श्रीगणेशपुराणे क्रीडाखण्डे षट्चत्वारिंशादधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षट्चत्वारिंशादधिकशततमोऽध्यायः

गणेशगीता - "क्षेत्रक्षेत्रज्ञविवेकयोगो'' नाम नवमोऽध्यायः
॥ वरेण्य उवाच ॥

अनन्यभावस्त्वां सम्यक् मूर्तिमन्तमुपासते ।
योऽक्षरं परम व्यक्तं तयोः कस्ते मतोऽधिकः ॥ १ ॥
असि त्वं सर्ववित् साक्षी भूतभावन ईश्वरः ।
अतस्त्वां परिपृच्छामि वद मे कृपया विभो ॥ २ ॥

॥ श्री गजानन उवाच ॥
यो मां मूर्तिधरं भक्त्या मद्भक्तः परिसेवते ।
स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ॥ ३ ॥
खगणं स्ववशं कृत्वाऽखिलभूतहितार्थकृत् ।
ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम् ॥ ४ ॥
सोऽपि मामेत्य निर्देश्यं मत्परो य उपासते ।
संसारसागरादस्मादुद्धरामि तमप्यहम् ॥ ५ ॥
अव्यक्तोपासनादुःखमधिकं तेन लभ्यते ।
व्यक्तस्योपासनासाध्यं तदेवाव्यक्तभक्तितः ॥ ६ ॥
भक्तिश्चैवादरश्चात्र कारणं परमं मम ।
सर्वेषां विदुषां श्रेष्ठो ह्य किञ्चिज्ज्ञोऽपि भक्तिमान् ॥ ७ ॥
भजन् भक्त्या विहीनो यः स चाण्डालोऽभिधीयते ।
चाण्डालोऽपि भजन् भक्त्या ब्राह्मणेभ्योऽधिको मम ॥ ८ ॥
शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः ।
भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ॥ ९ ॥
अतो भक्त्या मयि मनो निधेहि बुद्धिमेव च ।
भक्त्या यजस्व मां राजँस्ततो मामेव यास्यसि ॥ १० ॥
असमर्थोऽर्पितुं स्वान्तं ध्रुवं मयि नराधिप ।
अभ्यासेन च योगेन ततो गन्तुं यतस्व माम् ॥ ११ ॥
तत्रापि त्वमशक्तश्चेत् कुरु कर्म मदर्पणम् ।
ममानुग्रहतश्चैवं परां निर्वृतिमेष्यसि ॥ १२ ॥
अथैवमप्यनुष्ठातुं न शक्नोषि तदा कुरु ।
प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ॥ १३ ॥
श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं वरं मतम् ।
ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ॥ १४ ॥
निरहं ममताबुद्धिरद्वेषः करुणःसमः ।
लाभालाभे सुखेदुःखे मानामाने स मे प्रियः ॥ १५ ॥
यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।
उद्वेगभीकोपमुद्भी रहितो यः स मे प्रियः ॥ १६ ॥
रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् ।
मौनी निश्चलधीर्भक्तो ह्यसङ्गः स च मे प्रियः ॥ १७ ॥
संशीलयति यश्चैनमुपदेशं मया कृतम् ।
स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ॥ १८ ॥
अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ न च तुष्यति ।
क्षेत्रतज्ज्ञौ च यो वेत्ति स मे प्रियतमो भवेत् ॥ १९ ॥
॥ वरेण्य उवाच ॥
किं क्षेत्रं कश्चतद्वेत्ति किं तज्ज्ञानं गजानन ।
एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ॥ २० ॥
॥ श्रीगणेश उवाच ॥
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ।
अहङ्कारो मनो बुद्धिः पञ्चज्ञानेद्रियाणि च ।
इच्छाऽव्यक्तं धृतिद्वेषो सुखदुःखे तथैव च ॥ २१ ॥
चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ।
तज्ज्ञं त्वं विद्धि मां भूप सर्वान्न्तर्यामिणं विभुम् ॥ २२ ॥
अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ।
आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः ॥ २३ ॥
शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ।
समदृष्टीर्दृढा भक्तिरेकान्तित्वं शमो दमः ॥ २४ ॥
एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ।
तज्ज्ञानविषयं राजन् ब्रवीमि त्वं शृणुष्व मे ॥ २५ ॥
यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ।
यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् ॥ २६ ॥
अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् ।
विश्वभृच्चाखिलव्यापि एकं नानेव भासते ॥ २७ ॥
बाह्याभ्यन्तरतः पूर्णमसङ्गं तमसः परम् ।
दुर्ज्ञेयं चाति सूक्ष्मत्वाद् दीप्तानामपि भासकम् ॥ २८ ॥
ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ।
एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः ॥ २९ ॥
गुणान्प्रकृतिजान् भुङ्क्ते पुरुषः प्रकृतेः परः ।
गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् ॥ ३० ॥
यदा प्रकाशः क्षान्तिश्च वृद्धे सत्त्वं तदाऽधिकम् ।
लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः ॥ ३१ ॥
मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ।
सत्त्वाधिकः सुखं ज्ञानं कर्मसङ्गो रजोधिकः ॥ ३२ ॥
तमोधिकश्च लभते निद्रालस्यं सुखेतरत् ।
एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतिः ॥ ३३ ॥
प्रयान्ति मानवा राजंस्तस्मात् सत्त्वयुतो भव ।
ततश्च सर्वभावेन भज त्वं मां नरेश्वर ॥ ३४ ॥
भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ।
अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् ॥ ३५ ॥
विदुषी ब्राह्मणे तेजो विद्धि तन्मामकं नृप ।
अहमेवाखिलं विश्वं सृजामिविसृजामिच ॥ ३६ ॥
ओषधीस्तेजसा सर्वा विश्वं चाप्याययाम्यहम् ।
सर्वेन्द्रियाण्यधिष्ठाय जाठरञ्च धनञ्जयम् ॥ ३७ ॥
भुनज्मिचाखिलान् भोगान् पुण्यपापविवर्जितः ।
अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः ॥ ३८ ॥
इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ।
येन येन हि रूपेण जनो मां पर्युपासते ॥ ३९ ॥
तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ।
इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् ॥ ४० ॥
अखिलं भूपते सम्यगुपपन्नाय पृच्छते ॥ ४१ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतर्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``क्षेत्रक्षेत्रज्ञविवेकयोगो'' नाम नवमोऽध्यायः ॥ ९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे क्षेत्रक्षेत्रज्ञविवेकयोगोनाम षट्चत्वारिंशादधिकशततमोऽध्यायः ॥ १४६ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-146

कोई टिप्पणी नहीं:

123