श्रीलिङ्गमहापुराण -[पूर्वभाग] -067

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -067

॥ श्रीसाम्बसदाशिवाय नमः ॥
सड़सठवाँ अध्याय
राजर्षि ययाति का आख्यान तथा ययाति गाथा
श्रीलिङ्गमहापुराणे पूर्वभागे सप्तषष्टितमोऽध्यायः
सोमवंशे ययाति चरितं

॥ ययातिरुवाच ॥
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥ १ ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलमतिश्चैव न स पुत्रः सतां मतः ॥ २ ॥


मातापित्रोर्वचनकृत्सद्भिः पुत्रः प्रशस्यते ।
स पुत्रः पुत्रवद्यस्तु वर्तते मातृपितृषु ॥ ३ ॥
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ।
द्रुह्येन चानुना चैव मय्यवज्ञा कृता भृशम् ॥ ४ ॥
पुरुणा च कृतं वाक्यं मानितश्च विशेषतः ।
कनीयान् मम दायादो जरा येन धृता मम ॥ ५ ॥
शुक्रेण मे समादिष्टा देवयान्याः कृते जरा ।
प्रार्थितेन पुनस्तेन जरा संचारिणी कृता ॥ ६ ॥
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।
पुत्रो यस्त्वनुवर्तेत स ते राज्यधरस्त्विति ॥ ७ ॥
भवन्तोऽप्यनुजानन्तु पूरू राज्येऽभिषिच्यते ।
॥ प्रकृतय ऊचुः ॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ॥ ८ ॥
सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।
अर्हः पूरुरिदं राज्यं यः सुतो वाक्यकृत्तव ॥ ९ ॥
वरदानेन शुक्रस्य न शक्यं कर्तुमन्यथा ।
॥ सूत उवाच ॥
एवं जानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ॥ १० ॥
अभिषिच्य ततो राज्यं पूरुं स सुतमात्मनः ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ॥ ११ ॥
दक्षिणायामथो राजा यदुं ज्येष्ठं न्ययोजयत् ।
प्रतीच्यामुत्तरस्यां तु द्रुह्युं चानुं च तावुभौ ॥ १२ ॥
सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
व्यभजच्च त्रिधा राज्यं पुत्रेभ्यो नाहुषस्तदा ॥ १३ ॥
पुत्रसङ्क्रामितश्रीस्तु हर्षनिर्भरमानसः ।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥ १४ ॥
अत्र गाथा महाराज्ञा पुरा गीता ययातिना ।
याभिः प्रत्याहरेत्कामान् सर्वतोऽङ्गानि कूर्मवत् ॥ १५ ॥
ताभिरेव नरः श्रीमान्नान्यथा कर्मकोटिकृत् ।
न जातु कामः कामानामुपभोगेन शाम्यति ॥ १६ ॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ॥ १७ ॥
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ।
यदा न कुरुते भावं सर्वभूतेषु पापकम् ॥ १८ ॥
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ।
यदा परान्न बिभेति परे चास्मान्न बिभ्यति ॥ १९ ॥
यदा न निन्देन्न द्वेष्टि ब्रह्म सम्पद्यते तदा ।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥ २० ॥
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ।
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ॥ २१ ॥
चक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा ।
जीर्यन्ति देहिनः सर्वे स्वभावादेव नान्यथा ॥ २२ ॥
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यते ।
यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् ॥ २३ ॥
तृष्णाक्षयसुखस्यैतत्कलां नार्हति षोडशीम् ।
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ॥ २४ ॥
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ।
साधयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥ २५ ॥
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ।
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव मरीचिभिः ॥ २६ ॥
धनी प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः ।
ययातिचरितं पुण्यं पठञ्छृण्वंश्च बुद्धिमान् ॥ २७ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ २८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवंशे ययातिचरितं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-67

कोई टिप्पणी नहीं:

123