श्रीलिङ्गमहापुराण -[पूर्वभाग] -068
॥ श्रीसाम्बसदाशिवाय नमः ॥
अड़सठवाँ अध्याय
ययातिपुत्र यदु के वंश का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे अष्टषष्टितमोऽध्यायः
वंशानुवर्णनं
॥ सूत उवाच ॥
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
सङ्क्षेपेणानुपूर्व्याच्च गदतो मे निबोधत ॥ १ ॥
यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः ।
सहस्रजित्सुतो ज्येष्ठः क्रोष्टुर्नीलोऽजको लघुः ॥ २ ॥
सहस्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः ।
सुताः शतजितः ख्यातास्त्रयः परमकीर्तयः ॥ ३ ॥
हैहयश्च हयश्चैव राजा वेणुहयश्च यः ।
हैहयस्य तु दायादो धर्म इत्यभिविश्रुतः ॥ ४ ॥
तस्य पुत्रोऽभवद्विप्रा धर्मनेत्र इति श्रुतः ।
धर्मनेत्रस्य कीर्तिस्तु सञ्जयस्तस्य चात्मजः ॥ ५ ॥
सञ्जयस्य तु दायादो महिष्मान्नाम धार्मिकः ।
आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ॥ ६ ॥
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ।
दुर्दमस्य सुतो धीमान् धनको नाम विश्रुतः ॥ ७ ॥
धनकस्य तु दायादाश्चत्वारो लोकसम्मताः ।
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ॥ ८ ॥
कृतौजाश्च चतुर्थोऽभूत्कार्तवीर्यस्ततोऽर्जुनः ।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरोत्तमः ॥ ९ ॥
तस्य रामस्तदा त्वासीन्मृत्युर्नारायणात्मकः ।
तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः ॥ १० ॥
कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः ।
शूरश्च शूरसेनश्च धृष्टः कृष्णस्तथैव च ॥ ११ ॥
जयध्वजश्च राजासीदावन्तीनां विशां पतिः ।
जयध्वजस्य पुत्रोऽभूत्तालजङ्घो महाबलः ॥ १२ ॥
शतं पुत्रास्तु तस्येह तालजङ्घाः प्रकीर्तिताः ।
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः ॥ १३ ॥
वृषप्रभृतयश्चान्ये तत्सुताः पुण्यकर्मणः ।
वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन् मधुः ॥ १४ ॥
मधोः पुत्रशतं चासीद्वृष्णिस्तस्य तु वंशभाक् ।
वृष्णेस्तु वृष्णयः सर्वे मधोर्वै माधवाः स्मृताः ।
यादवा यदुवंशेन निरुच्यन्ते तु हैहयाः ॥ १५ ॥
तेषां पञ्च गणा ह्येते हैहयानां महात्मनाम् ॥ १६ ॥
वीतिहोत्राश्च हर्याता भोजाश्चावन्तयस्तथा ।
शूरसेनास्तु विख्यातास्तालजङ्घास्तथैव च ॥ १७ ॥
शूरश्च शूरसेनश्च वृषः कृष्णस्तथैव च ।
जयध्वजः पञ्चमस्तु विख्याता हैहयोत्तमाः ॥ १८ ॥
शूरश्च शूरवीरश्च शूरसेनस्य चानघाः ।
शूरसेना इति ख्याता देशास्तेषां महात्मनाम् ॥ १९ ॥
वीतिहोत्रसुतश्चापि विश्रुतो नर्त इत्युत ।
दुर्जयः कृष्णपुत्रस्तु बभूवामित्रकर्षणः ॥ २० ॥
क्रोष्टुश्च शृणु राजर्षेर्वंशमुत्तमपौरुषम् ।
यस्यान्वये तु सम्भूतो विष्णुर्वृष्णिकुलोद्वहः ॥ २१ ॥
क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवान् महायशाः ।
तस्य पुत्रोऽभवत्स्वाती कुशङ्कुस्तत्सुतोऽभवत् ॥ २२ ॥
अथ प्रसूतिमिच्छन् वै कुशङ्कुः सुमहाबलः ।
महाक्रतुभिरीजेऽसौ विविधैराप्तदक्षिणैः ॥ २३ ॥
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ।
अथ चैत्ररथो वीरो यज्वा विपुलदक्षिणः ॥ २४ ॥
शशबिन्दुस्तु वै राजा अन्वयाद्व्रतमुत्तमम् ।
चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजः ॥ २५ ॥
शशबिन्दोस्तु पुत्राणां सहस्राणामभूच्छतम् ।
शंसन्ति तस्य पुत्राणामनन्तकमनुत्तमम् ॥ २६ ॥
अनन्तकात्सुतो यज्ञो यज्ञस्य तनयो धृतिः ।
उशनास्तस्य तनयः सम्प्राप्य तु महीमिमाम् ॥ २७ ॥
आजहाराश्वमेधानां शतमुत्तमधार्मिकः ।
स्मृतश्चोशनसः पुत्रः सितेषुर्नाम पार्थिवः ॥ २८ ॥
मरुतस्तस्य तनयो राजर्षिर्वंशवर्धनः ।
वीरः कम्बलबर्हिस्तु मरुस्तस्यात्मजः स्मृतः ॥ २९ ॥
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः ।
निहत्य रुक्मकवचो वीरान् कवचिनो रणे ॥ ३० ॥
धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम् ।
अश्वमेधे तु धर्मात्मा ऋत्विग्भ्यः पृथिवीं ददौ ॥ ३१ ॥
जज्ञे तु रुक्मकवचात्परावृत्परवीरहा ।
जज्ञिरे पञ्च पुत्रास्तु महासत्त्वाः परावृतः ॥ ३२ ॥
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः ।
परिघं च हरिं चैव विदेहेषु पिता न्यसत् ॥ ३३ ॥
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयात् ।
तैस्तु प्रव्राजितो राजा ज्यामघोऽवसदाश्रमे ॥ ३४ ॥
प्रशान्तः स वनस्थोऽपि ब्राह्मणैरेव बोधितः ।
जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥ ३५ ॥
नर्मदातीरमेकाकी केवलं भार्यया युतः ।
ऋक्षवन्तं गिरिं गत्वा त्यक्तमन्यैरुवास सः ॥ ३६ ॥
ज्यामघस्याभवद्भार्या शैब्या शीलवती सती ।
सा चैव तपसोग्रेण शैब्या वै सम्प्रसूयत ॥ ३७ ॥
सुतं विदर्भं सुभगा वयःपरिणता सती ।
राजपुत्रसुतायां तु विद्वांसौ क्रथकैशिकौ ॥ ३८ ॥
पुत्रौ विदर्भराजस्य शूरौ रणविशारदौ ।
रोमपादस्तृतीयश्च बभ्रुस्तस्यात्मजः स्मृतः ॥ ३९ ॥
सुधृतिस्तनयस्तस्य विद्वान् परमधार्मिकः ।
कौशिकस्तनयस्तस्मात्तस्माच्चैद्यान्वयः स्मृतः ॥ ४० ॥
क्रथो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् ।
कुन्तेर्वृतस्ततो जज्ञे रणधृष्टः प्रतापवान् ॥ ४१ ॥
रणधृष्टस्य च सुतो निधृतिः परवीरहा ।
दशार्हो नैधृतो नाम्ना महारिगणसूदनः ॥ ४२ ॥
दशार्हस्य सुतो व्याप्तो जीमूत इति तत्सुतः ।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः ॥ ४३ ॥
अथ भीमरथस्यासीत्पुत्रो नवरथः किल ।
दानधर्मरतो नित्यं सत्यशीलपरायणः ॥ ४४ ॥
तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः ।
तस्मात्करम्भः सम्भूतो देवरातोऽभवत्ततः ॥ ४५ ॥
देवरातादभूद्राजा देवरातिर्महायशाः ।
देवगर्भोपमो जज्ञे यो देवक्षत्रनामकः ॥ ४६ ॥
देवक्षत्रसुतः श्रीमान् मधुर्नाम महायशाः ।
मधूनां वंशकृद्राजा मधोस्तु कुरुवंशकः ॥ ४७ ॥
कुरुवंशादनुस्तस्मात् पुरुत्वान् पुरुषोत्तमः ।
अंशुर्जज्ञे च वैदर्भ्यां भद्रवत्यां पुरुत्वतः ॥ ४८ ॥
ऐक्ष्वाकीमवहच्चांशुः सत्त्वस्तस्मादजायत ।
सत्त्वात्सर्वगुणोपेतः सात्वतः कुलवर्धनः ॥ ४९ ॥
ज्यामघस्य मया प्रोक्ता सृष्टिर्वै विस्तरेण वः ।
यः पठेच्छृणुयाद्वापि निसृष्टिं ज्यामघस्य तु ॥ ५० ॥
प्रजीवत्येति वै स्वर्गं राज्यं सौख्यं च विन्दति ॥ ५१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे वंशानुवर्णनं
नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें