श्रीगणेशपुराणे उपासनाखण्डे अष्टत्रिंशत्तमोऽध्यायः
वरप्रदानं
॥ व्यास उवाच ॥
ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।
तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज ॥ १ ॥
॥ ब्रहोवाच ॥
ततः सर्वे मुनिगणा मानयामासुरादरात् ।
ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम् ॥ २ ॥
वरदानाद्गणेशस्य वव्रुस्तं यज्ञकर्मणि ।
सर्वारम्भे गणेशस्य पूजनादौ च सस्मरुः ॥ ३ ॥
एवं विख्यातिमगमत् स मुनिर्गणनायके ।
भक्तिं परमिकां चक्रे जपन्मन्त्रं सुनिश्चलः ॥ ४ ॥
कदाचित् स मुनिर्व्यास चुक्षुवे बवुत्तरम् ।
दिशो नभश्च पृथिवीं नादयन् गिरिगह्वरान् ॥ ५ ॥
अपयश्यत् पुरतो यावत् तावद्बालं भयङ्करम् ।
रक्तवर्णं महानादं जपाकुसुमसन्निभम् ॥ ६ ॥
तेजोराशिं च मुष्णन्तं नेत्रालोकपथं मुहुः ।
दृष्ट्वा स तादृशं बालं चकम्पे भयविह्वलः ॥ ७ ॥
तर्कयामास मनसा विघ्नः कोऽयमिहागतः ।
न जाने गणनाथेन दत्तः पुत्रो ममाद्भुतः ॥ ८ ॥
पश्यति स्म पुनः सोऽमुं चारूवक्त्रं सुलोचनम् ।
चारूरूक्माङ्गदं चारु मुकुटं चारूनूपुरम् ॥ ९ ॥
चारूणा कटिसूत्रेण राजत्कटितटं सुतम् ।
पप्रच्छ तं मुनिः कोऽसि कस्यासि किञ्चिकीर्षसि ॥ १० ॥
क्व च ते पितरौ स्थानं दद तेजोनिधेऽर्भक ।
॥ ब्रह्मोवाच ॥
श्रुत्वेत्थं वचनं तस्य जगाद बालको मुनिम् ॥ ११ ॥
॥ बालक उवाच ॥
भुतभाविभवज्ज्ञानी किं मां त्वं परिपृच्छसि ।
तथाऽप्याज्ञावशो वच्मि क्षुतात् तव जनिर्मम ॥ १२ ॥
त्वमेव जनको माता कृपां कुरू ममोपरी ।
पालयस्य पितर्मां त्वं दिनानि कतिचिन्मुने ॥ १३ ॥
त्रैलोक्याक्रमणे शक्तो देवेन्द्रं वशवर्तिनम् ।
करिष्यामि न सन्देहो वीक्ष्यसे पौरूषं मम ॥ १४ ॥
॥ ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्य भयहर्षसमन्वितः ।
उवाच श्लक्ष्णया वाचा मुनिर्गृत्समदो वचः ॥ १५ ॥
यद्ययं जातमात्रोऽपि शक्तस्त्रैलोक्यकर्षणे ।
तस्मादस्य प्रदास्यामि स्वं मन्त्र स्वात्मजस्य हि ॥ १६ ॥
येनास्य वाञ्छितं देवः परितुष्टो विनायकः ।
प्रदास्यति जगन्नाथो मम कीर्तिर्भविष्यति ॥ १७ ॥
एवं सञ्चित्य मनसा तस्मै स्वं मन्त्रमादिशत् ।
गणानां त्वेति तं चाह कुर्वनुष्ठानमादरात् ॥ १८ ॥
जपस्व वैदिकं मन्त्र चित्तं स्थाप्य गजानने ।
सन्तुष्टस्ते यदा पुत्र सर्वान् कामान् प्रदास्यति ॥ १९ ॥
एवं प्राप्तमहामन्त्रो जगाम तपसे वनम् ।
एकाङ्गुष्ठेनाऽवतस्थे निराहारो जितेन्द्रियः ॥ २० ॥
ध्यायन् गजाननं देवं मनसा निश्चेलन सः ।
जपतस्तस्य वर्षाणि सार्धायुतमितानि च ॥ २१ ॥
गतानि तस्य मुखतो बभूवाग्निर्दिशो ज्वलन् ।
भयं बभूव देवानां दैत्यानां तलवासिनाम् ॥ २२ ॥
ततस्तत्तपसा तुष्ट आविरासीद् गजाननः ।
दिशो वितिमिराः कुर्वंश्छादयन् भानुमण्डलम् ॥ २३ ॥
भ्रामयन् पुष्करं चारू सुविषाणं मुदायुतः ।
तद् बृंहितरवं श्रुत्वा बालको विह्वलन्निव ॥ २४ ॥
उन्मील्य नेत्रे सोऽपश्यद्देवन्तं पुरतः स्थितम् ।
चतुर्भुजं महाकायं नानाभूषाविभूषितम् ॥ २५ ॥
परशुं कमल माला मोदकान् बिभ्रतङ्करैः ।
तेजसा धर्षितस्तस्य धैर्यं कृत्वा ननाम सः ॥ २६ ॥
बद्धाञ्जलिपुटो भूत्वा प्रार्थयामास तं विभुम् ।
॥ बालक उवाच ॥
किं मां धर्षयसे देव भक्तं त्वां शरणागतम् ॥ २७ ॥
भव सौम्यतरो देव देहि मेऽखिलवाञ्छितम् ।
॥ ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्य सञ्जहार स्वकं महः ॥ २८ ॥
उवाच परमप्रीतो सावधान भवार्भक ।
यं ध्यायसि दिवारात्रौ सोऽहं ते वरदोऽधुना ॥ २९ ॥
ममेदं परमं रूपं स्वप्रकाशं जगन्मयम् ।
न विदुर्ब्रह्मरूद्राद्याः कुतो वेत्स्यन्ति मानवाः ॥ ३० ॥
देवाश्च मुनयः सर्वे न च राजर्षयोऽपरे ।
नासुराः सिद्धगन्धर्वा न नागा न च दानवाः ॥ ३१ ॥
सोऽहं तव तपोबद्धो वरं दातुमिहागतः ।
वरयस्व वरान्मत्तो यान्यांस्त्वं मनसेच्छसि ॥ ३२ ॥
स उवाच ततो बालो धन्योऽहं तव दर्शनात् ।
पिता धन्यतरो मेऽद्य सार्थकं जन्म मे तपः ॥ ३३ ॥
स्तुतिं कर्तुं न जानामि बालभावात्सुरेश्वर ।
यतस्त्वं सर्वजगतां कर्ता पाताऽपहारकः ॥ ३४ ॥
त्वद्भासा भासयत्येष रविरग्निश्च चन्द्रमाः ।
चराचरं चेतयसे स्वमाहात्म्यान् महामतेः ॥ ३५ ॥
महिमानं महान्तं ते केशा अपि न वै विदुः ।
यदि मे वरदोऽसि त्वं तन्मे देदि गजानन ॥ ३६ ॥
त्रैलोक्याकर्षणे शक्तिं विशिष्टां देहि मे विभो ।
देवदानवगन्धर्वमनुष्योरगराक्षसा ॥ ३७ ॥
वश्या मम सदा सन्तु मुनिकिन्नरचारणाः ।
मनसा चिन्तितं यन्मे तत्तत् सिध्यतु सर्वदा ॥ ३८ ॥
इन्द्रादयो लोकपालाः सेवां कुर्वन्तु मे सदा ।
इह भोगाननेकान्मे मुक्तिं चान्ते प्रयच्छ च ॥ ३९ ॥
अन्यं च ते वरं याचे पुरमेतत् तवाज्ञया ।
प्रथां यातु यतश्चात्र तपमुग्रं तपो मया ॥ ४० ॥
गणेशपुरमिति च ख्याति यातु जनेष्टदम् ।
॥ गणेश उवाच ॥
त्रयाणामपि लोकानामाक्रमं त्वं करिष्यसि ॥ ४१ ॥
सर्वेभ्यो न भयं तेऽस्ति सर्वे वश्याश्च ते सदा ।
आयसं काञ्चनं रौप्यं मया दत्तं पुरत्रयम् ॥ ४२ ॥
अभेद्यं सर्वदेवानां कामगं शङ्करं विना ।
त्रिपुरेति च ते नाम ख्यातिं लोके गमिष्यति ॥ ४३ ॥
यदैकेन च बाणेन शिवो भेत्स्यति ते पुरम् ।
तदैव यास्यसे मुक्तिं नात्र कार्या विचारणा ॥ ४४ ॥
अन्यत्ते वाञ्छितं सर्व मत्प्रसादाद्भविष्यति ।
॥ ब्रह्मोवाच ॥
दत्त्वेत्थं स वरान्देवस्तत्रैवाऽन्तर्दधे विभुः ।
विषादमगमद्देव वियोगात् त्रिपुरासुरः ॥ ४५ ॥
हर्षं च विपुलं लेभे वरान्प्राप्य यथेप्सितान् ।
त्रैलोक्यविजयं कर्तुं यतते स्म ततो बलात् ॥ ४६ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे त्रिपुरासुरवरप्रदानं नामाष्टत्रिंशत्तमोऽध्यायः
॥ ३८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें