श्रीगणेशपुराणे उपासनाखण्डे षट्त्रिंशत्तमोऽध्यायः
गृत्समदोपाख्यानं
॥ व्यास उवाच ॥
श्रुतं गणेशतीर्थस्य माहात्म्य कमलासन ।
रूक्माङ्गदस्य चरितं कौण्डिन्य पुरवासिनाम् ॥ १ ॥
तथापि ब्रूहि मे ब्रह्मन् मुकुन्दाचरितं शुभम् ।
॥ ब्रह्मोवाच ॥
गते रूक्माङ्गदे सा तु जज्वाल मदनाग्निना ॥ २ ॥
दावाग्निना यथा ग्रीष्मे महावनस्थली सुत ।
मुकुन्दा नालभच्छर्म वने शीतलमारूते ॥ ३ ॥
लतापुष्पमये स्थाने चन्द्रचन्दनतोऽपि च ।
तस्या न रोचते हास्यं गीतं नृत्यं कथान्तरम् ॥ ४ ॥
अन्नं जलं विह्वलापास्तच्चित्ताया मुनीश्वर ।
क्षुतृट् श्रमेण तस्यास्तु क्षणं निद्रा समाययौ ॥ ५ ॥
तामिन्द्रो बुबुधे कान्ता प्रसुप्तां विजेने वने ।
कामातुरां विह्वलां च रूक्माङ्गदकृते सुत ॥ ६ ॥
धृत्वा रौङ्क्माङ्गदं रूपं बुभुजे कामुकां तु ताम् ।
आलिलिङ्ग मुदा शक्रो मुकुन्दा जहृषे भृशम् ॥ ७ ॥
साऽपि रूक्माङ्गदं तं तु चुचुम्बे सुभृशं सुत ।
सोऽपि तस्याः कुचौ पीनौ ममर्द दृढमुष्टिना ॥ ८ ॥
व्यंशुकां व्यंशुको रेमे निःशङ्क स तया सह ।
ततः सा लज्जमानेव स्वगृहं प्रत्यपद्यत ॥ ९ ॥
इन्द्रो रूक्माङ्गदो भूतस्तत्रैवान्तर्दधे सुत ।
मेने रुक्माङ्गदो भुक्तस्ततो गर्भं दधौ तु सा ॥ १० ॥
सुषुवे नवमे मासि सुवेलायां सुतं शुभम् ।
चारुसर्वानवद्याङ्गं रूपेण मदनातिगम् ॥ ११ ॥
तस्य शब्देन महता धरण्यां पतितस्य तु ।
सनादं दशदिग्वृन्दमभूत् खं भूरसातलम् ॥ १२ ॥
पक्षिणो बभ्रमुः सर्वे उड्डीयोड्डीय सर्वतः ।
वाचक्नविः समायातस्त्यक्त्वा स्वं नित्यकर्म च ॥ १३ ॥
मुकुन्दाचरितं तेन नैव बुद्धं कदाचन ।
जातकर्मादिकं सर्वं चकार भृषहर्षितः ॥ १४ ॥
ददौ दानं यथाशक्ति ब्राह्मणेभ्यो यथार्हतः ।
दशाहे तु व्यतीते स नामकर्माऽकरोन्मुनिः ॥ १५ ॥
गृत्समदेत्यनुज्ञातो ज्योतिःशास्त्रपरैर्द्विजैः ।
ततस्तु पञ्चमेऽब्देऽस्य व्रतबन्धं चकार ह ॥ १६ ॥
वेदव्रतानि चत्वारि चकार बटुकस्य सः ।
सकृन्निगदमात्रेण गृह्णाति ब्रह्मतेजसा ॥ ७ ॥
वेदशास्त्रनिधिर्जातः स्वकर्म कुशलोऽपि च ।
कदाचित् सुमुहूर्ते तु पिता वाचक्नविः सुतम् ॥ १८ ॥
गणानां त्वेति ऋङ्मन्त्रं महान्तमुपदिष्टवान् ।
उवाच च महामन्त्रौ वैदिकोऽखिलसिद्धिदः ॥ १९ ॥
आगमोक्तेषु मन्त्रेषु सर्वेषु श्रेष्ठ एव च ।
ध्यात्वा गजाननं देवं जपैनं स्थिरमानसः ॥ २० ॥
परां सिद्धिं समाप्यैव ख्यातिं लोके गमिष्यसि ।
ततो गृत्समदो विप्रा मन्त्रं प्राप्य पितुर्मुखात् ॥ २१ ॥
अनुष्ठानरतो भूत्वा जपध्यानपरोऽभवत् ।
एवं बहुतिथे काले महतस्तपसो मुनेः ॥ २२ ॥
तस्मिन् मगधदेशे यो राजा मगधसंज्ञितः ।
चारुरूपा महामानी दानशरोऽरिमर्दनः ॥ २३ ॥
नानालङ्कार शोभाढ्यो महार्हासनसंश्रितः ।
सुधर्मासनगो धीरः पुरुहूत इवापरः ॥ २४ ॥
चतुरङ्गबलोपेतो ज्ञानी पण्डितमानदः ।
अमात्यौ द्वौ ज्ञाननिधी वाचस्पत्यधिको गुणौः ॥ २५ ॥
अम्बिका नाम भार्याऽस्य चारुरूपा गुणाधिका ।
पतिव्रता महाभागा शापानुग्रहणे क्षमा ॥ २६ ॥
तस्य राज्ञः पितुः श्राद्धे समाजग्मुर्ममहर्षयः ।
राज्ञाहूता वसिष्ठात्रिप्रमुखाः श्रुतिपारगाः ॥ २७ ॥
आकारितो गृत्समदस्तपस्वी शुचिमानसः ।
ततः शास्त्रप्रसङ्गेन प्रौढिं गृत्समदोऽवदत् ॥ २८ ॥
तमत्रिर्धिग्धिगित्येवमब्रवीन् मुनिसन्न्निधौ ।
तपस्वीति भवान्मान्यो न मुनिस्त्वं यतस्तव ॥ २९ ॥
जन्म रूक्माङ्गदाज्जातं राजपुत्राद् विचारय ।
नास्मत्समक्षो पूजार्ह इतो गच्छ स्वमाश्रमम् ॥ ३० ॥
इत्यत्रिवचनं श्रुत्वा क्रोधदीप्त इव ज्वलन् ।
दहन्निव त्रिलोकीं स भक्षयन्निव तान्मुनीन् ॥ ३१ ॥
अपेर त्वपलायन्त सिंहं दृष्ट्वा यथा मगाः ।
उवाच तत्र सदसि वसिष्ठादिन् मुनीन्प्रति ॥ ३२ ॥
॥ गृत्समद उवाच ॥
यर्हि रूक्माङ्गदस्याहं न भवेयं मुनीश्वराः ।
तदा शापाग्निना युष्मान् कुर्यां भस्मावशेषितान् ॥ ३३ ॥
॥ ब्रह्मोवाच ॥
इत्युक्त्वा तान्मुनीन् सर्वान् प्रययौ मातरं प्रति ।
पप्रच्छ तां गृत्समदो वद दुष्टेऽति कामुके ॥ ३४ ॥
मुकुन्दे वद मे तात नो चेद्भस्म भविष्यसि ।
आकर्णैवं वचस्तस्य चकम्पे भृशविह्वला ॥ ३५ ॥
मुकुन्दा मारूतेनेव कदली कुङ्मलान्विता ।
उवाच दीनया वाचा बद्धाञ्जलिपुटाऽसती ॥ ३६ ॥
॥ मुकुन्दोवाच ॥
मृगयासक्त चित्तोऽभूद् भ्रष्टसार्थो नृपोत्तमः ।
त्रैलोक्यसुभगो दृष्टो मया रूक्माङ्गदः शुभः ॥ ३७ ॥
अनुष्ठानरते वाचक्नवौ मे भर्तरि प्रिये ।
अनिवार्याः स्त्रिय इति स्मृत्वा वाक्यं विधीरितम् ॥ ३८ ॥
तस्मिन् नृपे सक्तमना जाताऽस्मि स पिता तव ।
श्रुत्वेत्थ वचनं तस्या मौनवान् स ययौ मुनिः ॥ ३९ ॥
लज्जयाऽधोमुखः शापमभ्यधाज्जननीं प्रति ।
॥ पुत्र उवाच ॥
दुष्टे मूढे पापरते कानने कण्टकी भव ॥ ४० ॥
असङ्ख्येय फला सर्वे प्राणिभिः परिवर्जिता ।
साऽपि शापं ददौ तस्मै क्रोधाविष्टा सुताय हि ॥ ४१ ॥
जननीत्वमनादृत्य यतः शप्ता खलु त्वया ।
अतः शपामि त्वां पुत्र त्वत्तः पुत्रोऽतिदारुणः ॥ ४२ ॥
त्रैलोक्य भयदो दैत्यो भविष्यति महाबलः ।
एवं शशपतुस्तौ तु मातापुत्रौ परस्परम् ॥ ४३ ॥
॥ ब्रह्मोवाच ॥
सा तदैव शरीरं तत् त्यक्त्वाऽभूद् बदरी वने ।
वर्जिता पक्षिसङ्घातैर्जारजैरण्डजैरपि ॥ ४४ ॥
ततोऽन्तरिक्षे वागासीदिन्द्राद् गृत्समदो ह्यभूत् ।
स तु गृत्समदो ब्रह्मन्ननुष्ठानाय जग्मिवान् ॥ ४५ ॥
इदं गृत्समदाख्यानं यः शृणोति नरोत्तमः ।
न स सङ्कटमाप्नोति वाञ्छितं लभतेऽखिलम् ॥ ४६ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे गृत्समदोपाख्यानं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६
॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें