श्रीगणेशपुराणे उपासनाखण्डे पञ्चमोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे पञ्चमोऽध्यायः

सुधर्माच्यवन संवाद
॥ श्रीसूत उवाच ॥

ततो मातरमभ्येत्य स्नेहकातरया धिया ।
तां जगाद कथं मातस्त्यजसेऽनपराधिनम् ॥ १ ॥
॥ पुत्रोवाच ॥
सहैव यातु पुत्रोऽयमिति वाच्यस्त्वया पिता ।
तववाक्यानुरोधेन यदि मां सह नेष्यति ॥ २ ॥
तदा वां सेवनं कुर्यां न मे राज्ये मतिस्तथा ।
किं तद्राज्यं सुखं दद्याद्भवद्भ्यां रहितस्य मे ॥ ३ ॥



॥ सुधर्मोवाच ॥
एतावद्दुःखशोकाभ्यां युक्तो राजा न मे वचः ।
करिष्यति महाबाहो तस्माद्गच्छ ममाज्ञया ॥ ४ ॥
पातिव्रत्येन धर्मेण परवत्यस्मि बालक ।
भर्तुरन्यो न देवोऽस्ति योषितां मान्य एव च ॥ ५ ॥
॥ श्रीसूत उवाच ॥
इत्याकर्ण्य नमश्चक्रे मातरं ससुहृत् सुतः ।
प्रदक्षिणीकृत्य ततोऽनुज्ञां प्राप्य पुरं ययौ ॥ ६ ॥
अलङ्कृतैर्नागरिकैः पताकाध्वजपल्लवैः ।
सिक्तमार्गं सुगन्धाढ्यं यथेन्द्रनगरं तथा ॥ ७ ॥
दत्वा ताम्बूलवासांसि विसृज्य स्वजनान् नृपः ।
प्रविवेश गृहं श्रीमद् हर्षशोकसमन्वितः ॥ ८ ॥
चकार राज्यं धर्मेण सुतवत् पालयन् प्रजाः ।
धर्मार्थकाममोक्षेषु यथाशिक्षं मनोदधे ॥ ९ ॥
॥ ऋषय ऊचुः ॥
कथं राजा सोमकान्तः किं वनं समुपागतः ।
किंसहायश्च किं चक्रे कर्म नो वद विस्तरात् ॥ १० ॥
॥ श्रीसूत उवाच ॥
हेतवः कथयिष्यामि सोमकान्तो यथा वनम् ।
गत्वा चकार यत्कार्यं सादरं श्रणुतानघाः ॥ ११ ॥
सुबलज्ञानगम्याममात्याभ्यां सुधर्मया ।
धर्मपत्न्या युतोऽरण्यं प्रविवेश दुरासदम् ॥ १२ ॥
अग्रतः प्रकृतिर्याता मध्ये राजाऽथ पृष्ठतः ।
धर्मपत्नी सुधर्माऽगात् सीतेव रामपृष्ठतः ॥ १३ ॥
एकाशनाश्च चत्वार एकचित्तासनालयाः ।
समदुःखसुखाश्चापि वनाद्वनमुपाययुः ॥ १४ ॥
क्षुधातृषाश्रमैर्वापि निम्नोन्नतगताध्वभिः ।
अत्यन्तं कर्षिताश्छायामाश्रित्योपाविशन् क्वचित् ॥ १५ ॥
पुनर्वनान्तरं गत्वा ददृशुस्ते सरो महत् ।
यत्र मातङ्गसदृशा नक्रा भान्ति सकच्छपाः ॥ १६ ॥
तालास्तमालाः सरलाः प्रियाला बकुलाः शुभाः ।
सरलाः पनसा जम्बुनिम्बाश्वत्थवटादयः ॥ १७ ॥
वृक्षा नानालताजालैर्वेष्टिताः परितो बभुः ।
यत्रास्ते तिमिरं गाढं गिरिदर्युदरे यथा ॥ १८ ॥
यत्रवायुः सुखस्पर्शः पद्मकादम्बगन्धवान् ।
यस्मान्नयन्ति मुनयः कुसुमानि फलानिच ॥ १९ ॥
यत्र हंसा बकाः श्येनाः शुभाः काकाश्च कोकिलाः ।
सारिकाश्चक्रवाकाश्च गाना रावान् विकुर्वते ॥ २० ॥
न यत्र शीतोष्णकरांशुसन्धिर्नानालतापुष्पकुजाश्रितानाम् ।
क्षुतृड्भयं यत्र न चैव मृत्युः स्वर्गे यथा पुण्यवतां द्विजेन्द्राः ॥ २१ ॥
तत्र गत्वा जलं सर्वे पपुः शीतं श्रमापहम् ।
स्नात्वा नित्यक्रियां कृत्वा फलानि बुभुजश्च ते ॥ २२ ॥
सुष्वाप च क्षणं राजा कच्छे कोमलवालुके ।
धर्मपत्नी सुधर्मा च पादसंवाहने स्थिता ॥ २३ ॥
तस्यानुमतमाज्ञाय द्वावमात्यावगच्छताम् ।
आदातुं कन्दमूलानि फलानि च बिसानि च ॥ २४ ॥
ददर्श तत्राद्भुतरूपमुग्रं बालं सुधर्मा प्रभया ज्वलन्तम् ।
उत्कृष्टरूपस्य कृते स्मरं तं जातं पुरा बालमिति स्म मेने ॥ २५ ॥
दृष्ट्वैव तं सा जहृषे सुधर्मा मेने च तं साहितकारिणं च ।
क्षुब्धं प्रसन्नं हृदयं समीक्ष्याप्रकारिणं चोपकारं हि वक्ति ॥ २६ ॥
पप्रच्छ तं कश्च कुतः प्रयातः कस्यापि पुत्रौ जननी च का ते ।
वदस्व शब्दामृतधारया मे सखेव कर्णौ परितोषयाशु ॥ २७ ॥


॥ श्रीसूत उवाच ॥
इति स्म पृष्टः स जगाद बालस्तां राजपुत्रीं सुधया गिरा मे ।
पिता भृगुर्भामिनि ! मे पुलोमा माता जलार्थी स्वगृहादिहागाम् ॥ २८ ॥
च्यवनः खलु नाम्नाहं पितुराज्ञाकरः शुभे ।
त्वं च का कतमोऽयं ते कथं वनमिदं गतः ॥ २९ ॥
स्त्रवन्ति कथमङ्गानि वर्षाकाले गिरेरिव ।
अति दुर्गन्धता चास्य केन वा वद कर्मणा ॥ ३० ॥
कृमिभार समाकीर्णममुं वा सेवसे कथम् ।
स्वयं चारूतरा भूत्वा सुकुमारी सुलोचना ॥ ३१ ॥
चारू प्रसन्नवदना चारूसर्वाङ्गशोभिनी ।
कच्चित्पूर्वं न पित्रा ते सुहृद्भिर्भ्रातृभिर्द्विजैः ॥ ३२ ॥
विज्ञातोऽयं वरः कुष्ठीकृमिभाराकुलोऽपि च ।
कथमेनं वृत्तवती दुर्गमं चागता वनम् ॥ ३३ ॥
॥ श्रीसूत उवाच ॥
इति पृष्टा सुधर्मा सा मुनिपुत्रेण धीमता ।
व्याचष्टे सकलं तस्मै शोकहर्ष समन्विता ॥ ३४ ॥
॥ सुधर्मोवाच ॥
सौराष्ट्रदेशे विख्यातं देवताख्यं पुरं महत् ।
तत्राऽयं सोमकान्तो मे भर्ता राज्यं चकार ह ॥ ३५ ॥
अतिमानी वदान्यश्च शूरो दृढपराक्रमः ।
असङ्ख्यातबलोपेतो रिपुराष्ट्रविमर्दनः ॥ ३६ ॥
यज्वाऽति सुन्दरः श्रीमान् सुहृदानन्दकारकः ।
विवेक्ता सर्वकार्याणां नीतिशास्त्रविशारदः ॥ ३७ ॥
राज्यं स्वं बुभुजे राजा बहुकालं द्विजोत्तम ।
इमामवस्थां सम्प्राप्तः पूर्वकर्मविपाकतः ॥ ३८ ॥
अमात्यद्वय संयुक्तो वनमेतत् समागतः ।
भ्रमन्तिपृष्ठलग्नाऽस्य पुत्रे राज्यं प्रयच्छतः ॥ ३९ ॥
सुबलज्ञानगम्याभ्यां प्रकृतिभ्यामिहागता ।
राज्ञोऽनुज्ञां समादाय फलार्थं तौ गतौ वने ॥ ४० ॥
इहास्मान् राक्षसाः प्रेता भूतानि मृगपक्षिणः ।
नानाविधा भीषयन्ति कथं नो भक्षयन्ति न ॥ ४१ ॥
न जाने दुःखभोगाय स्थापयन्त्यग्रतोऽपि च ।
दुःखस्यान्तं न पश्यामि कर्मणो दुष्कृतस्य च ॥ ४२ ॥
कटुतिक्ताम्ललवणमधुरस्निग्धभोजने ।
न तथा रूचिरस्याऽभूत् परीतस्य द्विजातिभिः ॥ ४३ ॥
यथेदानीं कन्दमूल कषायाम्ल फलादिषु ।
दरिद्राणां महाहारः पाकोऽपि भक्षितस्य च ॥ ४४ ॥
न तथां श्रीमतां शक्तिरशने पाक एव च ।
यः शेत कोमले दिव्ये शयने स्म मनोरमे ॥ ४५ ॥
इदानीं यत्र कुत्रापि पश्य कालविपर्ययम् ।
यस्य दिग्व्यापिनश्चासन् नाना परिमलाः शुभाः ॥ ४६ ॥
पूयशोणितदिग्धस्य पूतिगन्धोऽपि साम्प्रतम् ।
य आनन्दमये सिन्धौ मग्नोभूत्पण्डितैर्वृतः ॥ ४७ ॥
स इदानीं दुःखमये कृमिभिः परिवारितः ।
कथं तरेम दुःखाब्धिं न जाने भृगुनन्दन ।
भव पोत इवागाधे मज्जन्तं नौरिवार्णवे ॥ ४८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सुधर्माच्यवन संवादो नाम पञ्चमोऽध्यायः ॥ ५ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

:- श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-05

कोई टिप्पणी नहीं:

123