श्रीगणेशपुराणे क्रीडाखण्डे द्वेचत्वारिंशादधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्वेचत्वारिंशादधिकशततमोऽध्यायः

गणेशगीता - योगावृत्ति प्रशंसनायोगोनाम पञ्चमोऽध्याय
॥ श्री गजानन उवाच ॥

श्रौतस्मार्त्तानि कर्माणि फलं नेच्छन् समाचरेत् ।
शस्तः स योगी राजेन्द्र अक्रियाद् योगमाश्रितात् ॥ १ ॥
योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् ।
सिद्धयोगस्य संसिद्ध्यै हेतू शमदमौ मतौ ॥ २ ॥

इन्द्रियार्थांश्च सङ्कल्प्य कुर्वन् स्वस्य रिपुर्भवेत् ।
एताननिच्छन् यः कुर्वन् सिद्धिं योगी स सिद्ध्यति ॥ ३ ॥
सुहृत्त्वे च रिपुत्वे च उद्धारे चैव बन्धने ।
आत्मनैवात्मनो ह्यात्माऽनात्मा भवति कश्चन ॥ ४ ॥
मानेऽपमाने दुःखे च सुखे सुहृदि साधुषु ।
मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने ॥ ५ ॥
समो जितात्मा विज्ञानी ज्ञानीन्द्रिय जयावहः ।
अभ्यसेत् सततं योगं तदा युक्ततमो हि सः ॥ ६ ॥
तप्तः श्रान्तो व्याकुलो वा क्षुधितोऽव्यग्रचित्तकः ।
कालेऽनिशीतेऽत्युष्णे वाऽनिलाग्न्यम्बुसमाकुले ॥ ७ ॥
सध्वनावतिजीर्णे गोस्थाने साग्नौ जलान्तिके ।
कूपकूले श्मशाने च नद्यां भिन्नौ च मर्मरे ॥ ८ ॥
चैत्ये सवल्मिके देशे पिशाचादिसमावृते ।
नाभ्यसेद् योगविद् योगं योगी ध्यानपरायणः ॥ ९ ॥
स्मृतिलोपश्च मूकत्वं बाधिर्यमन्धता ज्वरः ।
जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः ॥ १० ॥
एते दोषाः परित्याज्या योगाभ्यासेनशालिना ।
अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ॥ ११ ॥
नातिभुञ्जन् सदा योगी नाभुञ्जन्नातिनिद्रितः ।
नातिजाग्रत सिद्धिमेति भूप योगं सदाऽभ्यसन् ॥ १२ ॥
सङ्कल्पजांस्त्यजेत् कामान् नियताहारजागरः ।
नियम्य खगणं बुद्धया विरमेत शनैः शनैः ॥ १३ ॥
ततस्ततः कृषदेतद् यत्र यत्रानुगच्छति ।
धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः ॥ १४ ॥
एवं कुर्वन् सदा योगी परां निर्वृतिमृच्छति ।
विश्वस्मिन् निजमात्मानं विश्वं च स्वात्मनीक्षते ॥ १५ ॥
योगेन यो मामुपैति तमुपैम्यहमादरात् ।
मोचयामि न मुञ्चामि तमहं मां न स त्यजेत् ॥ १६ ॥
सुखे दुःखेतरे द्वेषे क्षुधि तोषे समस्तृषि ।
आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ॥ १७ ॥
जीवन्मुक्तः स योगीन्द्रः केवलं मयि सङ्गतः ।
ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्त्रये ॥ १८ ॥
॥ वरेण्य उवाच ॥
द्विविधोऽपि हि योगोऽयमसम्भाव्यो हि मे मतः ।
यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ॥ १९ ॥
॥ श्री गजानन उवाच ॥
यो निग्रहं दुर्ग्रहस्य मनसा सम्प्रकल्पयेत् ।
घटीयन्त्रसमादस्मान्मुक्तिः संसृतिचक्रकात् ॥ २० ॥
विषयैः क्रकचैरेतत् संसृष्टं चक्रकं दृढम् ।
जनश्छेत्तुं न शक्नोति कर्मकीलैः सुसंवृतम् ॥ २१ ॥
अतिदुःखं च वैराग्यं भोगाद् वैतृष्ण्यमेव च ।
गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी ॥ २२ ॥
अभ्यासाद् वा वशीकुर्यान् मनो योगस्य सिद्धये ।
वरेण्य दुर्लभो योगो विनाऽस्य मनसो जयात् ॥ २३ ॥
॥ वरेण्य उवाच ॥
योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् ।
विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् ॥ २४ ॥
॥ श्री गजानन उवाच ॥
दिव्यदेहधरो योगात् भ्रष्टः स्वर्भोगमुत्तमम् ।
भुक्त्वा योगिकुले जन्म लभेद् बुद्धिमतां कुले ॥ २५ ॥
पुनर्योगी भवत्येष संस्कारात् पूर्वकर्मजात् ।
न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते ॥ २६ ॥
ज्ञाननिष्ठः तपोनिष्ठः कर्मनिष्ठो नराधिप ।
श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान् मयि तेषु यः ॥ २७ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे योगावृत्ति प्रशंसनयोगोनाम पञ्चमोऽध्याय ॥ ५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे प्रशंसनयोगोनाम द्वेचत्वारिंशादधिकशततमोऽध्यायः ॥ १४२ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-142

कोई टिप्पणी नहीं:

123