श्रीगणेशपुराणे उपासनाखण्डे चतुश्चत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चतुश्चत्वारिंशोऽध्यायः
शङ्करेण तपः, गजाननेन दर्शनम्, शङ्करेण वरप्राप्तिः

॥ व्यास उवाच ॥

ततः किमकरोच्छम्भुः त्रिपुरेण पराजितः ।
कथं तमजयद्दैत्यं त्रिपुरं जयशालिनम् ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः शम्भुः परां चिन्तामापेदे मनसा स कृत् ।
स्वाहास्वधाविहीनं तु भूतलं परिचिन्तयन् ॥ २ ॥


कदा स्वस्थानगा देवा भविष्यन्ति गतज्वराः ।
केनोपायेन वासःस्याद् दुर्जयस्य पराजयः ॥ ३ ॥
एवं चिन्तातुरे तस्मिन् नारदो मुनिसत्तमः ।
आययो शङ्करं दृष्टुं देवान् सर्वान् यदृच्छया ॥ ४ ॥
तं दृष्ट्वा जहृषे देवो मर्त्यः प्राप्य यथाऽमृतम् ।
पूजयामास विधिवत् कृतासनपरिग्रहम् ॥ ५ ॥
आलिङ्ग्य तमुवाचेत्थं शिवश्चिन्तातुरो भृशम् ।
देवानां हितमन्विच्छन् दैत्यस्य वधमेव च ॥ ६ ॥
॥ शिव उवाच ॥
दैत्येन सर्वदेवानां कदनं कृतमोजसा ।
तद्रणे भग्नसङ्कल्पाः सर्वे देवाः पलायिताः ॥ ७ ॥
याता दश दिशो ब्रह्मन् कः कुत्रास्ते न वेद्म्यहम् ।
ममाप्यत्राणि तेनास्त्रैः प्रभग्नानि सहस्रशः ॥ ८ ॥
॥ ब्रह्मोवाच ॥
श्रुत्वा शिववचः सोऽमुमवादीन् मुनिसत्तम ।
मन्वानः परमाश्चर्यं त्रैलोक्येशपराभवम् ॥ ९ ॥
॥ नारद उवाच ॥
सर्वज्ञे सर्वविद्येशे सर्वेशे सर्वकर्तरि ।
सर्वानने सर्वहरे सर्वस्यापि नियन्तरि ॥ १० ॥
शक्ते कर्तुमकर्तुं वाऽन्यथाकर्तुमपि प्रभो ।
अणिमादिगुणोपेते षडैश्वर्यविलासिनि ॥ ११ ॥
किं वक्तव्यं मया देव सर्ववक्तृवरे त्वयि ।
मुनिना गानसक्तेन त्रिलोकीं भ्रमताऽनिशम् ॥ १२ ॥
तव वाक्यानुरोधेन विचार्य प्रब्रवीम्यहम् ।
एवमुक्त्वा क्षणं ध्यात्वा पुनः प्राह शिवं मुनिः ॥ १३ ॥
॥ मुनिरुवाच ॥
युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया ।
अतः पराभवं प्राप्तो वह्निनेत्रः पिनाकधृक् ॥ १४ ॥
इदानीमर्चय पुरा विघ्नेशं विघ्नवारणम् ।
प्रसाद्य तद्वरं लब्ध्वा याहि युद्धाय सादरम् ॥ १५ ॥
पराजेष्यसि तं दैत्यं नात्र कार्या विचारणा ।
॥ ब्रह्मोवाच ॥
तेनापि तपसा देवो महताराधितः पुरा ॥ १६ ॥
तेन तस्मै वरो दत्तोऽखिलविघ्नौघहारिणा ।
महेश्वरं विना मृत्युर्न केनापि भवेत् तव ॥ १७ ॥
॥ मुनिरुवाच ॥
तस्माद्गिरिश तस्येदं कामगं तु पुरत्रयम् ।
एकेषुणा दारयस्व जयोपायोऽयमीरितः ॥ १८ ॥
प्रहर्षमतुलं लेभे श्रुत्वोपायं मुनेः शिवः ।
श्रुत्वा गजाननगिरं पूर्वाक्तां प्राह तं मुनिम् ॥ १९ ॥
॥ शिव उवाच ॥
सत्यमुक्तं त्वया ब्रह्मं त्वद्वाक्येन स्मृतं मया ।
उपदिष्टौ पूर्वमेव मन्त्रौ तेन मुने मम ॥ २० ॥
षडक्षरैकाक्षरौ तौ सर्वसङ्कटहारकौ ।
युद्धेव्यासक्तचित्तेन न जप्तौ न च संस्मृतौ ॥ २१ ॥
सर्वविघ्नहरो देवो न स्मृतो हि गजाननः ।
सर्वेषां कारणं कर्ता पाता हर्ता विनायकः ॥ २२ ॥
॥ मुनिरुवाच ॥
तं तोषय महादेव महादेवं गजाननम् ।
॥ ब्रह्मोवाच ॥
विसृज्यं नारदं देवो जगाम तपसे शिवः ॥ २३ ॥
दण्डकारण्यदेशे तु पद्मासनस्थितोऽजपत् ।
प्रणिधाय बलात् खानि नियम्य ध्यानतत्परः ॥ २४ ॥
सोऽतपत्तप उग्रं तु शतवर्षाणि शङ्करः ।
ततस्तस्य मुखाम्भोजान् निर्गतस्तु पुमान् परः ॥ २५ ॥
पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ २६ ॥
अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन् दशायुधः ।
तद्भासा धर्षितो देवोऽपश्यदुग्रं पुरः स्थितम् ॥ २७ ॥
विनायकं पञ्चमुखं पञ्चास्यमपरं शिवम् ।
तं दृष्ट्वाऽतर्कयद् देवः किमहं द्विविधोऽभवम् ॥ २८ ॥
किं वा ममैव रूपेण त्रिपुरोऽयमिहागतः ।
त्रयस्त्रिंशत्कोटिदेवेष्वपरः पञ्चवक्त्रवान् ॥ २९ ॥
अथवा स्वप्न एवायं दृष्टो दीर्घतरो मया ।
अथवा मे वरं दातुमागतोऽयं गजाननः ॥ ३० ॥
सर्वविघ्नहरं देवं यं ध्यायामि दिवानिशम् ।
॥ ब्रह्मोवाच ॥
एवमाकर्ण्य तद्वाक्यं उवाच द्विरदाननः ॥ ३१ ॥
अन्तर्यस्तर्कितो देवः सोऽयं विघ्नहरो विभुः ।
न मे स्वरूपं जानन्ति देवर्षिचतुरारनाः ॥ ३२ ॥
न वेदाः सोपनिषदः कुतः षट्शास्त्रवेदिनः ।
अशेषभुवनस्याहं कर्ता पाताऽपहारकः ॥ ३३ ॥
ब्रह्मादिस्थावरचरत्रिगुणानामहं प्रभुः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः ॥ ३४ ॥
वरान्वृणु महादेव यावतो मत्त इच्छसि ॥ ३५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे शङ्करेण तपोवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-44

कोई टिप्पणी नहीं:

123