श्रीगणेशपुराणे उपासनाखण्डे चत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चत्वारिंशोऽध्यायः
स्तोत्र निरूपणं

॥ ब्रह्मोवाच ॥

आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।
पराक्रमं दैत्यकृतं श्रुत्वा देव मुखात् पुरा ॥ १ ॥
ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।
दैत्यस्य मानसौ पुत्रौ प्रचण्डश्चण्ड एव च ॥ २ ॥
प्रचण्डं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।
ततश्चण्डं च वैकुण्ठे चकार स्वामिनं स्वयम् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनचत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनचत्वारिंशोऽध्यायः
इन्द्रपराजयः

॥ व्यास उवाच ॥

ततः किमकरोद् ब्रह्मं त्रिपुरो वरदर्पितः ।
तत्सर्वं कौतुकं मह्यं वक्तुमर्हस्यशेषतः ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः काश्मीरपाषाणभवां मूर्तिं गजाननीम् ।
स्थापयामास विधिवद् ब्रह्मणैर्मन्त्रकौविदैः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टत्रिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टत्रिंशत्तमोऽध्यायः
वरप्रदानं

॥ व्यास उवाच ॥

ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।
तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज ॥ १ ॥
॥ ब्रहोवाच ॥
ततः सर्वे मुनिगणा मानयामासुरादरात् ।
ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तत्रिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तत्रिंशत्तमोऽध्यायः
वरदाख्यानं

॥ ब्रह्मोवाचः ॥

भ्रमन्मुनिर्ददर्शाग्रे वनं पुष्पकसंज्ञितम् ।
नानाद्रुमलताकीर्णं पुष्पप्रकारशोभितम् ॥ १ ॥
शोभितं निर्झरजलैर्निर्जरैर्मुनिसत्तमैः ।
ननाम तान् गृत्समदो न्यवसच्च तदाज्ञया ॥ २ ॥
तत्र स्नात्वा जपं चक्रे पादाङ्गुष्ठाग्रनिर्भरः(धिष्ठितः) ।
स्थिरेण मनसा ध्यायन् देवं विघ्नेश्वरं विभुम् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे षट्त्रिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे षट्त्रिंशत्तमोऽध्यायः
गृत्समदोपाख्यानं

॥ व्यास उवाच ॥
श्रुतं गणेशतीर्थस्य माहात्म्य कमलासन ।
रूक्माङ्गदस्य चरितं कौण्डिन्य पुरवासिनाम् ॥ १ ॥
तथापि ब्रूहि मे ब्रह्मन् मुकुन्दाचरितं शुभम् ।

श्रीगणेशपुराणे उपासनाखण्डे पञ्चत्रिशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे पञ्चत्रिशत्तमोऽध्यायः
कादम्बपुर गत वर्णनं

॥ व्यास उवाच ॥

देवर्षौ तु गते तस्मिन्नृपः किमकरोत् तदा ।
रूक्माङ्गदो मे कथय कथामेतां मनोरमाम् ॥ १ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुस्त्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चतुस्त्रिंशोऽध्यायः
चिन्तामणितीर्थ वर्णनं

॥ नारद उवाच ॥

कदम्बवृक्षस्य तले निधाय नासाग्रदृष्टिं परमासने सः ।
मनो निरूध्याऽथ जजाप मन्त्रं षडक्षरं जम्भरिपुर्नरेन्द्र ॥ १ ॥
सहस्रवर्षाणि गतानि तस्य मरूत्पतेर्मारुतभक्षणस्य ।
वल्मीकगुल्मानि शरीरदेशे जातानि वै भूधरवत् स्थिरस्य ॥ २ ॥
ततः प्रसन्नो भगवान् गणेशो यः सर्वगः सर्वविदुग्रतेजाः ।
स्वतेजसा वह्निशशीनतेजांस्याच्छादयन् सर्व विलोचनानि ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रयस्त्रिशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे त्रयस्त्रिशतितमोऽध्यायः
षडक्षरमन्त्र प्रभावात् इन्द्रस्य दिव्यदेहधारणमं

॥ नारद उवाच ॥

ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो ।
वयं हि सहितास्तत्र नारदेन सुरर्षिणा ॥ १ ॥
तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।
उपायस्तेन कथितो वरोदत्तस्तवापि च ॥ २ ॥
दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।
तत्र प्रतिविधिं सम्यक् कुर्वन्ति तन्निरर्थकम् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्वात्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे द्वात्रिंशोऽध्यायः

मन्त्रकथनं
॥ नारद उवाच ॥
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पति पुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान् ॥ १ ॥
तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम् ॥ २ ॥
सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद् देवास्तत्सङ्गात् सा शिलाऽभवत् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकत्रिंशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकत्रिंशतितमोऽध्यायः

शक्रशापवर्णनं
॥ रुक्माङ्गद उवाच ॥
आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।
वद मे सकलं तं तु जिज्ञासा महती मम ॥ १ ॥
॥ नारद उवाच ॥
नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ ।
आकार्य निजपत्नीं तां देहि पादोदकं मम ॥ २ ॥
किमर्थ नागताऽद्य त्वं सम्मुखं मम पूर्ववत् ।
नानीतमासनं कस्मात्कथं चारु न भाषसे ॥ ३ ॥

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...