श्रीगणेशपुराणे क्रीडाखण्डे
षोडशोऽध्यायः
बालचरिते नृपप्रत्यागमं
॥ ब्रह्मोवाच ॥
शृण व्यास प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यां श्रुत्वा मानवो भक्त्या सुखमत्यन्तमश्नुते ॥ १ ॥
उत्थाय कल्पे राजाऽसौ नित्यं कृत्वा ययौ बहिः ।
विनायकालयं गत्वा नत्वा तं परिपूज्य च ॥ २ ॥
सम्प्रार्थयद्भोजनार्थं ततो बालं विनायकम् ।
ततो ददौ स उद्गारं नानापक्वान्न तृप्तिजम् ॥ ३ ॥
शेषं ददर्श तत्रासौ लड्डुकान् पायसादिकम् ।
अपूपान् वटकान् पुण्यमोदनं सूपसंयुतम् ॥ ४ ॥
दधि दुग्धं मधु घृतं क्वथिकापात्रसञ्चयम् ।
मणिमुक्तामयीं मालां नानालङ्करणानि च ॥ ५ ॥
अपश्यत् तस्य देहेऽसावनर्घ्याणि नवानि च ।
पुनर्नत्वा च पप्रच्छ नृपतिस्तं विनायकम् ॥ ६ ॥
केन भक्तेन पूजेयं कृता ते जगदीश्वर ।
तमहं ज्ञातुमिच्छामि द्रष्टुं च त्वत्प्रसादतः ॥ ७ ॥
एवमुक्तो नृपेणाऽथ वदति स्म विनायकः ।
भक्ताय काशीराजाय निजभक्तकृतार्हणाम् ॥ ८ ॥
॥ देव उवाच ॥
शृणु राजन् प्रवक्ष्यामि यत्पृष्टोऽहमिह त्वया ।
तदहं ते प्रवक्ष्यामि सङ्क्षेपेण नृपात्मज ॥ ९ ॥
दण्डकारण्यदेशीये पुरे नामलसंज्ञके ।
भृशुण्डिनाम्ना भक्तोऽभूद् भूतभव्यभविष्यवित् ॥ १० ॥
स्रष्टुं पातुं च संहर्तुं शक्तस्त्रैलोक्यमाशु यः ।
ब्रह्मा भवश्च विष्णुश्च नित्यं यद्दर्शनार्थिनः ॥ ११ ॥
सर्वकालं ममध्यानध्वस्तपापो जितेन्द्रियः ।
पुरा तपस्यतस्तस्य भ्रूमध्यान्निसृतः करः ॥ १२ ॥
भ्रूशुण्डीति ततः ख्यातस्त्रिषुलोकेषु सर्वदा ।
अतिभक्त्या मृत्युलोके सादृश्यं प्रापितो मम ॥ १३ ॥
अद्य शुक्लचतुर्थ्यां तु पूजयामास मां मुदा ।
घृतं दुग्धं दधि मधु पश्य मेऽङ्गात् स्रवन्नृप ॥ १४ ॥
भुक्तशेषमिदं चान्नं दृष्टं ते नृपसत्तम ।
॥ ब्रह्मोवाच ॥
तत ऊचे काशिराजो देवदेव जगत्पते ॥ १५ ॥
तमहं द्रष्टुमिच्छामि कथं सोऽत्रागमिष्यति ।
॥ विनायक उवाच ॥
गच्छ राजंस्त्वमद्यैव तस्य चाश्रममण्डलम् ॥ १६ ॥
सम्पूज्य प्रणिपत्यापि विवाहाय तमाह्वय ।
प्रार्थनीयः प्रयत्नेन वाच्यं च मद्वचोऽपि च ॥ १७ ॥
विनायको मम गृहमागतोऽस्ति यतो मुने ।
स चातितृप्तस्त्वत् कृतात् पूजनाद् भक्तितो मुने ॥ १८ ॥
सोऽपि त्वद्दर्शनाकाङ्क्षी तेनेह प्रेषिता वयम् ।
ममापि दर्शने काङ्क्षा महती पूजने तव ॥ १९ ॥
गृहं च सम्पदो मे त्वमागत्य सफलीकुरू ।
एवमुक्ते त्वया राजन् श्रुते च मम नामनि ॥ २० ॥
भ्रूशुण्डी मम भक्तः स तत्क्षणादागमिष्यति ।
॥ ब्रह्मोवाच ॥
एवमुक्तः स तेनाथ प्रस्थितः परिपूज्य तम् ॥ २१ ॥
तूणीर कार्मुकधरो हयमारूह्य शीघ्रगम् ।
नदीवनानि च गिरीनतिक्रम्य शनैर्ययौ ॥ २२ ॥
प्राप तस्याश्रमं राजाऽवरुरोह हयात्ततः ।
दृष्ट्वा मुनिं भ्रूशुण्डीं स प्रणिपातं चकार ह ॥ २३ ॥
तेनापि मानितः सोऽथ पुपूजे तमृषिं मुदा ।
पश्यति स्म महारण्यमुपविष्टस्तदाज्ञया ॥ २४ ॥
सरोवृक्षलतापुष्पैः फलै रम्यं तदाश्रमम् ।
कैलासो विष्णुलोकोऽथ सत्यलोको न तादृशः ॥ २५ ॥
वेदघोषैः शास्त्रघोषैर्गीतनृत्यैर्विराजितम् ।
अग्निहोत्रैश्च कासारैः पक्षिभिर्जलजैरपि ॥ २६ ॥
दृष्ट्वा तमाश्रमं राजा मुमुदे हृष्टमानसः ।
दण्डवत् प्रणिपत्याऽसौ तं मुनिं सर्वमब्रवीत् ॥ २७ ॥
विवाहकृत्यं तत्पूजामाज्ञां वैनायकीमपि ।
तस्मादेहि मम गृहमिति च प्रार्थयन्नृपः ॥ २८ ॥
॥ ऋषिः उवाच ॥
कस्त्वं वद महाराज कोऽसौ तेऽपि विनायकः ।
॥ नृप उवाच ॥
काशिराज इति ख्यातं मां विद्धि रविवंशजम् ॥ २९ ॥
कश्यपस्य सुतः सोऽपि दैवतं ते विनायकः ।
तं भोजयितुकामेन (भोक्तुकामेन मया) तव कीर्तिः श्रुता मया ॥ ३० ॥
चतुर्थ्यां पूजितः सम्यक् नानोपहारसञ्चयैः ।
ते तत्र दर्शितास्तेन तृप्तेन नगरे मम ॥ ३१ ॥
तेनोक्तं मम नाम्नैवायास्यति स मुनिर्नृप ।
अतोऽहमेव संयातः प्रार्थितुं त्वां महामुने ॥ ३२ ॥
तवापि दर्शनं मत्वा दुर्लभं चर्मचक्षुषाम् ।
॥ ब्रह्मोवाच ॥
एवमुक्तो नृपतिना भ्रूशुण्डिर्विस्मयान्वितः ॥ ३३ ॥
उवाच किमिदं सत्यमुत वाऽसत्यमेव च ।
योऽगोचरो वेदविदां वेदान्तानां च चेतसः ॥ ३४ ॥
स कथं त्वद्गृहे तिष्ठेदिति सन्दिद्यते मनः ।
त्रयस्त्रिंशत्कोटिदेवा दर्शनार्थं समागताः ॥ ३५ ॥
स कथं तव वाक्येन यामीत्युक्त्वा स्वमाश्रमम् ।
यदि तिष्ठति देवोऽसौ तव गेहे नराधिप ॥ ३६ ॥
स्वरूपं वद तस्याहं ततो यास्यामि ते गृहम् ।
॥ नृप उवाच ॥
अनन्तानि स्वरूपाणि गणितुं न क्षमो विधिः ॥ ३७ ॥
शेषो वा तस्य कोऽन्यो हि वक्तुमीशो भवेद्विज ।
अवतीर्णः साम्प्रतं स कश्यपस्य गृहे मुने ॥ ३८ ॥
विनायकेति नाम्नाऽपि विख्यातो भुवनत्रये ।
अत्यद्भुतेन रूपेण सप्तवर्षात्मकेन च ॥ ३९ ॥
अद्भुतानि च कर्माणि महान्ति जगदीश्वरः ।
अशक्तो यानि कर्तुं वै तानि तेन कृतानि च ॥ ४० ॥
स्वरूपं तेऽभिवक्ष्यामि येन रूपेण मे गृहे ।
वसते देवदेवोऽसौ ब्रह्मचारिस्वरूपतः ॥ ४१ ॥
अवतीर्णो यदा सोऽभूद् दिव्यकान्तिश्चतुर्भुजः ।
दिव्यमाल्याम्बरधरो दिव्यालङ्कारसंयुतः ॥ ४२ ॥
दिव्यायुधधरो धीमान् दिव्यगन्धानुलेपनः ।
प्रार्थितः कश्यपेनाऽसौ प्राकृतोऽभूत् तदैव सः ॥ ४३ ॥
॥ मुनिरूवाच ॥
नायं देवो मम ध्यानगोचरो राजसत्तम ।
यस्य प्रभावान् मे शुण्डा जाता देवर्षिदुर्लभा ॥ ४४ ॥
यत्र कुत्रापि यास्येऽहं स चेदाकारयिष्यति ।
॥ ब्रह्मोवाच ॥
एवं श्रुत्वा मुनिवचश्चिन्ताविष्टोऽब्रवीन्नृपः ॥ ४५ ॥
मम भाग्यमभाग्यं च महदेतदुपस्थितम् ।
त्वदाशया महाघोरान्पर्वतान् गहनानि च ॥ ४६ ॥
अतिक्रम्येह सम्प्राप्तः प्राप्तं त्वद्दर्शनं महत् ।
बलात्करो न मेऽत्रास्ति गन्तुं चैवालयं विभो ॥ ४७ ॥
ततो मुनिः करूणया नृपमूर्ध्नि करं ददौ ।
निमीलयाक्षिणी राजन्नित्युक्तः स तथाऽकरोत् ॥ ४८ ॥
उन्मील्य नयनेऽपश्यत् क्षणमात्रादसौ नृपः ।
गृहान्तर्गतमात्मानं पूर्ववत्तदनुग्रहात् ॥ ४९ ॥
विनायकाय तं सर्वं वृत्तान्तं समभाषत ।
दर्शनाद्धर्षसम्पन्नो नागतो दुःखसंयुतः ॥ ५० ॥
नागतस्तव वाक्येन मम यत्नान् मुनिस्तु सः ।
ब्राह्मणेषु बलात्कारो भस्म सर्वं करिष्यति ॥ ५१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नृपप्रत्यागमो
नाम षोडशोऽध्यायः ॥ १६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें