श्रीगणेशपुराणे उपासनाखण्डे एकचत्वारिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकचत्वारिंशत्तमोऽध्यायः
गजाननेन ब्राह्मणरूपेण त्रिपुरं पुरतः समर्पणम्

॥ व्यास उवाच ॥

वरदेन गणेशेन प्रभुणा सर्वकारिणा ।
किं कृतं तन्ममाचक्ष्व पृच्छते चतुरानन ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततो गजाननो विप्ररूपेण त्रिपुरं ययौ ।
महार्हासनसंविष्टं ददर्श द्विजसत्तमः ॥ २ ॥


स उत्थाय नमस्कृत्य स्वासने चोपवेशयत् ।
सम्पूज्य परिपप्रच्छ कुत आगम्यते द्विज ॥ ३ ॥
का विद्या किं च ते नाम पृच्छते ब्रूहि मे द्विज ।
प्रयोजनं च किं तेऽस्ति शक्तिश्चेत् करवामहे ॥ ४ ॥
॥ द्विज उवाच ॥
सायङ्गृहा वयं दैत्य सर्वज्ञाः सर्ववेदिनः ।
इच्छाविहारा लोकानां भ्रमामो हितकाम्यया ॥ ५ ॥
कलाधरेत्येव नाम्ना विख्याता भुवनत्रये ।
द्रष्टुकामा वैभवं ते सम्प्राप्ता भवनं तव ॥ ६ ॥
अखिलाः सम्पदस्ते तु दृष्ट्वा तृप्ताः स्म साम्प्रतम् ।
न कैलासे न वैकुण्ठे ब्रह्मलोकेऽपि नेदृशी ॥ ७ ॥
पदे शाक्रे न वै सम्पद् यादृशी दृश्यते तव ।
॥ दैत्य उवाच ॥
नाममात्रं कलाधारः किं वा जानासि तां द्विज ॥ ८ ॥
सम्पदः सर्वलोकेषु याभ्य एता प्रशंससि ।
जानासि चेद् दर्शय मे तासां मध्ये महोत्कटाम् ॥ ९ ॥
दृष्ट्वा दास्ये वाञ्छितं ते प्रियं प्राणानपि द्विज ।
न स्मरे परिहासेऽपि वितथं भाषितं मुने ॥ १० ॥
॥ कलाधर उवाच ॥
परेषां सम्पदं दृष्ट्वा किं स्यात् तव सुरद्विषः ।
विनयात् ते प्रसन्नोऽहं कलया ते ददामि वै ॥ ११ ॥
काञ्चनं राजतं लौहं त्रिपुरं शरसंस्थितम् ।
रम तत्र स्थिरो दैत्य चिरकालं यथा सुखम् ॥ १२ ॥
अभेद्यं देव गन्धर्वैर्मानुषैरूरगैरपि ।
कल्पितार्थप्रदं तत्ते कामगं कामदं शुभम् ॥ १३ ॥
यदैवैकेन बाणेन कस्मिश्चित् कालपर्यये ।
भेत्स्यते तद् हरो दैत्य तदा नाशमुपैष्यति ॥ १४ ॥
॥ ब्रह्मोवाच ॥
इत्युक्त्वा धनुरादाय संस्तभ्य शरमन्तरा ।
पुरत्रयं निर्ममेऽसौ भुवनत्रयसन्निभम् ॥ १५ ॥
विचित्रैर्भवनै रम्यैर्दीर्घिकाराम संयुतैः ।
नानापक्षिगणैर्जुष्टं सर्वकामप्रदं खगम् ॥ १६ ॥
मायया मोहितो दैत्यस्तत्रस्थो चहृषे भृशम् ।
जगर्ज घनवद्दैत्यो लोकत्रयविकम्पनः ॥ १७ ॥
न मत्तः श्रेष्ठ इत्येवं गर्वदर्पसमन्वितः ।
त्रैलोक्यं क्षोभयामास ब्राह्मणं तमथाब्रवीत् ॥ १८ ॥
याचस्व दुर्लभतरं तत्ते दास्ये द्विजोत्तम ।
इत्युक्त्वा स द्विजः प्राह तं दैत्यं निस्पृहोऽपि सन् ॥ १९ ॥
॥ द्विज उवाच ॥
अहं कैलासमगमं दृष्टवान् मूर्तिमुत्तमाम् ।
शिवेन पूजितां सम्यग् गाणेशीं चिन्तितार्थदाम् ॥ २० ॥
तामानय त्वं मे देहि शक्तिर्यद्यसुरेश्वर ।
नेतादृशी मया मूर्तिस्त्रैलोक्यञ्चरतेक्षिता ॥ २१ ॥
अतो मम मनस्तस्यामासक्तं दैत्यसत्तम ।
तां प्राप्य कृतकृत्योऽहं भविष्याम्यसुरेश्वर ॥ २२ ॥
कीर्तिं ते प्रथयिष्यामि त्रैलोक्ये सचराचरे ।
न दाता त्रिपुराच्छ्रेष्ठो वाञ्छितं यः प्रयच्छति ॥ २३ ॥
॥ दैत्य उवाच ॥
शङ्कर किङ्करं मन्ये गणये न च देवताः ।
आनयित्वा प्रदास्यामि तां मूर्तिं द्विजपुङ्गव ॥ २४ ॥
॥ ब्रह्मोवाच ॥
इत्युक्त्वा पूजयामास तं कलाधरमादरात् ।
ददौ तस्मै दशग्रामान् गोवस्त्रभूषणानि च ॥ २५ ॥
मुक्ताफलानि भूरीणि महार्हाणीतराणि च ।
रत्नानि च प्रवालानि राङ्कवास्तरणानि च ॥ २६ ॥
दासीदासशतं नानाभूषायुक्तं ददेऽसुरः ।
सदश्वान् सवरूथांश्च स्वर्णाक्षान् राजतान् रथान् ॥ २७ ॥
प्रगृह्यैतद् बलाद्दत्तं प्रययौ स कलाधरः ।
स्वाश्रमं हर्षयन् पत्नीं सर्वानाश्रमवासिनः ॥ २८ ॥
॥ ब्रह्मोवाच ॥
एवं च सर्व वृत्तान्तं नारदोऽकथयत्सुरान् ।
तेऽपि कालं प्रतीक्षन्तो दिवसानतिचक्रमुः ॥ २९ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कलाधरगमनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-41

कोई टिप्पणी नहीं:

123