श्रीगणेशपुराणे उपासनाखण्डे द्विषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे द्विषष्टितमोऽध्यायः
दूर्वोपाख्यानं

॥ कृतवीर्यपिता उवाच ॥

चतुर्थ्यां कृष्णपक्षे तु भुक्तिश्चन्द्रोदये यतः ।
क्रियते तन्निमित्तं यत्पृष्टं तन्मे निरूपितम् ॥ १ ॥
दुर्वाङ्कुरार्पणस्यापि श्रोतुमिच्छामि कारणम् ।
किमर्थं गणानाथस्य प्रिया दूर्वाङ्कुरा वद ॥ २ ॥


॥ ब्रह्मोवाच ॥
हन्त ते कथयिष्यामि दूर्वाङ्कुरसमर्पपणे ।
यत् फलं गणानाथस्य श्रूयतां तन्नृपोत्तम ॥ ३ ॥
जाम्बेति नगरी ख्याता देशे दक्षिणतोऽभवत् ।
क्षत्रियः सुलभोऽस्यां तु गणी दानी धनी बली ॥ ४ ॥
विवेक्यासीन् मान्यमानी शमी दमपरायणः ।
सर्वशास्त्रार्थतत्त्वज्ञः सर्ववेदार्थतत्त्ववित् ॥ ५ ॥
विकटे भक्तिमान् नित्यं स्तुतिस्तोत्र परायणः ।
तस्य भार्या सुमुद्राऽऽसीन्नाम्ना परमविश्रुता ॥ ६ ॥
अत्यन्तसुन्दरी साध्वी स्वरुपाद्धिक्कृताप्सराः ।
देवविप्राऽतिथिपरा पत्युश्चितानुवर्तिनी ॥ ७ ॥
पतिव्रतानां सर्वासां मान्या श्रेष्ठतमा नृप ।
एकस्मिन् दिवसे तौ तु दम्पती स्नाननिर्मलौ ॥ ८ ॥
उपविष्टौ पुराणार्थं परस्परमनोनुगौ ।
यावत्तावत् समायातो ब्राह्मणो मधुसूदनः ॥ ९ ॥
भिक्षाभिलाषी सततं परमेश्वरचिन्तकः ।
कुचैलश्च दरिद्रत्वात् साम्बरोऽपि दिगम्बरः ॥ १० ॥
सुलभस्तं तु दृष्ट्वैव प्रणनाममुदा युतः ।
जहास चैनं सहसा मोहाविष्टो द्विजोत्तमम् ॥ ११ ॥
स उवाच ततः शापं प्रतिक्षुब्धो महामुनिः ।
क्रोधसंरक्तनयनस्त्रैलोक्यं प्रदहन्निव ॥ १२ ॥
हलकर्षणको नित्यं नित्यं दुःखसमन्वितः ।
वृषो भव कुबुद्धे त्वं योऽहसद् विवृतैर्द्विजैः ॥ १३ ॥
भर्तुः शापं परिश्रुत्य सुमुद्रा क्रोधमूर्च्छिता ।
अशपत् तं द्विजं रुष्टा सर्पिणीव पदाहता ॥ १४ ॥
यतस्त्वयाऽविवेकेन शापो दत्तः पतेर्मम ।
अतस्त्वं चक्रिवान् भूत्वा विष्ठाशी भव कुद्विज ॥ १५ ॥
सोऽपि तामशपत् क्रूरं श्रुत्वा शापं तदीरितम् ।
स्त्रीत्वात् त्वमशपो यस्मात्त्वं चाण्डाली भविष्यसि ॥ १६ ॥
दरिद्रा दोषबहुला विण्मूत्रादाऽशुभङ्करी ।
एवं परस्परं शप्त्वा त्यक्त्वा देहान् सुदुर्लभान ॥ १७ ॥
सुलभो वृषभो जातो हलकर्षणवान् भवन् ।
न विश्रान्तिः क्षणं तस्य विप्रशापात् तदाऽभवत् ॥ १८ ॥
द्विजोऽपि रासभेर्योनौ जातोऽसौ मधुसूदनः ।
जाता सुमुद्रा चाण्डाली दुष्टा प्राणिविहिंसिका ॥ १९ ॥
दरिद्रा पैशाचवती विण्मूत्राशनतत्परा ।
अति शुष्कशरीरा सा दन्तुरा विकटानना ॥ २० ॥
कदाचिदटमाना सा दक्षिणे नगरस्य तु ।
प्रासादं गणनाथसस्य ददर्श परमाद्भुतम् ॥ २१ ॥
नानावृक्षलताजालैर्नाना पक्षिगणैर्युतम् ।
यत्र योगीश्वराः केचिदनुष्ठानरताः सदा ॥ २२ ॥
उपासका गणेशस्य नियमस्था वसन्ति हि ।
केचित् कामार्थिनः केचित् पुत्रमोक्षधनार्थिनः ॥ २३ ॥
कदाचिद् भाद्रमासस्य चतुर्थ्यां तु गृहे गृहे ।
तस्मिन्पुरे सम्प्रवृत्तो गणनाथमहोत्सवः ॥ २४ ॥
अतिवृष्टिः प्रवृत्ता च महाप्रलयसूचिका ।
चाण्डाली वृष्टि भीता सा याति यद् यन्निवेशनम् ॥ २५ ॥
ततस्ततोऽखिलजनैर्निरस्ता ताडनादिभिः ।
ततो देवालयं याता पाणावग्निं प्रगृहय सा ॥ २६ ॥
तत्राप्यताडयन् केचित् योगिभिस्ते निराकृताः ।
प्रज्वाल्य सा तृणैरग्निमुष्णान्यङ्गानि कुर्वती ॥ २७ ॥
अकस्माद् वायुना प्रागादेको दूर्वाङ्कुरस्तदा ।
पतितो गणनाथस्य मस्तके दैवयोगतः ॥ २८ ॥
स रासभः शीतभीतो यातो देवालयं तदा ।
तदा वृषो लाङ्गलात् तु मुक्तो दैवात् समाययौ ॥ २९ ॥
प्रासादं गणनाथस्य भाविनोऽर्थस्य गौरवात् ।
उभावपि तृणं तस्याश्चाण्डाल्यास्तौ बभक्षतुः ॥ ३० ॥
परिसुप्ते जने तत्र तयोर्युद्धमवर्तत ।
लत्ताभ्यां चैव श‍ृङ्गाभ्यां गजानन समीपतः ॥ ३१ ॥
तयोरास्यान्निपतितौ शुण्डायां च पदे तदा ।
दूर्वाङ्कुरौ गणेशस्य तुतोष च गजाननः ॥ ३२ ॥
ततः सा यष्टिमादाय देवान्तिकमुपागमत् ।
अहनन् तौ खरवृषौ स्वयं पूजां बभक्ष च ॥ ३३ ॥
खुरशब्दं तयोः श्रुत्वा बुबुधे निद्रितो जनः ।
बहिश्चकार दण्डेन मुष्टिकूर्परघाततः ॥ ३४ ॥
पलायनपरा साऽपि ताडिता शर्करादिभिः ।
चाण्डाल्या रासभस्यापि स्पर्शशङ्काकुलैर्जनैः ॥ ३५ ॥
स्नापितस्तीर्थतोयेन मन्त्रितेन गजाननः ।
पूजितः परया भक्त्या नानाद्रव्यैरनेकशः ॥ ३६ ॥
वृषरासभचाण्डालीरतिदुष्टा जनाः पुनः ।
ताडयामासुरव्यग्रा लगुडैर्जानुभिस्तलैः ॥ ३७ ॥
देवद्वारे च पिहिते गतिस्तेषां न विद्यते ।
भ्रमतां क्रन्दतां तेषां त्रयाणां दारूणैः स्वरैः ॥ ३८ ॥
मनस्तु देवदेवस्य विकटस्य तदा हृतम् ।
एतेषां तु प्रसङ्गेन पुनः पूजा ममाऽभवत् ॥ ३९ ॥
एतैश्च पूजितश्चाहमेकदूर्वाङ्कुरादिभिः ।
प्रदक्षिणा बहुतरा कृता दुष्टेषु सत्स्वपि ॥ ४० ॥
भाद्रशुक्लचतुर्थ्यां मे दूर्वामेकां समर्पयेत् ।
स मे मान्यश्च पूज्यश्च यश्च कुर्यात् प्रदक्षिणाम् ॥ ४१ ॥
तस्मादेतान् विमानेन स्वधाम प्रापयाम्यहम् ।
एवं विमानमप्रेषीत् स्वगणैरूपलक्षितम् ॥ ४२ ॥
स्वरूपधारिभिर्देवो गन्धर्वाप्सरसां गणैः ।
युतं वादित्रनिचयैः पुष्पैः परिमलैरपि ॥ ४३ ॥
दिव्यभोगसमायुक्तं पताकाध्वजमण्डितम् ।
तानादाय गणास्ते तु गजाननस्वरूपिणः ॥ ४४ ॥
तस्मिन् विमाने निक्षिप्य दिव्यदेहान् मुदायुतान् ।
गजाननाज्ञया तस्य धाम सम्प्रापयन् जवात् ॥ ४५ ॥
पश्यतां सर्व लोकानामाश्चर्यमभवद्हृदिः ।
एतेषां पूर्वपुण्येन गतिरेषेति चाब्रुवन् ॥ ४६ ॥
ततो योगीश्वराः केचित् त्यक्त्वा ध्यानं गता गणान् ।
पप्रच्छु कथमेतेषां ब्रूत पुण्या गतिर्ध्रुवा ॥ ४७ ॥
अतिपातकिनामेषां पुण्यलेशो न विद्यते ।
गतिः सुदुर्लभा कस्मात् प्राप्ता नो वदताऽनघाः ॥ ४८ ॥
तदेवाशु चरिष्यामस्त्यक्त्वाऽनुष्ठानमात्मनः ।
असङ्ख्यातो गतः कालो न देवो दृक्पथं गतः ॥ ४९ ॥
विरक्तानां वायुभुजामनुष्ठानवतां सदा ।
धामप्राप्तिः कदा नः स्याद् गणेशस्य वदन्तु नः ॥ ५० ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वोपाख्यानं नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-62

कोई टिप्पणी नहीं:

123