श्रीलिङ्गमहापुराण -[पूर्वभाग] -066
॥ श्रीसाम्बसदाशिवाय नमः ॥
छाछठवाँ अध्याय
श्रीलिङ्गमहापुराणे पूर्वभागे षट्षष्टितमोऽध्यायः
इक्ष्वाकुवंशवर्णनं
॥ सूत उवाच ॥
त्रिधन्वा देवदेवस्य प्रसादात्तण्डिनस्तथा ।
अश्वमेधसहस्रस्य फलं प्राप्य प्रयत्नतः ॥ १ ॥
गाणपत्यं दृढं प्राप्तः सर्वदेवनमस्कृतः ।
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणो नृपः ॥ २ ॥
तस्य सत्यव्रतो नाम कुमारोऽभून् महाबलः ।
तेन भार्या विदर्भस्य हृता हत्वामितौजसम् ॥ ३ ॥
पाणिग्रहणमन्त्रेषु निष्ठामप्रापितेष्विह ।
तेनाधर्मेण संयुक्तं राजा त्रय्यारुणोऽत्यजत् ॥ ४ ॥
पितरं सोऽब्रवीत्त्यक्तः क्व गच्छामीति वै द्विजाः ।
पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ॥ ५ ॥
इत्युक्तः स विचक्राम नगराद्वचनात्पितुः ।
स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिके ॥ ६ ॥
पित्रा त्यक्तोऽवसद्वीरः पिता चास्य वनं ययौ ।
सर्वलोकेषु विख्यातस्त्रिशङ्कुरिति वीर्यवान् ॥ ७ ॥
वसिष्ठकोपात्पुण्यात्मा राजा सत्यव्रतः पुरा ।
विश्वामित्रो महातेजा वरं दत्त्वा त्रिशङ्कवे ॥ ८ ॥
राज्येऽभिषिच्य तं पित्र्ये याजयामास तं मुनिः ।
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ॥ ९ ॥
सशरीरं तदा तं वै दिवमारोपयद्विभुः ।
तस्य सत्यव्रता नाम भार्या कैकयवंशजा ॥ १० ॥
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ।
हरिश्चन्द्रस्य च सुतो रोहितो नाम वीर्यवान् ॥ ११ ॥
हरितो रोहितस्याथ धुन्धुर्हारित उच्यते ।
विजयश्च सुतेजाश्च धुन्धुपुत्रौ बभूवतुः ॥ १२ ॥
जेता क्षत्रस्य सर्वत्र विजयस्तेन स स्मृतः ।
रुचकस्तस्य तनयो राजा परमधार्मिकः ॥ १३ ॥
रुचकस्य वृकः पुत्रस्तस्माद् बाहुश्च जज्ञिवान् ।
सगरस्तस्य पुत्रोऽभूद्राजा परमधार्मिकः ॥ १४ ॥
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ।
ताभ्यामाराधितः पूर्वमौर्वोऽग्निः पुत्रकाम्यया ॥ १५ ॥
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम् ।
एका षष्टिसहस्राणि सुतमेकं परा तथा ॥ १६ ॥
अगृह्णाद्वंशकर्तारं प्रभागृह्णात् सुतान् बहून् ।
एकं भानुमतिः पुत्रमगृह्णादसमञ्जसम् ॥ १७ ॥
ततः षष्टिसहस्राणि सुषुवे सा तु वै प्रभा ।
खनन्तः पृथिवीं दग्धा विष्णुहुङ्कारमार्गणैः ॥ १८ ॥
असमञ्जस्य तनयः सोंऽशुमान्नाम विश्रुतः ।
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥ १९ ॥
येन भागीरथी गङ्गा तपः कृत्वावतारिता ।
भगीरथसुतश्चापि श्रुतो नाम बभूव ह ॥ २० ॥
नाभागस्तस्य दायादो भवभक्तः प्रतापवान् ।
अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत् ॥ २१ ॥
नाभागेनाम्बरीषेण भुजाभ्यां परिपालिता ।
बभूव वसुधात्यर्थं तापत्रयविवर्जिता ॥ २२ ॥
अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् ।
पुत्रोऽयुतायुषो धीमानृतुपर्णो महायशाः ॥ २३ ॥
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ।
नलौ द्वावेव विख्यातौ पुराणेषु दृढव्रतौ ॥ २४ ॥
वीरसेनसुतश्चान्यो यश्चेक्ष्वाकुकुलोद्भवः ।
ऋतुपर्णस्य पुत्रोऽभूत्सार्वभौमः प्रजेश्वरः ॥ २५ ॥
सुदासस्तस्य तनयो राजा त्विन्द्रसमोऽभवत् ।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ २६ ॥
ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः ।
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ॥ २७ ॥
अश्मकं जनयामास इक्ष्वाकुकुलवर्धनम् ।
अश्मकस्योत्तरायां तु मूलकस्तु सुतोऽभवत् ॥ २८ ॥
स हि रामभयाद्राजा स्त्रीभिः परिवृतो वने ।
बिभर्ति त्राणमिच्छन् वै नारीकवचमुत्तमम् ॥ २९ ॥
मूलकस्यापि धर्मात्मा राजा शतरथः सुतः ।
तस्माच्छतरथाज्जज्ञे राजा त्विलविलो बली ॥ ३० ॥
आसीत्त्वैलविलिः श्रीमान् वृद्धशर्मा प्रतापवान् ।
पुत्रो विश्वसहस्तस्य पितृकन्या व्यजीजनत् ॥ ३१ ॥
दिलीपस्तस्य पुत्रोऽभूत्खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥ ३२ ॥
त्रयोऽग्नयस्त्रयो लोका बुद्ध्या सत्येन वै जिताः ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ ३३ ॥
अजः पुत्रो रघोश्चापि तस्माज्जज्ञे च वीर्यवान् ।
राजा दशरथस्तस्माच्छ्रीमानिक्ष्वाकुवंशकृत् ॥ ३४ ॥
रामो दशरथाद्वीरो धर्मज्ञो लोकविश्रुतः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ ३५ ॥
तेषां श्रेष्ठो महातेजा रामः परमवीर्यवान् ।
रावणं समरे हत्वा यज्ञैरिष्ट्वा च धर्मवित् ॥ ३६ ॥
दशवर्षसहस्राणि रामो राज्यं चकार सः ।
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ॥ ३७ ॥
लवश्च सुमहाभागः सत्यवानभवत्सुधीः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ ३८ ॥
नलस्तु निषधाज्जातो नभस्तस्मादजायत ।
नभसः पुण्डरीकाख्यः क्षेमधन्वा ततः स्मृतः ॥ ३९ ॥
तस्य पुत्रोऽभवद्वीरो देवानीकः प्रतापवान् ।
अहीनरः सुतस्तस्य सहस्राश्वस्ततः परः ॥ ४० ॥
शुभश्चन्द्रावलोकश्च तारापीडस्ततोऽभवत् ।
तस्यात्मजश्चन्द्रगिरिर्भानुचन्द्रस्ततोऽभवत् ॥ ४१ ॥
श्रुतायुरभवत्तस्माद् बृहद् बल इति स्मृतः ।
भारते यो महातेजाः सौभद्रेण निपातितः ॥ ४२ ॥
एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः ।
वंशे प्रधाना एतस्मिन् प्राधान्येन प्रकीर्तिताः ॥ ४३ ॥
सर्वे पाशुपते ज्ञानमधीत्य परमेश्वरम् ।
समभ्यर्च्य यथाज्ञानमिष्ट्वा यज्ञैर्यथाविधि ॥ ४४ ॥
दिवं गता महात्मानः केचिन् मुक्तात्मयोगिनः ।
नृगो ब्राह्मणशापेन कृकलासत्वमागतः ॥ ४५ ॥
धृष्टश्च धृष्टकेतुश्च यमबालश्च वीर्यवान् ।
रणधृष्टश्च ते पुत्रास्त्रयः परमधार्मिकाः ॥ ४६ ॥
आनर्तो नाम शर्यातेः सुकन्या नाम दारिका ।
आनर्तस्याभवत् पुत्रो रोचमानः प्रतापवान् ॥ ४७ ॥
रोचमानस्य रेवोऽभूद्रेवाद्रैवत एव च ।
ककुद्मी चापरो ज्येष्ठ पुत्रः पुत्रशतस्य तु ॥ ४८ ॥
रेवती यस्य सा कन्या पत्नी रामस्य विश्रुता ।
नरिष्यन्तस्य पुत्रोऽभूज्जितात्मा तु महाबली ॥ ४९ ॥
नाभागादम्बरीषस्तु विष्णुभक्तः प्रतापवान् ।
ऋतस्तस्य सुतः श्रीमान् सर्वधर्मविदां वरः ॥ ५० ॥
कृतस्तस्य सुधर्माभूत्पृषितो नाम विश्रुतः ।
करूषस्य तु कारूषाः सर्वे प्रख्यातकीर्तयः ॥ ५१ ॥
पृषितो हिंसयित्वा गां गुरोः प्राप सुकल्मषम् ।
शापाच्छूद्रत्वमापन्नश्च्यवनस्येति विश्रुतः ॥ ५२ ॥
दिष्टपुत्रस्तु नाभागस्तस्मादपि भलन्दनः ।
भलन्दनस्य विक्रान्तो राजासीदजवाहनः ॥ ५३ ॥
एते समासतः प्रोक्ता मनुपुत्रा महाभुजाः ।
इक्ष्वाकोः पुत्रपौत्राद्या एलस्याथ वदामि वः ॥ ५४ ॥
॥ सूत उवाच ॥
ऐलः पुरूरवा नाम रुद्रभक्तः प्रतापवान् ।
चक्रे त्वकण्टकं राज्यं देशे पुण्यतमे द्विजाः ॥ ५५ ॥
उत्तरे यमुनातीरे प्रयागे मुनिसेविते ।
प्रतिष्ठानाधिपः श्रीमान् प्रतिष्ठाने प्रतिष्ठितः ॥ ५६ ॥
तस्य पुत्राः सप्त भवन् सर्वे वितततेजसः ।
गन्धर्वलोकविदिता भवभक्ता महाबलाः ॥ ५७ ॥
आयुर्मायुरमायुश्च विश्वायुश्चैव वीर्यवान् ।
श्रुतायुश्च शतायुश्च दिव्याश्चैवोर्वशीसुताः ॥ ५८ ॥
आयुषस्तनया वीराः पञ्चैवासन् महौजसः ।
स्वर्भानुतनयायां ते प्रभायां जज्ञिरे नृपाः ॥ ५९ ॥
नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ ६० ॥
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
यतिर्ययातिः संयातिरायातिः पञ्चमोऽन्धकः ॥ ६१ ॥
विजातिश्चेति षडिमे सर्वे प्रख्यातकीर्तयः ।
यतिर्ज्येष्ठश्च तेषां वै ययातिस्तु ततोऽवरः ॥ ६२ ॥
ज्येष्ठस्तु यतिर्मोक्षार्थो ब्रह्मभूतोऽभवत् प्रभुः ।
तेषां ययातिः पञ्चानां महाबलपराक्रमः ॥ ६३ ॥
देवयानीमुशनसः सुतां भार्यामवाप सः ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ ६४ ॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
तावुभौ शुभकर्माणौ स्तुतौ विद्याविशारदौ ॥ ६५ ॥
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।
ययातये रथं तस्मै ददौ शुक्रः प्रतापवान् ॥ ६६ ॥
तोषितस्तेन विप्रेन्द्रः प्रीतः परमभास्वरम् ।
सुसङ्गं काञ्चनं दिव्यमक्षये च महेषुधी ॥ ६७ ॥
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहन् ।
स तेन रथमुख्येन षण्मासेनाजयन्महीम् ॥ ६८ ॥
ययातिर्युधि दुर्धर्षो देवदानवमानुषैः ।
भवभक्तस्तु पुण्यात्मा धर्मनिष्ठः समञ्जसः ॥ ६९ ॥
यज्ञयाजी जितक्रोधः सर्वभूतानुकम्पनः ।
कौरवाणां च सर्वेषां स भवद्रथ उत्तमः ॥ ७० ॥
यावन्नरेन्द्रप्रवरः कौरवो जनमेजयः ।
पूरोर्वंशस्य राज्ञस्तु राज्ञः पारिक्षितस्य तु ॥ ७१ ॥
जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ।
गर्गस्य हि सुतं बालं स राजा जनमेजयः ॥ ७२ ॥
अक्रूरं हिंसयामास ब्रह्महत्यामवाप सः ।
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ॥ ७३ ॥
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ।
ततः स दुःखसन्तप्तो न लेभे संविदं क्वचित् ॥ ७४ ॥
जगाम शौनकमृषिं शरण्यं व्यथितस्तदा ।
इन्द्रेतिर्नाम विख्यातो योऽसौ मुनिरुदारधीः ॥ ७५ ॥
याजयामास चेन्द्रेतिस्तं नृपं जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥ ७६ ॥
स लोहगन्धान्निर्मुक्त एनसा च महायशाः ।
यज्ञस्यावभृथे मध्ये यातो दिव्यो रथः शुभः ॥ ७७ ॥
तस्माद्वंशात्परिभ्रष्टो वसोश्चेदिपतेः पुनः ।
दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः ॥ ७८ ॥
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ ७९ ॥
॥ सूत उवाच ॥
अभ्यषिञ्चत्पुरुं पुत्रं ययातिर्नाहुषः प्रभुः ।
कृतोपकारस्तेनैव पुरुणा द्विजसत्तमाः ॥ ८० ॥
अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ ८१ ॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।
ज्येष्ठं यदुमतिक्रम्य कनीयान्राज्यमर्हति ॥ ८२ ॥
एते संबोधयामस्त्वां धर्मं च अनुपालय ॥ ८३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे इक्ष्वाकुवंशवर्णनं
नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
See Also:-
1. इक्ष्वाकु आदि मनुवंशीय राजाओं का वर्णन
2 सत्यव्रत – त्रिशंकु – सगर आदि के जन्म के निरूपणपूर्वक उनके चरित्र का वर्णन

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें