श्रीगणेशपुराणे क्रीडाखण्डे एकचत्वारिंशादधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकचत्वारिंशादधिकशततमोऽध्यायः

गणेशगीता - "`कर्मसंन्यास'' योगोनाम चतुर्थोऽध्यायः
॥ वरेण्य उवाच ॥

संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया ।
उभयोर्निश्चितं त्वेकं श्रेयो यद् वद मे प्रभो ॥ १ ॥
॥ श्रीगजानन उवाच ॥
क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने ।
तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥ २ ॥

द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किञ्चन ।
मुच्यते बन्धनात् सद्यो नित्यं संन्यासवान् सुखम् ॥ ३ ॥
वदन्ति भिन्नफलकौ कर्मणस्त्यागसङ्ग्रहौ ।
मूढाल्पज्ञानतश्चैकं संयुञ्जीत विचक्षणः ॥ ४ ॥ (मूढाल्पज्ञानस्तयोरेकं)
यदेव प्राप्यते त्यागात्तदेव योगतः फलम् ।
सङ्ग्रहं कर्मणो योगं यो विन्दति स विन्दति ॥ ५ ॥
केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।
कुर्वन्ननिच्छया कर्मयोगी ब्रह्मैव जायते ॥ ६ ॥
निर्मलो यतचित्तात्मा जितखो योगतत्परः ।
आत्मानं सर्वभूतस्थं पश्यन् कुर्वन् न लिप्यते ॥ ७ ॥
तत्त्वविद् योगयुक्तात्मा करोमीति न मन्यते ।
एकादशानीन्द्रियाणि कुर्वन्ति कर्मसङ्ख्यया ॥ ८ ॥
तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः ।
न लिप्यते पुण्यपापैरभ्रैर्भानुर्यथाभ्रगः ॥ ९ ॥
कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा ।
त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये ॥ १० ॥
योगहीनो नरः कर्म फलेहया करोत्यलम् ।
बद्ध्यते कर्मबीजैः स ततो दुःखं समश्नुते ॥ ११ ॥
मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् ।
न कुर्वन् कारयन् वापि नन्दन् स्वभ्रे सुपत्तने ॥ १२ ॥
न क्रिया न च कर्तृत्वं कस्यचित्सृज्यते मया ।
न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम् ॥ १३ ॥
कस्यचित् पुण्यपापानि न स्पृशामि विभुर्नृप ।
ज्ञानमूढा विमुह्यन्ति मोहेनावृतबुद्धयः ॥ १४ ॥
विवेकेनात्मनो ज्ञानं येषां नाशितमात्मना ।
तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥ १५ ॥
मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः ।
अपुनर्भवमायान्ति विज्ञाननाशितैनसः ॥ १६ ॥
ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु ।
समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि ॥ १७ ॥
वश्यःस्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।
यतोऽदोषं ब्रह्मसमं तस्मात् तैर्विषयीकृतम् ॥ १८ ॥ (तैस्तद्वशीकृतम्)
प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।
ब्रह्माश्रिता असम्मूढा ब्रह्मज्ञाः समबुद्धयः ॥ १९ ॥
॥ वरेण्य उवाच ॥
किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।
भगवन् कृपया तन्मे वद विद्याविशारद ॥ २० ॥
॥ गणेश उवाच ॥
आनन्दमश्नुते सक्तः स्वात्मारामो निजात्मनि ॥
अविनाशि सुखं तद्धि न सुखं विषयादिषु ॥ २१ ॥
विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः ॥
उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ॥ २२ ॥
कारणे सति कामस्य क्रोधस्य सहते च यः ॥
तौ जेतुं वर्ष्मविरहात् स सुखं चिरमश्नुते ॥ २३ ॥
अन्तर्निष्ठोऽन्तः प्रकाशोऽन्तः सुखोऽन्तोरतिर्लभेत् ॥
असन्दिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥ २४ ॥
जेतारः षड् रिपूणां ये शमिनो दमिनस्तथा ॥
तेषां समं ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥ २५ ॥
आसनेषु समासीनस्त्यक्त्वेमान् विषयान् बहिः ॥
संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥ २६ ॥
प्राणायामं तु संरोधं प्राणापानसमुद्भवम् ॥
वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ॥ २७ ॥
प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम् ॥
दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ॥ २८ ॥
चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः ॥
षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥ २९ ॥
सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा ॥
नयन्ति प्राणिनस्तद्वत् प्राणापानौ सुसाधयेत् ॥ ३० ॥
पीडयन्ति मृगांस्ते न लोकान् वश्यं गता नृप ॥
दहत्येनस्तथा वायः संस्तब्धो न च तत्तनुम् ॥ ३१ ॥
यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् ॥
तथा तथा वशीकुर्यात् प्राणापानौ हि योगवित् ॥ ३२ ॥
पूरकं कुम्भकं चैव रेचकं च ततोभ्यसेत् ॥
अतीतानागतज्ञानी ततः स्याज्जगतीतले ॥ ३३ ॥
प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता ॥
योगस्तु धारणे द्वे स्याद् योगीशस्ते सदाऽभ्यसेत् ॥ ३४ ॥
एवं यः कुरुते राजं त्रिकालज्ञः स जायते ॥
अनायासेन तस्य स्याद् वश्यं लोकत्रयं नृप ॥ ३५ ॥
ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि ॥
एवं योगश्च संन्यासः समानफलदायिनौ ॥ ३६ ॥
जन्तूनां हितकर्तारं कर्मणां फलदायिनम् ॥
मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥ ३७ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``कर्मसंन्यास'' योगोनाम चतुर्थोऽध्यायः ॥ ४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कर्मसंन्यासयोगोनाम एकचत्वारिंशादधिकशततमोऽध्यायः ॥ १४१ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-141

कोई टिप्पणी नहीं:

123