श्रीगणेशपुराणम् उपासनाखण्डम् द्वितीयोऽध्यायः
सोमकान्तस्य अङ्गेभ्य गलितकुष्ठरोगस्य उद्भवः, वन गन्तुं च विचार
॥ ऋषयः उचुः ॥
श्रीगणेशपुराणस्य महिमा यादृशो मुने ।
कथ्यतां कृपया शीघ्रं सोमकान्तप्रसङ्गतः ॥
श्रूयतामृषयः सर्वे सोमकान्तस्य दुष्कृतम् ।
अकस्मादभवत्तस्य गलत्कुष्ठोऽतिदुःखदः ॥ १ ॥
धर्मशीलस्य राज्ञोऽथ पूर्वकर्मविपाकतः ।
शुभं वाप्यशुभं कर्म न मुञ्चति नरं क्वचित् ॥ २ ॥
यस्यां यस्यामवस्थायां कृतं भवति कर्म यत् ।
तस्यां तस्यामवस्थायां भुज्यते प्राणिभिर्ध्रुवम् ॥ ३ ॥
दुःखसागरमग्नोऽभूदप्लवो जलधौ यथा ।
वेदनामलभद् बह्विं भुजङ्गेनेव दंशितः ॥ ४ ॥
नानाक्षतसमाकीर्णः स्त्रवद्रक्तस्ततस्ततः ।
पूयशोणितवान् राजा कृमिभिर्विह्वलीकृतः ।
अस्थिशेषोऽभवद्राजा यक्ष्मणेव समावृतः ॥ ५ ॥
चिन्तया व्याकुलीभूतः सर्वैन्द्रियरुजान्वितः ।
ततोऽमात्याञ्जगौ राजा मनः संरूद्ध्य यत्नतः ॥ ६ ॥
धिङ् मे राज्यञ्च रूपञ्च धिग्बलं जीवितं धनम् ।
केनेदं कर्मबीजेन व्यसनं समुपस्थितम् ॥ ७ ॥
कान्त्या सोमो जितो येन सोमकान्तस्ततोऽभवम् ।
येन मे साधवो दीनाः श्रोत्रिया आश्रमा अपि ॥ ८ ॥ (सन्तसन्यासिनोऽपि च)
पालिता पुत्रवज्जानपदा लोकास्तथा परे ।
येन मे निर्जिता बाणैः शत्रवो घोररूपिणः ॥ ९ ॥
येन मे सकला पृथ्वी कृता स्ववशवर्तिनी ।
सम्यगाराधितो देवः परमात्मा सदाशिवः ॥ १० ॥
दुष्टसङ्गमहीनेन चित्तनिग्रहकारिणा ।
येन मे वपुषा पूर्वमिष्टगन्धा निषेविताः ॥ ११ ॥
तदिदानीं पूतिगन्ध मतो मे जीवितं वृथा ।
अतोऽहङ्काननं यास्ये सर्वेषामभ्यनुज्ञया ॥ १२ ॥
हेमकण्ठं सुतं सर्वे बुद्धिविक्रमसंयुतम् ।
सिञ्चन्तु राज्यहेतोर्मे पालयन्तु पराक्रमैः ॥ १३ ॥
इदानीं न प्रदर्शिष्ये मुखं लोके कथञ्चन ।
न मे राज्यैर्नदारैर्वा जीवितेन श्रियाऽपि वा ॥ १४ ॥
प्रयोजनं महामात्याः करिष्ये स्वहितं वने ।
इत्युक्त्वा निपपातोर्व्यान्तरुर्वातहतो यथा ॥ १५ ॥
पूयशोणितधर्मौघैर्व्याप्तोऽसौ द्विजसत्तमाः ।
कोलाहलोमहानासीदमात्यानाञ्च योषिताम् ॥ १६ ॥
हाहाकारश्च लोकानां क्षणमासीत्सुदारुणः ।
वस्त्रप्रोञ्छनवातादैरौषधैः क्षिप्रकारिभिः ॥ १७ ॥
मन्त्रिमन्त्रप्रयोगैस्तं सचेतनमकारयन् ।
स्वस्थे जाते नृपे तस्मिन्नमात्या प्राब्रुवन्निदम् ॥ १८ ॥
॥ अमात्या ऊचुः ॥
तव प्रसादादमरेन्द्रतुल्यं भुक्तं सुखं सर्वजनेष्वसिद्धम् ।
कथं त्विदानीं त्वदृते वसामः कथञ्च जीवेम पशुघ्नतुल्याः ॥ १९ ॥
करोतु राज्यं तव सूनुरेकः प्रभूतकोशो बलवान् रिपुघ्नः ।
विहाय सर्वं सुखमाद्य राजन् ! सहैव यामस्तु वनाय गन्तुम् ॥ २० ॥
ततः सुधर्मा वचनं जगाद वने नृपं सेवितुमेकवीरा ।
व्रजे सहानेन प्रधानवर्या प्रशिष्ट राज्यं सह मे सुतेन ॥ २१ ॥
दुःखस्य भोक्ता न परोऽस्ति नैव सुखस्य वा पूर्वकृतस्य जन्तोः ।
यथा यथा कर्मफलं प्रसक्तं तदेव भोग्यं स्वयमेव तादृक् ॥ २२ ॥
मयाऽपि नानाविधभोगवत्या सुखेन राज्यं परिभुक्तमस्य ।
स्त्रीणां हि भर्ता गमनं सहैव परत्र लोके मुनिभिः प्रदिष्टम् ॥ २३ ॥
ततः पुत्रो हेमकण्ठो विनीतः शोकसङ्कुलः ।
उवाच तस्मिन्समये सोमकान्तमिदं वचः ॥ २४ ॥
॥ हेमकण्ठ उवाच ॥
न मे राज्येन दारैश्च प्राणैर्धनचयैरपि ।
त्वां विना नृपशार्दूलं कृत्यं नैवास्ति यत् क्वचित ॥ २५ ॥
विना स्नेहं यथा दीपो विना प्राणं यथा तनुः ।
वृथा राज्यं तथा राजंस्त्वां विना धर्मपालक ॥ २६ ॥
श्रुत्वा हृष्टमना राजा पुत्रं प्रोवाच धर्मतः ।
अमात्यानां सुधर्मायाः पुत्रस्य वचनामृतम् ॥ २७ ॥
पितुर्वाक्यरतोनित्यं श्रद्धया श्राद्धकृत्तथा ।
पिण्डदो यो गयायान्तु स पुत्रः पुत्र उच्यते ॥ २८ ॥
अतो नीत्या समायुक्तः कुरू राज्यं ममाज्ञया ।
अमात्ययुक्तः शाधि त्वं पुत्रवच्चाखिलाः प्रजाः ॥ २९ ॥
धर्मशास्त्रार्थतत्त्वज्ञो नीतिज्ञोऽखिलदोषकृत् ।
पितृनुद्धरते यस्तु पुत्रवान्पुत्र उच्यते ॥ ३० ॥
अहं वनं गमिष्यामि गलत्कुष्ठोऽतिगर्हितः ।
पत्न्या सुधर्मया सार्धमनुजानीहि सुव्रत ॥ ३१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तस्य अङ्गेभ्य
गलितकुष्ठरोगस्य उद्भवः, वन गन्तुं च विचार नाम द्वितीयोऽध्यायः ॥ २ ॥
इस अध्याय का हिन्दी भावार्थ देखने के लिये —
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें