श्रीगणेशपुराणे क्रीडाखण्डे सप्तमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे सप्तमोऽध्यायः
विरजाराक्षसीमोक्षणं

॥ ब्रह्मोवाच ॥

वसिष्ठ वामदेवाद्या मुनय स्तनयं तदा ।
जातं महोत्कण्ट श्रुत्वा दर्शनाय प्रतस्थिरे ॥ १ ॥
याता गृहं कश्यपस्य तेनाऽथ परिपूजिताः ।
विष्टरं पाद्यमर्घ्यं च दत्त्वा गां चापि दक्षिणाम् ॥ २ ॥


बद्धाञ्जलिपुटोऽवोचद् धन्योऽहं पितरौ तपः ।
यदिन्द्रहरिपूज्यं वः पादपद्मं मयेक्षितम् ॥ ३ ॥
कञ्चिदागमने हेतुं ज्ञातुमीहे तपोधनाः ।
तेषां मध्ये श्रेष्ठतमो वसिष्ठः प्राह तं मुनिम् ॥ ४ ॥
॥ वसिष्ठ उवाच ॥
श्रुतस्ते तनयो ब्रह्मन् नारदात् सुमहोत्कटः ।
तं दृष्टुं त्वां च सम्प्राप्ता नान्यत् किञ्चित् प्रयोजनम् ॥ ५ ॥
॥ ब्रह्मोवाच ॥
तत्कालं साऽदितिर्बालं दृष्टुं तेषामथानयत् ।
उत्कटान्येष कर्माणि करिष्यति महोत्कटः ॥ ६ ॥
द्वात्रिंशल्लक्षणयुतो वसिष्ठः प्राह तं मुनिम् ।
अवतीर्णो महातेजाः परमात्मा विनायकः ॥ ७ ॥
अनेकान्यस्य विघ्नाति भविष्यन्ति महामुने ।
तानि सर्वाणि नश्यन्ति रक्षणीयः क्षणे क्षणे ॥ ८ ॥
यतोऽस्य रक्तौ चरणौ ध्वजाङ्कुशविराजितौ ।
ततः सम्पूजयामास मुनिः कश्यपनन्दनम् ॥ ९ ॥
प्रार्थयामास सर्वैस्तं भूभारहरणं कुरू ।
साधूनां पालनं देव दुष्टदानवघातनम् ॥ १० ॥
ते सर्वे मुनयो जग्मुस्तं प्रणम्य यथागतम् ।
ततः स ख्यातिमगमन्नाम्ना कश्यपनन्दनः ॥ ११ ॥
एकस्मिन्दिवसे प्रातः स्नातुं याते मुनौ बहिः ।
अस्वापयत् स्वतनयमदितिर्गृहमाययौ ॥ १२ ॥
चकार यज्ञसम्भाराँस्तावदेका निशाचरी ।
विरजेत्यभिविख्याता विकरालक्षेणानना ॥ १३ ॥
हलदन्ती दरीनासा पादचूर्णितभूधरा ।
दीर्घस्तनी ललज्जिह्वा गोपुरस्पर्द्धिसद्भगा ॥ १४ ॥
जग्राह बालकं सा तु सर्वभक्ष्या निशाचरी ।
क्षुधिताऽभक्षयच्छीघ्रं पक्वं रम्भाफलं यथा ॥ १५ ॥
शनैर्जगाम गगनं जलं पातुं भुवं ययौ ।
पपौ जलं बहुतरं पपात पृथुलोदरा ॥ १६ ॥
मूर्च्छामवाप महतीं सर्पदष्टो नरो यथा ।
लुलोल धरणी पृष्ठे महाशूलवती यथा ॥ १७ ॥
मुञ्चे मुञ्चेति जल्पन्ती पदं गन्तुमथाऽक्षमा ।
हाहाकारं प्रकुर्वती घ्नति वक्षः शिरोमुखम् ॥ १८ ॥
तावद्देहान्तरे तस्या ववृधे मुनिनन्दनः ।
विदार्य जठरं तस्या वक्षस्येव स्थितोऽभवत् ॥ १९ ॥
यथा जालं विदार्यैव बहिर्याति महाझषः ।
सा तदैवमारावं कृत्वा प्राणान्जहौ खला ॥ २० ॥
चूर्णयामास देहेन पञ्चयोजनगान् द्रुमान् ।
विरजा विरजास्तेन प्रापिता निजधाम सा ॥ २१ ॥
दृष्टे स्पृष्टे कृपासिन्धौ जगदीशे कथं भवेत् ।
ज्ञानदे मोक्षदे नॄणामावृत्तिर्भवसागरे ॥ २२ ॥
अदितिर्गृहकार्याणि सम्पाद्य बहिरागता ।
न ददर्श तदा बालं रुरोद भृशदुःखिता ॥ २३ ॥
गृहे गृहे निरिक्ष्यैव नालभत् क्वापि बालकम् ।
ततोऽपतद्धरापृष्ठे हाहाकारं प्रकुर्वती ॥ २४ ॥
अन्याश्च रुरुदुस्तस्याः श्रुत्वा रोदनमुच्चकैः ।
आश्चर्यं परमं चक्रुः सर्वलोका भयातुराः ॥ २५ ॥
सा शुष्कवदना दीना विललाप मुहुर्मुहुः ।
मुखञ्च साञ्जने नेत्रे मृजन्त्यश्रुजलाकुले ॥ २६ ॥
कल्पद्रुम इव प्राप्तः केन नीतो ममार्भकः ।
वरदानं कथं तस्य वृथा स्याज्जगदीशितुः ॥ २७ ॥
दत्तं निधानं देवेन केन नीतं दुरात्मना ।
कथं मूढतरा जाता लब्धविज्ञानसागरा ॥ २८ ॥
कथं दरिद्रा जाताऽहं लब्ध्वा काञ्चनपर्वतम् ।
एवं विलपती वक्षो घ्नन्ति साप्याननं शिरः ॥ २९ ॥
आश्रमाद्बहिरागच्छत् क्रोशमात्रं निशाचरीम् ।
ददर्श पतितां तस्य वक्ष्यस्येव च तं शिशुम् ॥ ३७ ॥
क्रीडन्तं हास्यवदनं प्रबुद्धमिव कामिनम् ।
धावमाना तमादायाऽऽलिलिङ्ग च चुचुम्ब च ॥ ३१ ॥
उवाचाऽऽनन्दपूर्णा सा महद्भाग्यं ममाऽधुना ।
यद् राक्षसीशयान्मुक्तो बालको दैवयोगतः ॥ ३२ ॥
ययौ स बाला स्नात्वा सा निजमाश्रममण्डलम् ।
वृत्तान्तं सर्वमाचष्टे श्रुत्वा सोऽप्याह कश्यपः ॥ ३३ ॥
भूतभावि विशेषज्ञैरुक्तं यन्मुनिभिः प्रिये ।
तदेतत् सत्यमभवत् तदाशीर्वचनादयम् ॥ ३४ ॥
जीवितोऽखिलभक्ष्याया बालकः पुण्ययोगतः ।
ततो रक्षां चकाराऽसौ ददौ दानान्यनेकशः ॥ ३५ ॥
शान्तिकं कारयामास स्वस्तिवाचनपूर्वकम् ।
क्षणमात्रं न हातव्योऽदितिमेव समादिशत् ॥ ३६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विरजाराक्षसीमोक्षणं नाम सप्तमोऽध्यायः ॥ ७ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-07

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...