श्रीगणेशपुराण-उपासना-खण्ड-चतुर्थोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे चतुर्थोऽध्यायः

सोमकान्ततपोवनगमनं
॥ श्रीसूत उवाच ॥
जातेऽभिषेके राजाऽसौ चकार द्विजपूजनम् ।
मणिमुक्ताप्रवालानि ददौ साङ्गं गवा युतम् ॥ १ ॥
तोषयामास सर्वान्स्तान् गजगोऽश्वधनांशुकैः ।
नानादेश्यानि वासांसि सुवर्णान्तरितानि च ॥ २ ॥
नानावर्णानि काश्मीरदेशजानि महान्ति च ।
राजभ्यो राजपत्नीभ्यो ग्राम मुख्येभ्य एव च ॥ ३ ॥
तद्भृत्येभ्यो गुणिभ्यश्च ददौ राजां यथर्हतः ।
अमात्येभ्यो ददावन्यान् ग्रामान् बहुधनान्यपि ॥ ४ ॥

ततो वनं ययौ राजा दुः शोकसमन्वितः ।
पूर्व जन्मार्जितैदोषैरत्यन्तमलिनोऽशुचिः ॥ ५ ॥
तस्मिन्प्रयाते लोकानां हाहाकारो महानभूत् ।
स्वं स्वं कार्यं विहायैव प्रतिजग्मुर्जनाधिपम् ॥ ६ ॥
अमात्या राजभार्याच हेमकण्ठः सुहृद्गतः ।
उत्तिष्ठन् प्रपपाताग्रे स्खलन् धावन् रुदन्नपि ॥ ७ ॥
अमात्यानागरास्तं तु दुःखिता अप्यवारयन् ।
गव्यूतिद्वितयं गत्वा तस्थौ राजा श्रमान्वितः ॥ ८ ॥
दृष्ट्वा वापीं शीतजलां नानावृक्षसमन्विताम् ।
उवाच नागरान् सर्वानमात्यान् स्वजनानपि ॥ ९ ॥
अपराद्धं मया यद् यच्चिरं राज्यं प्रकुर्वता ।
तत् क्षन्तव्यं नमाम्येष बध्वाञ्जलिपुटं जनाः ॥ १० ॥
कृपा विधया पुत्रे मे यदि दैवात् समागते ।
विज्ञापयामि वः सर्वान् मयि स्नेहो न हीयताम् ॥ ११ ॥
गच्छन्तु नगरं सर्वे सस्त्रीवृद्धाः समागताः ।
पुत्रेण पाल्यमाना मे तिष्ठन्तु विगतज्वराः ॥ १२ ॥
अनुजानन्तु मां सर्वे सुचित्तो याम्यहं वनम् ।
युष्मासु तु प्रयातेषु मनो मे निश्चलं भवेत् ॥ १३ ॥
उपकारं महान्तं मे कुर्वन्तु कृपयाऽखिलाः ।
दुःखितो निष्ठुरं वक्तुं मर्तुकामोऽपि नोत्सहे ॥ १४ ॥
महत्पापं मयैवैतज्जन्मजन्मान्तरार्जितम् ।
यद्वियोगो हि राज्यस्य लोकानां हितकारिणाम् ॥ १५ ॥
परन्तु किं करोम्येष यद् गलत्कुष्ठवानहम् ।
सर्वोऽपि स्वकृतं भुङ्क्ते सुकृतं दुष्कृतं तथा ॥ १६ ॥
॥ श्रीसूत उवाच ॥
इति श्रुत्वा वचो राज्ञो मूर्च्छिताः सुहृदस्तथा ।
घ्नन्तः केचित् पाणितलैः शिरांसि भृशदुःखिताः ॥ १७ ॥
केचित् परस्परं चक्रुरभिज्ञाः पण्डिताश्च ये ।
सान्त्वनं पूर्वजातानां नृपाणां चरितैर्नृपे ॥ १८ ॥
अनिर्वाच्यामवस्थां तत् समीक्ष्येयुरथाऽपरे ।
यथा स्वरूपे विज्ञाते योगिनो ज्ञानवृत्तयः ॥ १९ ॥
दुःखितं सोमकान्तं तं वनं गन्तुं समुत्सुकम् ।
नियम्य दुःखं धैर्येण धीराः केचिदथाब्रुवन् ॥ २० ॥
॥ जना ऊचुः ॥
पोषयित्वा पालयित्वा न नस्त्वं त्यक्तुमर्हसि ।
यथा न त्यजते शैत्यं जलमौष्ण्यं तनूनपात् ॥ २१ ॥
मर्यादां जलधिर्वाऽपि सूर्यः प्राकाश्यमेव च ।
कथं वा नगरं यामस्त्वां विना जनवत्सल ॥ २२ ॥
यथोडुपतिना हीनं व्योम तारान्वितं नृपः ।
पुरं तद्वन्न शोभेत त्वां विना शत्रुकर्षण ॥ २३ ॥
सहैव यामस्तीर्थानि द्वित्राणि वयमप्युत ।
रूपं ते कान्तिमत् कान्त ! भविता तीर्थ सेवनात् ॥ २४ ॥
ततः सहैव यास्यामो नगरं ध्वजसङ्कुलम् ।
हर्षेण महता युक्ता वाद्यबन्दिपुरः सराः ॥ २५ ॥
॥ श्रीसूत उवाच ॥
इति तद्वचनं श्रुत्वा क्रोध दुःख समन्वितः ।
उवाच राजा तान्नत्वा मैवं मैवं पुनः ॥ २६ ॥
ततोऽब्रवीद्वेमकण्ठं सामात्यो वत्सलं नृपम् ।
स्नेह कारूण्य भावेन विनयेन समन्वितः ॥ २७ ॥
॥ पुत्र उवाच ॥
विना त्वां नोत्सहे गन्तुं कर्तुं राज्यञ्च जीवितुम् ।
न मया दृष्टपूर्वस्ते विरहस्तं सहे कथम् ॥ २८ ॥
॥ राजोवाच ॥
एतदर्थ मया पूर्वं धर्मशास्त्रं सुनीतिमत् ।
उपदिष्टं तव शुभं न वृथा कर्तुमर्हसि ॥ २९ ॥
श्रूयते जामदग्न्येन जननी निहता पुरा ।
पितृवाक्यानुरोधेन नीतिज्ञेन सुधीमता ॥ ३० ॥
रामस्तु राज्यं त्यक्त्वैव वनं यातः सहानुजः ।
अपृष्ट्वा कारणं सीतां तत्त्याज लक्ष्मणो वने ॥ ३१ ॥
हेमकण्ठ ! पुरं शीघ्रममात्यैस्त्रिभिरन्वितः ।
अतो ममाज्ञया गच्छ कुरु राज्यं मयाऽर्पितम् ॥ ३२ ॥
विज्ञे यथा कार्यसक्ते चित्तं तस्य परात्मनि ।
यथाऽवस्थापिते वित्ते चित्तं लोकस्य वर्तते ॥ ३३ ॥
तथा मयि वनं याते स्वान्तं मे त्वयि वर्तते ।
दैवयोगेन सुभगो जातोयास्ये पुनर्गृहम् ॥ ३४ ॥
भविष्यति तथा धर्मो मद्वाक्यकारिणस्तव ।
न तथा सह यातेन तस्माद्गच्छ व्रजामि च ॥ ३५ ॥
॥ श्रीसूत उवाच ॥
अमात्या नागराः पुत्रः प्रयातुं कृतमानसाः ।
कष्टेन महतायुक्ता नमश्चक्रुर्नृपं तदा ॥ ३६ ॥
अनुज्ञातास्ततस्तेन आशीर्भिभिनन्द्य च ।
प्रदक्षिणी कृत्य नृपं निवृत्ता नगरं प्रति ॥ ३७ ॥
अग्ने कृत्वा महासेनां गजाश्वरथपत्तिनीम् ।
छत्रध्वजयुतो मानी हेमकण्ठोऽगमत्पुरीम् ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्ततपोवनगमनं नाम चतुर्थोऽध्यायः ॥ ४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये — 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-04

कोई टिप्पणी नहीं:

123