श्रीगणेशपुराणे उपासनाखण्डे द्विचत्वारिंशत्तमोऽध्यायः
शङ्करत्रिपुरयोर्युद्धम्
॥ व्यास उवाच ॥
कृतवान् किमु दैत्यः स गते तास्मिन् कलाधरे ।
कथमानीय दत्ताऽस्मै मूर्तिश्चिन्तामणेः शुभा ॥ १ ॥
एतत्कथय मे सर्वं विस्तार्य चतुरानन ।
लीला गजाननीः शृण्वन् न तृप्यामि समासतः ॥ २ ॥
॥ ब्रह्मोवाच ॥
तस्मिन्गते यदकरोत् स दैत्यो मुनिसत्तम ।
तत्सर्वं कथयिष्यामि
शृणुष्वावहितो मुने ॥ ३ ॥
दूतौ सम्प्रेषयामास मन्दराद्रिस्थितं शिवम् ।
अशिक्षयच्छिवं गत्वा ब्रूतं मद्वाक्यमादरात् ॥ ४ ॥
मूर्तिश्चिन्तामणेस्तेऽस्ति गृहे सर्वार्थदा शुभा ।
देहि तां दैत्यराजाय साम्नैव गिरिजापते ॥ ५ ॥
पाताले स्वर्गलोके वा मर्त्ये वा पुनरद्भुतम् ।
तत्सर्वं तेन दैत्यैन ह्यानीतं स्वगृहे बलात् ॥ ६ ॥
शीघ्रमानीयतां देव यावो दैत्यं महाबलम् ।
न दास्यसे यदा साम्ना तदा दैत्यः पराक्रमी ॥ ७ ॥
ग्रहीष्यति बलात्तान्तु ततो दुःखमवाप्स्यसि ।
इति दैत्यवचः श्रुत्वा जग्मतुस्तौं शिवं प्रति ॥ ८ ॥
आहतुस्तौ महादेवं दैत्यराजेन शिक्षितम् ।
इत्थं दूतवचः श्रुत्वा त्रिनेत्रः क्रोधमूर्छितः ॥ ९ ॥
उवाच दूतौ दूतौ वामिति कृत्वा क्षमे वचः ।
कामस्येव भवेद् भस्म नो चेद् वां नात्र संशयः ॥ १० ॥
किं कार्यं तेन दैत्येन तृणीभूतेन मे विभोः ।
आयातु युद्धमेवास्तु मर्तुकामो ममान्तिकम् ॥ ११ ॥
नेयं मूर्तिस्तेन शक्या प्राप्तुं जन्मशतैरपि ।
प्रलयाग्निः पतङ्गेन किं शान्तिमधिगच्छति ॥ १२ ॥
मेरोः पातो मूषकेन शक्यः कर्तुं किमोजसा ।
असङ्ख्य जल निष्काशाच्छुष्कः स्यात् किं महोदधिः ॥ १३ ॥
॥ ब्रह्मोवाच ॥
श्रुत्वा तु शाङ्करीं वाणीं दैत्यो यातौ यथागतम् ।
अब्रूतां स्वामिनं वाक्यं शम्भुना यदुदीरितम् ॥ १४ ॥
तदाकर्ण्य प्रजज्ज्वाल दैत्यो वाक्यार्थकोविदः ।
क्रोधानलेन दीप्तोऽसौ त्रैलोक्यं प्रदहन्निव ॥ १५ ॥
आज्ञापयच्च युद्धाय स्वसेनां चतुरङ्गिणीम् ।
निर्गता सहसा सेना मन्दराचलसम्मुखा ॥ १६ ॥
भूतलं छादयामास निर्मर्यादो यथाऽम्बुधिः ।
अनेकसूर्यसङ्काशा विकोशैः शस्त्रसञ्चयैः ॥ १७ ॥
गर्जन्ती घनवद् घोरं मृत्योर्मानसकम्पिनी ।
दैत्यस्त्रिपुरमारूह्य विमानसदृशं महत् ॥ १८ ॥
मनोवेगं ततः पश्चाज्जिघांसुः शम्भुमाययौ ।
बृहन्मणिमयं चारूकवचं कुण्डलेऽङ्गदे ॥ १९ ॥
मुक्तामालां मुद्रिकाश्च कटिसूत्रं च काञ्चनम् ।
मुकुण्ट रत्नखचितं महार्घं बिभ्रदुल्लसत् ॥ २० ॥
यस्य शब्देन महता चकम्पे हरमानसम् ।
तद्धनुः स निषङ्गं च कौर्मं खेटमसिं दृढम् ॥ २१ ॥
शुशुभे शक्तिका दिव्याऽवहद् यां दैत्यपुङ्गवः ।
गायमाना नर्तमाना गन्धर्वाम्प्सरसां गणाः ॥ २२ ॥
बन्दिनश्चारणाश्चापि ययुरस्याग्रतो मुदा ।
शङ्करो दूतवाक्येन श्रुत्वा दैत्यं समागतम् ॥ २३ ॥
असङ्ख्यबलसंयुक्तं युयुत्सुं कालकर्षितम् ।
शूलपाणिरपि तदा सम्पूज्य द्विरदाननम् ॥ २४ ॥
प्रणम्य तं परिक्रम्य पुरस्कृत्य बलं बलात् ।
आययौ क्रोधदीप्ताक्षः स्वस्थलाद् रणमण्डलम् ॥ २५ ॥
ते वीरा वीरशब्देन नादयन्तो दिशो दश ।
अभिजग्मुः प्रहरणैः परस्परवधेप्सवः ॥ २६ ॥
अभूतां मीलिते सेने रजस्तिमिरसङ्कुले ।
स्वपरज्ञानरहिते जघ्नतू रणमूर्धनि ॥ २७ ॥
अभवत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ।
गजाश्वरथवीराणां हतानां शोणितोक्षिते ॥ २८ ॥
शान्ते रजस्ययुध्यन्त वीरा वीरैः पृथक् पृथक् ।
केचित् प्रासैः केऽपि खड्गैः केचिद्बाणैः शिलाशितैः ॥ २९ ॥
ऋष्टिभिर्मुष्टिभिः केचित् केचित् परशुतोमरैः ।
हतानां तत्र वीराणां हयानां च पदातिनाम् ॥ ३० ॥
असृङ्नदी समभवत् केशशैवलवाहिनी ।
खेटकूर्मा खड्गमत्स्या शिरः कमलभूषणा ॥ ३१ ॥
छत्रावर्ता घोरतरा कबन्धवृक्षवाहिनी ।
वीरसन्तोषजननी गृद्धगोमायुहर्षकृत् ॥ ३२ ॥
दृष्टत्वा नदीं तु गिरिशो ययौ दैत्यान्तिकं बली ।
दैत्योऽपि त्रिपुरारूढो ययौ तस्य पुरः पुरः ॥ ३३ ॥
नायको सङ्गतौ दृष्ट्वा द्वन्द्वशोऽन्ये परस्परम् ।
अव्याकुले युयुधिरे दैतेयाः शाम्भवास्तदा ॥ ३४ ॥
नाना प्रहरणैर्दिव्यैः शस्त्रैरस्त्रैर्द्रुमैरपि ।
तेषां युद्धानि नामानि कथयिष्ये समासतः ॥ ३५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे शङ्करत्रिपुरयोर्युद्धम् नाम
द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें