श्रीगणेशपुराणे क्रीडाखण्डे अष्टचत्वारिंशादधिकशततमोऽध्यायः
गणेशगीता - त्रिविधवस्तुनिरूपणन्नामैकादशोऽध्यायः
॥ श्री गजानन उवाच ॥
तपोऽपि त्रिविधं राजन् कायिकादिप्रभेदतः ।
ऋजुतार्जवशौचाश्च ब्रह्मचर्यमहिंसनम् ॥ १ ॥
गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ॥ २ ॥
मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम ॥ ३ ॥
अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईदृशम् ॥ ४ ॥
अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् ।
रुढ्यैसत्कारपूजार्थं सदम्भं राजसं तपः ॥ ५ ॥ (विधिवाक्यप्रमाणार्थं सदम्भं राजसं
तपः)
तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते ॥ ६ ॥
विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद् दानं तत् सात्त्विकं मतम् ॥ ७ ॥
उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः ।
क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते ॥ ८ ॥
अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।
असत्काराच्च यद् दत्तं तद्दानं तामसं स्मृतम् ॥ ९ ॥
ज्ञानं च त्रिविधं राजन् शृणुष्व स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसङ्गतः ॥ १० ॥
नानाविधेषु भूतेषु मामेकं वीक्ष्यते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप ॥ ११ ॥
तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥ १२ ॥
हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदल्पार्थविषयं तामसं ज्ञानमुच्यते ॥ १३ ॥
भेदतस्त्रिविधं कर्म विद्धि राजन् मयेरितम् ।
कामना द्वेषदम्भैर्यद्रहितं नित्यकर्मयत् ॥ १४ ॥
कृत विना फलेच्छां यत् कर्म सात्त्विकमुच्यते ।
यद् बहुक्लेशतः कर्म कृतं यच्च फलेच्छया ॥ १५ ॥
क्रियमाणं नृभिर्दम्भात् कर्म राजसमुच्यते ।
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ॥ १६ ॥
अज्ञानात् क्रियमाणं यत्कर्म तामसमीरितम् ।
कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ॥ १७ ॥
धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः ।
अहङ्कारविमुक्तो यः स कर्ता सात्त्विको नृप ॥ १८ ॥
कुर्वन् हर्षं च शोकं च हिंसा फलस्पृहां च यः ।
अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ॥ १९ ॥
प्रमादाज्ञानसहितः परोच्छेदपरः शठः ।
अलसस्तर्कवान् यस्तु कर्ताऽसौ तामसो मतः ॥ २० ॥
सुखं च त्रिविधं राजन् दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥ २१ ॥
विषवद् भासते पूर्वं दुःखस्यान्तकरं च यत् ।
इच्छयमानं तथा वृत्या यदन्तेऽमृतवद् भवेत् ॥ २२ ॥
प्रसादात् स्वस्य बुद्धेर्यत् सात्त्विकं सुखमीरितम् ।
विषयाणां तु यो भोगो भासतेऽमृतवत् पुरा ॥ २३ ॥
हालाहालमिवान्ते यद् राजसं सुखमीरितम् ।
तन्द्रिप्रमादसम्भूतमालस्यप्रभवं च यत् ॥ २४ ॥
सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् ।
न तदस्ति यदेतैर्यन् मुक्तं स्यात् त्रिविधैर्गुणैः ॥ २५ ॥
राजन् ब्रह्मापि त्रिविधमोन्तत् सदिति भेदतः ।
त्रिलोकेषु त्रिधाभूतमखिलं भूप वर्तते ॥ २६ ॥
ब्रह्मक्षत्रियविट्शुद्राः स्वभावाद् भिन्नकर्मिणः ।
तानि तेषां तु कर्माणि सङ्क्षेपात्तेऽधुना वदे ॥ २७ ॥
अन्तर्बाह्येन्द्रियाणां च वशत्व मार्जवं क्षमा ।
नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥ २८ ॥
वेदशास्त्रपुराणानां स्मृतिनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ॥ २९ ॥
दार्ढ्यं शौर्यं च दाक्ष्यं च युद्धे पृष्ठप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥ ३० ॥
प्रभुता मन औन्नत्यं सुनीतिर्लोकपालनम् ।
पञ्चकर्माधिकारित्वं क्षत्रकर्म समीरितम् ॥ ३१ ॥
नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम् ॥ ३२ ॥
दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् ।
एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥ ३३ ॥
स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥ ३४ ॥
इति ते कथितो राजन् प्रसादाद् योग उत्तमः ।
साङ्गोपाङ्गः सविस्तारोऽनादिसिद्धौ मया प्रिय ॥ ३५ ॥
युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप ।
गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥ ३६ ॥
॥ क उवाच ॥
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम् ॥ ३७ ॥
त्यक्त्वा राज्यं कुटुम्बं च कातारं प्रययौ रयात् ।
उपदिष्टं यथायोगमास्थाय मुक्तिमाप्तवान् ॥
इमं योगोत्तमं योगं शृणोति श्रद्धया तु यः ॥ ३८ ॥
सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥
य इमं श्रावयेद् योगं कृत्वाऽस्यार्थं सुबुद्धिमान् ॥ ३९ ॥
यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥
यो गीतां सम्यगभ्यस्य ज्ञात्वा चार्थं गुरोर्मुखात् ॥ ४० ॥
कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ॥ ४१ ॥
ब्रह्मीभूतस्य तस्यापि दर्शनान् मुच्यते नरः ॥
न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः ॥ ४२ ॥
न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहाङ्गकैः ।
पुराणश्रवणैर्नैव न शास्त्रैः साधुचिन्तनैः ॥ ४३ ॥
प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ।
ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगमोऽपि यः ॥ ४४ ॥
चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥
स्त्रीहिंसा गोवधादीनां कर्तारो ये च पापिनः ॥ ४५ ॥
ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥
यः पठेत् प्रयतो नित्यं स गणेशो न संशयः ॥ ४६ ॥
चतुर्थ्यां यः पठेद् भक्त्या सोऽपि मोक्षाय कल्पते ॥
तत्तत्क्षेत्रं समासाद्य स्नात्वाऽभ्यर्च्य गजाननम् ॥ ४७ ॥
सकृद् गीतां पठेद् भक्त्या ब्रह्मभूयाय कल्पते ॥
भाद्रेमासे सिते पक्षे चतुर्थ्यां भक्तिमान् नरः ॥ ४८ ॥
कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ॥
सवाहनां सायुधां च समभ्यर्च यथाविधि ॥ ४९ ॥
यः पठेत् सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥
ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम् ॥ ५० ॥
पुत्रान् पौत्रान् धनं धान्यं पशुरत्नादिसम्पदः ॥
विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात् ॥ ५१ ॥
कामानन्याँल्लभेत् कामी मुक्तिमन्ते प्रयान्ति ते ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते
श्रीगजाननवरेण्यसंवादे गुणत्रयकृतियोगोनामैकादशोऽध्यायः ११ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गुणत्रयकृतियोगोनाम
अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें