन सहैव सः ॥ १४ ॥
वधं प्राप्तोऽसहायश्च सिंहादेव सुदारुणात् ।
अथ पुत्रः शिनेर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥ १५ ॥
सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः ।
सात्यकिर्युयुधानस्तु शिनेर्नप्ता प्रतापवान् ॥ १६ ॥
असङ्गो युयुधानस्य कुणिस्तस्य सुतोऽभवत् ।
कुणेर्युगन्धरः पुत्रः शैनेया इति कीर्तिताः ॥ १७ ॥
माद्र्याः सुतस्य सञ्जज्ञे सुतो वार्ष्णिर्युधाजितः ।
श्वफल्क इति विख्यातस्त्रैलोक्यहितकारकः ॥ १८ ॥
श्वफल्कश्च महाराजो धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावृष्टिभयमप्युत ॥ १९ ॥
श्वफल्कः काशिराजस्य सुतां भार्यामवाप सः ।
गान्दिनीं नाम काश्यो हि ददौ तस्मै स्वकन्यकाम् ॥ २० ॥
सा मातुरुदरस्था वै बहून् वर्षगणान् किल ।
वसन्ती न च सञ्जज्ञे गर्भस्था तां पिताब्रवीत् ॥ २१ ॥
जायस्व शीघ्रं भद्रं ते किमर्थं चाभितिष्ठसि ।
प्रोवाच चैनं गर्भस्था सा कन्या गान्दिनी तदा ॥ २२ ॥
वर्षत्रयं प्रतिदिनं गामेकां ब्राह्मणाय तु ।
यदि दद्यास्ततः कुक्षेर्निर्गमिष्याम्यहं पितः ॥ २३ ॥
तथेत्युवाच तस्या वै पिता काममपूरयत् ।
दाता शूरश्च यज्वा च श्रुतवानतिथिप्रियः ॥ २४ ॥
तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्काद्भूरिदक्षिणः ।
रत्ना कन्या च शैवस्य ह्यक्रूरस्तामवाप्तवान् ॥ २५ ॥
अस्यामुत्पादयामास तनयांस्तान्निबोधत ।
उपमन्युस्तथा मागुर्वृतस्तु जनमेजयः ॥ २६ ॥
गिरिरक्षस्तथोपेक्षः शत्रुघ्नो योऽरिमर्दनः ।
धर्मभृद् वृष्टधर्मा च गोधनोऽथ वरस्तथा ॥ २७ ॥
आवाहप्रतिवाहौ च सुधारा च वराङ्गना ।
अक्रूरस्योग्रसेन्यां तु पुत्रौ द्वौ कुलनन्दनौ ॥ २८ ॥
देववानुपदेवश्च जज्ञाते देवसम्मतौ ।
सुमित्रस्य सुतो जज्ञे चित्रकश्च महायशाः ॥ २९ ॥
चित्रकस्याभवन् पुत्रा विपृथुः पृथुरेव च ।
अश्वग्रीवः सुबाहुश्च सुधासूकगवेक्षणौ ॥ ३० ॥
अरिष्टनेमिरश्वश्च धर्मो धर्मभृदेव च ।
सुभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ ३१ ॥
अन्धकात्काश्यदुहिता लेभे च चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कम्बलबर्हिषम् ॥ ३२ ॥
कुकुरस्य सुतो वृष्णिर्वृष्णेः शूरस्ततोऽभवत् ।
कपोतरोमातिबलस्तस्य पुत्रो विलोमकः ॥ ३३ ॥
तस्यासीत्तुम्बुरुसखो विद्वान् पुत्रो नलः किल ।
ख्यायते स सुनाम्ना तु चन्दनानकदुन्दुभिः ॥ ३४ ॥
तस्मादप्यभिजित्पुत्र उत्पन्नोऽस्य पुनर्वसुः ।
अश्वमेधं स पुत्रार्थमाजहार नरोत्तमः ॥ ३५ ॥
तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितः ।
ततस्तु विद्वान् सर्वज्ञो दाता यज्वा पुनर्वसुः ॥ ३६ ॥
तस्यापि पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ कीर्तिमतां वरौ ॥ ३७ ॥
आहुकात्काश्यदुहितुर्द्वौ पुत्रौ सम्बभूवतुः ।
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥ ३८ ॥
देवकस्य सुता राज्ञो जज्ञिरे त्रिदशोपमाः ।
देववानुपदेवश्च सुदेवो देवरक्षितः ॥ ३९ ॥
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।
वृषदेवोपदेवा च तथान्या देवरक्षिता ॥ ४० ॥
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा ।
देवकी चापि तासां च वरिष्ठाऽभूत्सुमध्यमा ॥ ४१ ॥
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ४२ ॥
देवकस्य सुता पत्नी वसुदेवस्य धीमतः ।
बभूव वन्द्या पूज्या च देवैरपि पतिव्रता ॥ ४३ ॥
रोहिणी च महाभागा पत्नी चानकदुन्दुभेः ।
पौरवी बाह्लिकसुता सम्पूज्यासीत्सुरैरपि ॥ ४४ ॥
असूत रोहिणी रामं बलश्रेष्ठं हलायुधम् ।
आश्रितं कंसभीत्या च स्वात्मानं शान्ततेजसम् ॥ ४५ ॥
जाते रामेऽथ निहते षड्गर्भे चातिदक्षिणे ।
वसुदेवो हरिं धीमान् देवक्यामुदपादयत् ॥ ४६ ॥
स एव परमात्मासौ देवदेवो जनार्दनः ।
हलायुधश्च भगवाननन्तो रजतप्रभः ॥ ४७ ॥
भृगुशापछलेनैव मानयन् मानुषीं तनुम् ।
बभूव तस्यां देवक्यां वासुदेवो जनार्दन ॥ ४८ ॥
उमादेहसमुद्भूता योगनिद्रा च कौशिकी ।
नियोगाद्देवदेवस्य यशोदातनया ह्यभूत् ॥ ४९ ॥
सा चैव प्रकृतिः साक्षात् सर्वदेवनमस्कृता ।
पुरुषो भगवान् कृष्णो धर्ममोक्षफलप्रदः ॥ ५० ॥
तां कन्यां जगृहे रक्षन् कंसात्स्वस्यात्मजं तदा ।
चतुर्भुजं विशालाक्षं श्रीवत्सकृतलाञ्छनम् ॥ ५१ ॥
शङ्खचक्रगदापद्मं धारयन्तं जनार्दनम् ।
यशोदायै प्रदत्त्वा तु वसुदेवश्च बुद्धिमान् ॥ ५२ ॥
दत्त्वैनं नन्दगोपस्य रक्षतामिति चाब्रवीत् ।
रक्षकं जगतां विष्णुं स्वेच्छया धृतविग्रहम् ॥ ५३ ॥
प्रसादाच्चैव देवस्य शिवस्यामिततेजसः ।
रामेण सार्धं तं दत्त्वा वरदं परमेश्वरम् ॥ ५४ ॥
भूभारनिग्रहार्थं च ह्यवतीर्णं जगद्गुरुम् ।
अतो वै सर्वकल्याणं यादवानां भविष्यति ॥ ५५ ॥
अयं स गर्भो देवक्या यो नः क्लेश्यान् हरिष्यति ।
उग्रसेनात्मजायाथ कंसायानकदुन्दुभिः ॥ ५६ ॥
निवेदयामास तदा जातां कन्यां सुलक्षणाम् ।
अस्यास्तवाष्टमो गर्भो देवक्याः कंस सुव्रत ॥ ५७ ॥
मृत्युरेव न सन्देह इति वाणी पुरातनी ।
ततस्तां हन्तुमारेभे कंसः सोल्लङ्घ्य चाम्बरम् ॥ ५८ ॥
उवाचाष्टभुजा देवी मेघगंभीरया गिरा ।
रक्षस्व तत्स्वकं देहमायातो मृत्युरेव ते ॥ ५९ ॥
रक्षमाणस्य देहस्य मायावी कंसरूपिणः ।
किं कृतं दुष्कृतं मूर्ख जातः खलु तवान्तकृत् ॥ ६० ॥
देवक्याः स भयात्कंसो जघानैवाष्टमं त्विति ।
स्मरन्ति विहितो मृत्युर्देवक्यास्तनयोऽष्टमः ॥ ६१ ॥
यस्तत् प्रतिकृतौ यत्नो भोजस्यासीद्वृथा हरेः ।
प्रभावान्मुनिशार्दूलास्तया चैव जडीकृतः ॥ ६२ ॥
कंसोऽपि निहतस्तेन कृष्णेनाक्लिष्टकर्मणा ।
निहता बहवश्चान्ये देवब्राह्मणघातिनः ॥ ६३ ॥
तस्य कृष्णस्य तनयाः प्रद्युम्नप्रमुखास्तथा ।
बहवः परिसंख्याताः सर्वे युद्धविशारदाः ॥ ६४ ॥
कृष्णपुत्राः समाख्याताः कृष्णेन सदृशाः सुताः ।
पुत्रेष्वेतेषु सर्वेषु चारुदेष्णादयो हरेः ॥ ६५ ॥
विशिष्टा बलवन्तश्च रौक्मिणेयारिसूदनाः ।
षोडशस्त्रीसहस्राणि शतमेकं तथाधिकम् ॥ ६६ ॥
कृष्णस्य तासु सर्वासु प्रिया ज्येष्ठा च रुक्मिणी ।
तया द्वादशवर्षाणि कृष्णेनाक्लिष्टकर्मणा ॥ ६७ ॥
उष्यता वायुभक्षेण पुत्रार्थं पूजितो हरः ।
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ॥ ६८ ॥
चारुश्रवाश्चारुयशाः प्रद्युम्नः साम्ब एव च ।
एते लब्धास्तु कृष्णेन शूलपाणिप्रसादतः ॥ ६९ ॥
तान् दृष्ट्वा तनयान्वीरान् रौक्मिणेयांश्च रुक्मिणीम् ।
जाम्बवत्यब्रवीत्कृष्णं भार्या कृष्णस्य धीमतः ॥ ७० ॥
मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तरम् ।
सुरेशसम्मितं पुत्रं प्रसन्नो दातुमर्हसि ॥ ७१ ॥
जाम्बवत्या वचः श्रुत्वा जगन्नाथस्ततो हरिः ।
तपस्तप्तुं समारेभे तपोनिधिरनिन्दितः ॥ ७२ ॥
सोऽथ नारायणः कृष्णः शङ्खचक्रगदाधरः ।
व्याघ्रपादस्य च मुनेर्गत्वा चैवाश्रमोत्तमम् ॥ ७३ ॥
ऋषिं दृष्ट्वा त्वङ्गिरसं प्रणिपत्य जनार्दनः ।
दिव्यं पाशुपतं योगं लब्धवांस्तस्य चाज्ञया ॥ ७४ ॥
प्रलुप्तश्मश्रुकेशश्च घृताक्तो मुञ्जमेखली ।
दीक्षितो भगवान् कृष्णस्तताप च परंतपः ॥ ७५ ॥
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ।
फलाम्बनिलभोजी च ऋतुत्रयमधोक्षजः ॥ ७६ ॥
तपसा तस्य सन्तुष्टो ददौ रुद्रो बहून् वरान् ।
साम्बं जाम्बवतीपुत्रं कृष्णाय च महात्मने ॥ ७७ ॥
तथा जाम्बवती चैव साम्बं भार्या हरेः सुतम् ।
प्रहर्षमतुलं लेभे लब्ध्वादित्यं यथादितिः ॥ ७८ ॥
बाणस्य च तदा तेन च्छेदितं मुनिपुङ्गवाः ।
भुजानां चैव साहस्रं शापाद्रुद्रस्य धीमतः ॥ ७९ ॥
अथ दैत्यवधं चक्रे हलायुधसहायवान् ।
तथा दुष्टक्षितीशानां लीलयैव रणाजिरे ॥ ८० ॥
स हत्वा देवसम्भूतं नरकं दैत्यपुङ्गवम् ।
ब्राह्मणस्योर्ध्वचक्रस्य वरदानान्महात्मनः ॥ ८१ ॥
स्वोपभोग्यानि कन्यानां षोडशातुलविक्रमः ।
शताधिकानि जग्राह सहस्राणि महाबलः ॥ ८२ ॥
शापव्याजेन विप्राणामुपसंहृतवान् कुलम् ।
संहृत्य तत्कुलं चैव प्रभासेऽतिष्ठदच्युतः ॥ ८३ ॥
तदा तस्यैव तु गतं वर्षाणामधिकं शतम् ।
कृष्णस्य द्वारकायां वै जराक्लेशापहारिणः ॥ ८४ ॥
विश्वामित्रस्य कण्वस्य नारदस्य च धीमतः ।
शापं पिण्डारकेऽरक्षद्वचो दुर्वाससस्तदा ॥ ८५ ॥
त्यक्त्वा च मानुषं रूपं जरकास्त्रच्छलेन तु ।
अनुगृह्य च कृष्णोऽपि लुब्धकं प्रययौ दिवम् ॥ ८६ ॥
अष्टावक्रस्य शापेन भार्याः कृष्णस्य धीमतः ।
चौरैश्चापहृताः सर्वास्तस्य मायाबलेन च ॥ ८७ ॥
बलभद्रोऽपि सन्त्यज्य नागो भूत्वा जगाम च ।
महिष्यस्तस्य कृष्णस्य रुक्मिणीप्रमुखाः शुभाः ॥ ८८ ॥
सहाग्निं विविशुः सर्वाः कृष्णेनाक्लिष्टकर्मणा ।
रेवती च तथा देवी बलभद्रेण धीमता ॥ ८९ ॥
प्रविष्टा पावकं विप्राः सा च भर्तृपथं गता ।
प्रेतकार्यं हरेः कृत्वा पार्थः परमवीर्यवान् ॥ ९० ॥
रामस्य च तथान्येषां वृष्णीनामपि सुव्रतः ।
कन्दमूलफलैस्तस्य बलिकार्यं चकार सः ॥ ९१ ॥
द्रव्याभावात्स्वयं पार्थो भ्रातृभिश्च दिवं गतः ।
एवं सङ्क्षेपतः प्रोक्तः कृष्णस्याक्लिष्टकर्मणः ॥ ९२ ॥
प्रभावो विलयश्चैव स्वेच्छयैव महात्मनः ।
इत्येतत्सोमवंशानां नृपाणां चरितं द्विजाः ॥ ९३ ॥
यः पठेच्छृणुयाद्वापि ब्राह्मणान् श्रावयेदपि ।
स याति वैष्णवं लोकं नात्र कार्या विचारणा ॥ ९४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवंशानुकीर्तनं
नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें