श्रीगणेशपुराणे उपासनाखण्डे चतुर्दशोऽध्यायः
ब्रह्मचिन्तावर्णनं
॥ राजोवाच ॥
ततः किमकरोद् ब्रह्मा वीक्ष्याण्डानि सहस्रशः ।
कथञ्च सृष्टिमकरोदाज्ञां प्राप्य गजाननात् ॥ १ ॥
॥ भृगुरुवाच ॥
अभवद् गर्वसम्पन्नः स्वात्मन्येवं विचारयत् ।
वेद्मि शास्त्राणि वेदाँश्च पुराणान्यागमानपि ॥ २ ॥
ज्ञानविज्ञानसम्पन्नः शापानुग्रहशक्तिमान् ।
ब्रह्माण्डानि च दृष्टानि सृष्टीनां रचनास्तथा ॥ ३ ॥
इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।
इत्येवं सर्वसम्पन्ने सृष्टयर्थं कमलोद्भवे ॥ ४ ॥
विघ्ना नानाविधा भूप प्रादुरासन् सहस्रशः ।
तं वेष्टयित्वा ब्रह्माणं स्थिताः परमदारुणाः ॥ ५ ॥
यथा मत्ताः पुष्परसैः सरघा मधुजालकम् ।
त्रिनेत्राः पञ्चहस्ताश्च कूपास्याः सप्तपाणयः ॥ ६ ॥
त्र्यङ्घ्रयः पञ्चतुण्डाश्च सप्ततुण्डाः षडङ्घ्रयः ।
दशास्याः पञ्चपादाश्च तालदन्ता वृकोदराः ॥ ७ ॥
नानारूपा महासत्त्वाः सङ्ख्यातुं न च ते क्षमाः ।
चकम्पे द्रुहिणस्तेषां नानारावान् निशम्य तान् ॥ ८ ॥
केचित् तं मुष्टिभिर्जघ्नुर्नेमुश्च नुनुवुः परे ।
चतुःशिखासु सङ्गृह्य दोलयामासुरादरात् ॥ ९ ॥
चत्वार्यपि मुखान्यस्य जहसुस्तं तथा परे ।
निनिन्दुश्च प्रशंसाञ्च चक्रुः केचित् सिषेविरे ॥ १० ॥
मोचमायामासुरपरे बबन्धुरपरे पुनः ।
मोचितुं पुनरप्यन्ये विचकर्षुरितस्ततः ॥ ११ ॥
आलिलिङ्गुश्च तं केचिच्चुचुम्बुः शिशुवत् परे ।
अष्टश्मश्रुषु तं धृत्वा ननर्ते कोष्ठहस्तवान् ॥ १२ ॥
एवं स परवान् ब्रह्मा चिन्ताशोकसमन्वितः ।
अखर्वं सृष्टिगर्वं तं तत्याज हृदि सङ्गतम् ॥ १३ ॥
जगाम महतीं मूर्छां निराशः स्वस्य जीवने ।
मुहूर्तमात्रे तु गते सस्मार मनसा विभुम् ।
प्रार्थयामास कारुण्याद् रुदन्निव गजाननम् ॥ १४ ॥
॥ ब्रह्मोवाच ॥
न चायुष्यं स्वल्पं विविधजनने सक्तमनसो
न मे तत्त्वज्ञानं भवजलधितारं सुविमलम् ।
जनुर्भूमौ लब्ध्वा तव भजनतो यामि परमां
कदा भुक्तिं मुक्तिं निरुपमसुखां वाऽखिलगुरो ॥ १५ ॥
त्वत्कटाक्षामृतेनाक्तो भक्तः सीदति ते विभो ।
इयं लज्जा तवैवास्तां न मे मृत्युश्चिरायुषः ॥ १६ ॥
॥ भृगुरुवाच ॥
इत्यसौ प्रार्थयन्नेव शुश्राव गगनेरिताम् ।
गिरं तपस्वेति ततः प्रार्थयामास तां पुनः ॥ १७ ॥
अन्तर्हिताश्च ते विघ्नाः श्रुतायां नभसो गिरि ।
नानारूपा महावीर्या मुक्त्वा तं कमलासनम् ॥ १८ ॥
स मुक्तश्चिन्तयामास पद्मयोनिर्महायशाः ।
विना मन्त्रं विना स्थानं कथं तप्स्ये तपो महत् ॥ १९ ॥
इति व्याकुल चित्तोऽसौ बभ्राम जलमध्यतः ।
अनन्यमनसा ध्यायन् गजाननमनामयम् ॥ २० ॥
मुकुटेन विराजन्तं मुक्तारत्नयुजा शुभम् ।
रक्तचन्दनलिप्ताङ्गं सिन्दूरारुणमस्तकम् ॥ २१ ॥
मुक्तादामलसत्कण्ठं सर्पयज्ञोपवीतिनम् ।
अनर्घ्यरत्नघटितबाहुभूषणभूषितम् ॥ २२ ॥
स्फुरन्मरकतभ्राजदङ्गुलीयकशोभितम् ।
महाहिवेष्टित बृहन्नाभिशोभिमहोदरम् ॥ २३ ॥
विचित्ररत्नखचितकटिसूत्रविराजितम् ।
सुवर्णसूत्रविलसद्रक्तवस्त्रसमावृतम् ॥ २४ ॥
भालचन्द्रं लसद्दन्त शोभाराजत्करं परम् ।
एवं ध्यायति तस्मिँस्तु पुनरेव नभोवचः ॥ २५ ॥
उदियाय वटं पश्य वटं पश्येति सुन्दरम् ।
श्रुत्वेति वचनं ब्रह्मा पुनश्चिन्तामवाप सः ॥ २६ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मचिन्तावर्णनं नाम
चतुर्दशोऽध्यायः ॥ १४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें