श्रीगणेशपुराणे उपासनाखण्डे द्विपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे द्विपञ्चाशत्तमोऽध्यायः
नलव्रत निरुपणं

॥ पार्वत्युवाच ॥
नलेनेदं कृतं कस्मात् को नलो वद मे पितः ।
मनोविश्रान्तिमायाति शृण्वन्त्या मे कथानकम् ॥ १ ॥


॥ हिमवानुवाच ॥
निषधेषु महाराजो नलो नामाऽभवत्पुरा ।
ब्रह्मण्यो वेदविच्छूरो दानी मानी धनी मुनिः ॥ २ ॥
रथी खड्गी शरी चापी निषङ्गी कवची बली ।
कृतास्रो देवपूज्यश्च त्रिलोकीगमनः शुचिः ॥ ३ ॥
शेषोऽपि मूकतां याति वर्णितुं यद्गुणानपि ।
न सङ्ख्या विद्यतेऽश्वानां गजानां रथिनां तथा ॥ ४ ॥
धानुष्काणां शस्त्रभृतां अग्निशस्त्रभृतामपि ।
चकम्पुर्यद्भयाद्देवा इन्द्राद्याः सदिगीश्वराः ॥ ५ ॥
दमयन्तीति भार्याऽऽसीद्यस्य सौन्दर्यमन्दिरम् ।
दमयित्वाऽखिलान् ब्रह्मा सारं सारं प्रगृह्य च ॥ ६ ॥
दमयन्तीति विख्याता यतस्तेनेति निर्मिता ।
दमयन्त्यै त्रिलोकस्थ नारीणां चारुतामदात् ॥ ७ ॥
नानालङ्कार संयुक्ता नानामणिविभूषिता ।
मुक्ताहारलसत्कण्ठा सद्गुणाढ्या सुशोभना ॥ ८ ॥
यस्यामात्यो महानासीत् पद्महस्तः पराक्रमी ।
बुद्धया बृहस्पतिसमो नयेनाङ्गिरसा समः ॥ ९ ॥
तुङ्गत्वे मेरुसदृशो गाम्भीर्ये चोदधेः समः ।
कदाचिदुपविष्टोऽसौ नलो राजा महामनाः ॥ १० ॥
निषसाद सभागेहे नृपमण्डल मध्यगः ।
नृत्यन्त्यप्सरस्तस्य पुरतश्चारुदर्शनाः ॥ ११ ॥
स्तुवन्ति वन्दिनस्तं च ब्रह्मर्षिगणसंयुतम् ।
एतस्मिन्नेव काले तु गौतमौ नृपतिं ययौ ॥ १२ ॥
उत्थाय सादरं राज्ञा स्वासने विनिवेशितः ।
पूजितः परया भक्त्या ततः पप्रच्छ तं नलः ॥ १३ ॥
॥ नल उवाच ॥
स्वामिन्ननुगृहीतस्ते दर्शनेन महामुने ।
जन्म राज्यं पिता माता कुलं जीवितमद्य मे ॥ १४ ॥
सफलं स्वागमे हेतुं वदतूर्णं महामुने ।
॥ गौतम उवाच ॥
ममासीन्महती वाञ्छा द्रष्टुं ते वैभवं नृप ॥ १५ ॥
स्तुवन्ति देवाः स्वर्गस्था ब्रह्मेन्द्रहरिशूलिनः ।
धन्योऽसि मर्त्यलोकस्थो मर्त्यैर्देवैश्च शस्यसे ॥ १६ ॥
नित्यतृप्तोऽप्यहं तृप्तः पूजां दृष्ट्वा च वैभवम् ।
इदानीमनुजानीहि गमिष्ये स्वाश्रमं प्रति ॥ १७ ॥
॥ नृप उवाच ॥
वेदवेदाङ्गविद्ब्रह्मन् सर्वशास्त्रप्रवर्तक ।
दयानिधे क्षणं स्थित्वा छिन्धि मे संशयं मुने ॥ १८ ॥
॥ मुनिरुवाच ॥
साधु पृष्टं महाराज स्थितोऽहं स्नेहभावतः ।
नागा नृपाश्च देवाश्च यत्ते नाज्ञाविलङ्घिनः ॥ १९ ॥
॥ नृप उवाच ॥
ममैव विस्मयो ब्रह्मन् निरीक्ष्य वैभवं स्वकम् ।
इत्थं ममाभवत्केन पुण्येन तपसाऽपि वा ॥ २० ॥
वद तत्त्वेन कश्चाहमभवं पूर्वजन्मनि ।
॥ मुनिरुवाच ॥
गौण्डदेशात्परे देशे पुरे पिप्पलसंज्ञिके ॥ २१ ॥
त्वमासीः क्षत्रियः पूर्वं दरिद्रो ज्ञानवान् शुचिः ।
जायापत्यैः सुहृद्भिश्च वाक्शरैस्ताडितो भृशम् ॥ २२ ॥
रात्रावपृष्ट्वा सर्वांस्त्वं निर्वेदाद्गहनं वनम् ।
गतवान्वृक्षवल्लीभिः सिंहव्याघ्रगजैर्मृगैः ॥ २३ ॥
सेवितं शीतलजलैः सरोभिर्जलजादिभिः ।
आश्रमोऽथ त्वयाऽदर्शि भ्रमता भ्रमता वने ॥ २५ ॥
तपोनिधेः कौशिकस्य वेदघोषनिनादितः ।
तत्र गत्वा मुनिं तं त्वं प्रणतो भक्तिभावतः ॥ २५ ॥
उत्थापितः कौशिकेन दीनानाथदयावता ।
दुःखितं त्वां विदित्वा स आशीर्वादमवीवदत् ॥ २६ ॥
गजाननो मे देवेशो भविता ते शुभङ्करः ।
श्रुत्वा तदाशिषं सौम्यां प्राप्तोऽसि परमां मुदम् ॥ २७ ॥
पुष्टवानसि तं विप्रमुपायं सर्वकामदम् ।
दारिद्र्यनाशकं राजन् भुक्तिमुक्तिप्रदं शिवम् ॥ २८ ॥
गणेशाराधनं तुभ्यं कथयामास कौशिकः ।
॥ कौशिक उवाच ॥
व्रतं कुरु गणेशस्य मासमात्रं नराधिप ॥ २९ ॥
कुरु मूर्तिं गणेशस्य मृन्मयीं चारुदर्शनाम् ।
पूर्वोक्त विधिना पूजां कुरु शृणु कथानकम् ॥ ३० ॥
दिने दिने मासमात्रं ततः सिद्धिमवाप्स्यसि ।
॥ मुनिरुवाच ॥
इति श्रुत्वा कौशिकं तं पप्रच्छ भूमिपः पुनः ॥ ३१ ॥
॥ नृप उवाच ॥
गजाननं न जानामि तत्स्वरूपं वदस्व मे ।
ज्ञात्वा तं देवदेवेशं करिष्ये व्रतमुत्तमम् ॥ ३२ ॥
॥ मुनिरुवाच ॥
इति तेन कृते प्रश्ने जगाद मुनिसत्तमः ।
अनिर्वाच्यस्वरूपस्य परब्रह्मस्वरुपिणः ॥ ३३ ॥
वैकारिकस्वरुपाणि गजाननकृतानि तम् ।
॥ कौशिक उवाच ॥
यः कर्ता सर्वलोकानां पिता माता जगद्गुरुः ॥ ३४ ॥
ब्रह्मेन्द्रशिवविष्णूनां ध्येयो यः स गजाननः ।
॥ मुनिरुवाच ॥
इति श्रुत्वा तु तद्वाक्यं प्रणिपत्य मुनीश्वरम् ॥ ३५ ॥
अनुज्ञातस्ततस्तेन गतोऽसि निजमन्दिरम् ।
आरभ्य श्रावणे शुद्ध चतुर्थ्यां व्रतमुत्तमम् ॥ ३६ ॥
कृतवान् मृन्मयीं मूर्तिं गणेशस्य यथोदिताम् ।
स्थाने च वचने मौने गमने शयने भुजि ॥ ३७ ॥
ध्यायन्गजाननं देवं प्रायाः सिद्धिमनुत्तमाम् ।
नानागजरथाश्वाद्यैर्गोधनैर्धनसञ्चितैः ॥ ३८ ॥
दासीदासयुतः श्रीमान् जातो व्रतप्रभावतः ।
दत्तवानसि दानानि सर्वाणि देवतुष्टये ॥ ३९ ॥
गणेशस्य महामौल्यं प्रासादं कृतवान्मुदा ।
भुक्त्वा भोगान् यथाकामं कालेन निधनं गतः ॥ ४० ॥
जातोऽसि निषधे देशे नृपस्त्वं नलनामकः ।
अतस्त्वय्यचला लक्ष्मीस्त्रिलोकीजनवन्दिते ॥ ४१ ॥
इदानीमनुजानीहि यत्पृष्टं तन्निरूपितम् ।
॥ हिमवानुवाच ॥
एवं गते गौतमे तु व्रतं चक्रे नलो नृपः ॥ ४२ ॥
तद्वाक्याज्जातविश्वासो मूर्तिं कृत्वा सुशोभनाम् ।
श्रुत्वा कथां गणेशस्य प्रत्यहं पूज्य भक्तितः ॥ ४३ ॥
अलभत् सर्वकामान् स व्रतस्यास्य प्रभावतः ।
इति ते कथितं कन्ये नलेनेत्थं कृतं व्रतम ॥ ४४ ॥
उपदिष्टं गौतमेन पूर्वजन्मकृतं व्रतम ।
यस्य प्रभावः सम्पूर्णों वक्तुं केनापि नेष्यते ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे नलव्रतनिरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-52

कोई टिप्पणी नहीं:

123