श्रीलिङ्गमहापुराण -[पूर्वभाग] -026

श्रीलिङ्गमहापुराण -[पूर्वभाग] -026
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचीसवाँ अध्याय
श्रीलिङ्गमहापुराणे पूर्वभागे षड्विंशोऽध्यायः
पञ्चयज्ञविधानं

॥ नन्द्युवाच ॥
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम् ।
आयातु वरदा देवीत्यनेनैव महेश्वरीम् ॥ १ ॥
पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत् ।
प्राणायामत्रयं कृत्वा समासीनः स्थितोऽपि वा ॥ २ ॥

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।
गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरेत् ॥ ३ ॥
अर्घ्यं दत्त्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम् ।
उत्तमे शिखरे देवीत्युक्त्वोद्वास्य च मातरम् ॥ ४ ॥
प्राच्यालोक्याभिवन्द्येशां गायत्रीं वेदमातरम् ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा ॥ ५ ॥
उदुत्यं च तथा चित्रं जातवेदसमेव च ।
अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विधानतः ॥ ६ ॥
तथा सौराणि सूक्तानि ऋग्यजुःसामजानि च ।
जप्त्वा प्रदक्षिणं पश्चात्त्रिः कृत्वा च विभावसोः ॥ ७ ॥
आत्मानं चान्तरात्मानं परमात्मानमेव च ।
अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विभावसुम् ॥ ८ ॥
मुनीन् पितॄन् यथान्यायं स्वनाम्नावाहयेत्ततः ।
सर्वानावाहयामीति देवानावाह्य सर्वतः ॥ ९ ॥
तर्पयेद्विधिना पश्चात् प्राङ्मुखो वा ह्युदङ्मुखः ।
ध्यात्वा स्वरूपं तत्तत्त्वमभिवन्द्य यथाक्रमम् ॥ १० ॥
देवानां पुष्पतोयेन ऋषीणां तु कुशांभसा ।
पितॄणां तिलतोयेन गन्धयुक्तेन सर्वतः ॥ ११ ॥
यज्ञोपवीती देवानां निवीती ऋषितर्पणम् ।
प्राचीनावीती विप्रेन्द्र पितॄणां तर्पयेत् क्रमात् ॥ १२ ॥
अङ्गुल्यग्रेण वै धीमांस्तर्पयेद्देवतर्पणम् ।
ऋषीन् कनिष्ठाङ्गुलिना श्रोत्रियः सर्वसिद्धये ॥ १३ ॥
पितॄंस्तु तर्पयेद्विद्वान् दक्षिणाङ्गुष्ठकेन तु ।
तथैवं मुनिशार्दूल ब्रह्मयज्ञं यजेद् द्विजः ॥ १४ ॥
देवयज्ञं च मानुष्यं भूतयज्ञं तथैव च ।
पितृयज्ञं च पूतात्मा यज्ञकर्मपरायणः ॥ १५ ॥
स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः ।
अग्नौ जुहोति यच्चान्नं देवयज्ञ इति स्मृतः ॥ १६ ॥
सर्वेषामेव भूतानां बलिदानं विधानतः ।
भूतयज्ञ इति प्रोक्तो भूतिदः सर्वदेहिनाम् ॥ १७ ॥
सदारान् सर्वतत्त्वज्ञान् ब्राह्मणान् वेदपारगान् ।
प्रणम्य तेभ्यो यद्दत्तमन्नं मानुष उच्यते ॥ १८ ॥
पितॄनुद्दिश्य यद्दत्तं पितृयज्ञः स उच्यते ।
एवं पञ्च महायज्ञान् कुर्यात् सर्वार्थसिद्धये ॥ १९ ॥
सर्वेषां शृणु यज्ञानां ब्रह्मयज्ञः परः स्मृतः ।
ब्रह्मयज्ञरतो मर्त्यो ब्रह्मलोके महीयते ॥ २० ॥
ब्रह्मयज्ञेन तुष्यन्ति सर्वे देवाः सवासवाः ।
ब्रह्मा च भगवान् विष्णुः शङ्करो नीललोहितः ॥ २१ ॥
वेदाश्च पितरः सर्वे नात्र कार्या विचारणा ।
ग्रामाद् बहिर्गतो भूत्वा ब्राह्मणो ब्रह्मयज्ञवित् ॥ २२ ॥
यावत्त्वदृष्टमभवदुटजानां छदं नरः ।
प्राच्यामुदीच्यां च तथा प्रागुदीच्यामथापि वा ॥ २३ ॥
पुण्यमाचमनं कुर्याद् ब्रह्मयज्ञार्थमेव तत् ।
प्रीत्यर्थं च ऋचां विप्राः त्रिः पीत्वा प्लाव्य प्लाव्य च ॥ २४ ॥
यजुषां परिमृज्यैवं द्विः प्रक्षाल्य च वारिणा ।
प्रीत्यर्थं सामवेदानामुपस्पृश्य च मूर्धनि ॥ २५ ॥
स्पृशेदथर्ववेदानां नेत्रे चाङ्गिरसां तथा ।
नासिके ब्राह्मणोऽङ्गानां क्षाल्य क्षाल्य च वारिणा ॥ २६ ॥
अष्टादशपुराणानां ब्रह्माद्यानां तथैव च ।
तथा चोपपुराणानां सौरादीनां यथाक्रमम् ॥ २७ ॥
पुण्यानामितिहासानां शैवादीनां तथैव च ।
श्रोत्रे स्पृशेद्धि तुष्ट्यर्थं हृद्देशं तु ततः स्पृशेत् ॥ २८ ॥
कल्पादीनां तु सर्वेषां कल्पवित् कल्पवित्तमाः ।
एवमाचम्य चास्तीर्य दर्भपिञ्जूलमात्मनः ॥ २९ ॥
कृत्वा पाणितले धीमानात्मनो दक्षिणोत्तरम् ।
हेमाङ्गुलीयसंयुक्तो ब्रह्मबन्धयुतोऽपि वा ॥ ३० ॥
विधिवद्ब्रह्मयज्ञं च कुर्यात्सूत्री समाहितः ।
अकृत्वा च मुनिः पञ्च महायज्ञान्द्विजोत्तमः ॥ ३१ ॥
भुक्त्वा च सूकराणां तु योनौ वै जायते नरः ।
तस्मात् सर्वप्रयत्नेन कर्तव्याः शुभमिच्छता ॥ ३२ ॥
ब्रह्मयज्ञादथ स्नानं कृत्वादौ सर्वथात्मनः ।
तीर्थं सङ्गृह्य विधिवत् प्रविशेच्छिविरं वशी ॥ ३३ ॥
बहिरेव गृहात्पादौ हस्तौ प्रक्षाल्य वारिणा ।
भस्मस्नानं ततः कुर्याद्विधिवद्देहशुद्धये ॥ ३४ ॥
शोध्य भस्म यथान्यायं प्रणवेनाग्निहोत्रजम् ।
ज्योतिः सूर्य इति प्रातर्जुहुयादुदिते यतः ॥ ३५ ॥
ज्योतिरग्निस्तथा सायं सम्यक् चानुदिते मृषा ।
तस्मादुदितहोमस्थं भसितं पावनं शुभम् ॥ ३६ ॥
नास्ति सत्यसमं यस्मादसत्यं पातकं च यत् ।
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ॥ ३७ ॥
उरोदेशमघोरेण गुह्यं वामेन सुव्रताः ।
सद्येन पादौ सर्वाङ्गं प्रणवेनाभिषेचयेत् ॥ ३८ ॥
ततः प्रक्षालयेत्पादं हस्तं ब्रह्मविदां वरः ।
व्यपोह्य भस्म चादाय देवदेवमनुस्मरन् ॥ ३९ ॥
मन्त्रस्नानं ततः कुर्यादापोहि ष्ठादिभिः क्रमात् ।
पुण्यैश्चैव तथा मन्त्रैर्ऋग्यजुः सामसम्भवैः ॥ ४० ॥
द्विजानां तु हितायैवं कथितं स्नानमद्य ते ।
सङ्क्षिप्य यः सकृत् कुर्यात्स याति परमं पदम् ॥ ४१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चयज्ञविधानं नाम षड्विंशोऽध्यायः ॥ २६ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-26

कोई टिप्पणी नहीं:

123