श्रीगणेशपुराणे उपासनाखण्डे चतुःषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे चतुःषष्टितमोऽध्यायः
दूर्वामाहात्म्य वर्णनं

॥ आश्रयोवाच ॥

देवर्षिषु प्रयातेषु बाले चाचलवत् स्थिते ।
किमासीत् कौतुकं तत्र बाल कालानलोद्भवम् ॥ १ ॥
तत्सर्वं विस्तरान्मह्यं कथयाशु महामुने ।
॥ नारद उवाच ॥
एवं तया कृतः प्रश्नः कौण्डिन्यो मुनिसत्तमः ॥ २ ॥
यदब्रवीच्छचीभर्तस्तत्त्वं शृणुमयोदितम् ।


॥ कौण्डिन्य उवाच ॥
अचलेऽचलवद् बाले स्थिते तस्मिन् गजानने ॥ ३ ॥
कालानल इवाक्षोभ्य आययौ सोऽनलासुरः ।
तस्मिन्क्षणेऽचला वाऽपि चचालाचलसंयुता ॥ ४ ॥
नभोदध्वान सदृश घनगर्जितनिःस्वनैः ।
निपेतुर्वृक्षशाखाभ्यः पक्षिवृन्दानि भूतले ॥ ५ ॥
निर्वारिर्वारिधिर्जातो वृक्षा उन्मूलितास्तदा ।
प्रकम्पनेन महता न प्राज्ञायत किञ्चन ॥ ६ ॥
तस्मिन्नेव क्षणे देवो बालरूपी गजाननः ।
दधारानलरूपं तं दैत्यं मायाबलेन हि ॥ ७ ॥
प्राशत् सर्वेषु पश्यत्सु जलधिं कुम्भजो यथा ।
ततः सोऽचिन्तय द्देवो यद्ययं जठरे गतः ॥ ८ ॥
दहेत् त्रिभुवनं कुक्षौ दृष्टमाश्चर्यमुत्कटम् ।
ततः शक्रो ददौ चन्द्रं तस्य वह्नेः प्रशान्तये ॥ ९ ॥
भालचन्द्रेति तं देवास्तुष्टुवुर्मुनयोऽपि च ।
तथापि न च शान्तोऽभूदनलः कठमध्यगः ॥ १० ॥
ततो ब्रह्मा ददौ सिद्धिबुद्धी मानस कन्यके ।
रम्भोरुपद्मनयने केशशैवलसंयुते ॥ ११ ॥
चन्द्रवक्त्रेऽमृतगिरौ कूपनाभी सरिद्गती ।
मृणालमध्ये प्रवाल हस्ते शैत्यस्य कारणे ॥ १२ ॥
उवाचे मे समालिङ्ग्य तव शान्तोऽनलो भवेत् ।
तयोरालिङ्गने शान्तः किञ्चिदेव हुताशनः ॥ १३ ॥
ददौ सुकोमलं तस्मै कमलं कमलापतिः ।
पद्मपाणिरिति प्रोचुस्तं सर्वे सुरमानुषाः ॥ १४ ॥
अशान्तेऽग्नौ तु वरूणः सिषेच शीतलैर्जलैः ।
सहस्रफणिनं नागं गिरिशोऽस्मै ददावथ ॥ १५ ॥
तेन बद्धोदरो यस्माद् व्यालबद्धोदरोऽभवत् ।
तथापि शैत्यं नापेदे कण्ठोऽस्यानलसंयुतः ॥ १६ ॥
अष्टाशीतिसहस्राणि मुनयस्तं प्रपेदिरे ।
अमृता इव दूर्वास्ते प्रत्येकं सेकविंशतिम् ॥ १७ ॥
आरोपयन् मस्तकेऽस्य ततः शान्तोऽनलोऽभवत् ।
तुतोष परमात्माऽसौ दूर्वाङ्कुरमरार्चितः ॥ १८ ॥
एवं ज्ञात्वा तु ते सर्वे पुपूजस्तं गजाननम् ।
दूर्वाङ्कुरैरनेकैस्तैर्जहर्षासौ गजाननः ॥ १९ ॥
उवाच च मुनीन् देवान् मत्पूजा भक्तिनिर्मिता ।
महती स्वल्पिका वापि वृथा दूर्वाङ्कुरैर्विना ॥ २० ॥
विना दूर्वाङ्कुरैः पूजाफलं केनापि नाप्यते ।
तस्मादुषसि मद्भक्तैरेका वाऽप्येकविंशतिः ॥ २१ ॥
भक्त्या समर्पिता दूर्वा ददाति यत्फलं महत् ।
न तत्क्रतुशतैर्दानैर्व्रतानुष्ठान सञ्चयैः ॥ २२ ॥
तपोभिरुग्रैर्नियमैः कोटिजन्मार्जितैरपि ।
प्राप्यते मुनयो देवा यद् दूर्वाभिरवाप्यते ॥ २३ ॥
॥ कौण्डिन्य उवाच ॥
इति तद्वचनं श्रुत्वा देवा दूर्वाङ्कुरैः पुनः ।
आनर्चुः परमात्मानं देवदेवं गजाननम् ॥ २४ ॥
जगर्जानन्दयुक्तोऽसौ नादयन् रोदसी भृशम् ।
हृष्टानां सर्व देवानां मुनीनां च नृणामपि ॥ २५ ॥
अनेकशो वरान् दत्वा पिदधे बालरूपधृक् ।
कालानलप्रशमन इति तं ते समूचिरे ॥ २६ ॥
प्रासादे निर्मिते सर्वे स्थाप्य मूर्तिं गजाननीम् ।
विघ्नहरोऽयमित्यस्याभिधां चक्रुर्मुदा सुराः ॥ २७ ॥
अत्र स्नानं तथा दानं तपोऽनुष्ठानमेव च ।
अनन्तं जायते विघ्नहरस्यास्य प्रसादतः ॥ २८ ॥
जयः प्राप्तो यतस्तेन पुरं च विजयाभिधम् ।
सर्वेषां च हता विघ्ना विघ्नहर्तेति सोऽभवत् ॥ २९ ॥
॥ कौण्डिन्य उवाच ॥
इति ते कथितं सर्व दूर्वामाहात्म्यमुत्तमम् ।
श्रवणात् पठनाच्चास्य सर्वपापक्षयो भवेत ॥ ३० ॥
पुरातनमितिहांसं शृणु मे गदतः प्रिये ॥ ३१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-64

कोई टिप्पणी नहीं:

123