श्रीगणेशपुराणे क्रीडाखण्डे एकपञ्चाशदधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकपञ्चाशदधिकशततमोऽध्यायः

सोमकान्तविमानप्राप्ति वर्णनं
॥ सूत उवाच ॥

एवं श्रुत्वा कथां नित्यं सोमकान्तो मुनीश्वरात् ।
शुष्काम्रमूले तत्पुण्यं न्यक्षिपज्जलतो नृपः ॥ १ ॥
गते संवत्सरे चूतः पल्लवैः कुसुमैः फलैः ।
शुशुभेऽतीवरुचिरः पुराणश्रुतिपुण्यतः ॥ २ ॥

सोमकान्तो दिव्यकान्तिस्त्यक्त्वा कुष्ठभवां रुजम् ।
अक्षतश्चाभवत् पूतिगन्धं त्यक्त्वा सुगन्धवान् ॥ ३ ॥
निःखेदः सुरभेर्गन्धाद् दशदिक्षु प्रसारिणः ।
दिव्यदेहं सूर्यकान्तिं कोटिचन्द्रनिभं नृपम् ॥ ४ ॥
दृष्ट्वा विसिस्मिरे लोकाः कथमीदृक् च तादृशः ॥
गणेशाख्यपुराणस्य महिम्ना दोषहारिणा ॥ ५ ॥
॥ भृगुरुवाच ॥
सिद्धिस्ते नृपशार्दूल पुराणश्रवणादभूत् ।
व्रजेदानीं निजं पुत्रं सामात्यं जनमेव च ॥ ६ ॥
चिरोत्कण्ठं वर्षमध्ये दृष्ट्वा हर्षमवाप्स्यसि ॥
॥ सूत उवाच ॥
एवमाकण्यं तद्वाक्यं पादयोर्न्यपतन्मुनेः ॥ ७ ॥
आनन्दार्णवमग्नः स सोमकान्तोऽवदद् भृगुम् ।
॥ राजोवाच ॥
अद्भुतस्तपसस्तेऽद्य महिमैक्षि मया मुने ॥ ८ ॥
पुराणश्रवणस्यापि येनाहं पतितोऽपि च ।
गलत्कुष्ठो दिव्यदेहो जातो माता पिता मम ॥ ९ ॥
अस्य देहस्य निर्माता त्वमेव मुनिसत्तम ।
नीरसश्चूतवृक्षोऽपि फलपुष्पयुतोऽभवत् ॥ १० ॥
त्यक्तुं नेच्छाम्यतोऽहं त्वां किं मे पुत्रजनैर्भवेत् ।
एवं निशम्य तद्वाक्यं भृगुः पुनरथाब्रवीत् ॥ ११ ॥
॥ भृगुरुवाच ॥
जन्मान्तरीयपुण्येन पुराणश्रवणं तव ।
सञ्जातं मन्मुखाद्धन्यं दुरितं येन तेऽनशत् ॥ १२ ॥
गणेशस्य पुराणस्य महिमा केन वर्ण्यते ।
न मां विस्मर गच्छ त्वं जनेश नगरं निजम् ॥ १३ ॥
एवं तयोः संवदतोस्तेजसो ज्वलदद्भुतम् ।
विमानं ददृशे ताभ्यां सूर्यकोटिनिभं महत् ॥ १४ ॥
॥ भृगुरुवाच ॥
त्वदर्थं यानमायातमिदं नृप महाद्भुतम् ।
इदमारुह्य गच्छ त्वं गणनाथस्य सन्निधिम् ॥ १५ ॥
न प्राप्नुवन्त्यनुष्ठानाद्विमानं यन्मुनीश्वराः ।
तत्पुराणश्रवाद् राजँस्त्वया प्राप्तं गणेश्वरात् ॥ १६ ॥
विमानं वदतोरेवं भूमण्डलमगात्क्षणात् ।
विनायकगणैर्युक्तं चतुर्बाहुविराजितैः ॥ १७ ॥
मुकुटाङ्गदहारादि भूषणैरूप शोभितैः ।
दिव्यचन्दनवस्त्रादिपद्मपरशुशोभिभिः ॥ १८ ॥
नृत्यत्किन्नरकन्याभिर्मृदङ्गतालपाणिभिः ।
किन्नरैर्गायनैर्युक्तं दृष्ट्वा राजाऽब्रवीत् पुनः ॥ १९ ॥
॥ राजोवाच ॥
श्रुतासीद् बहुधा वार्ता विमानानां मुनीश्वर ।
तद दृष्टं पुरतो ब्रह्मन् तपोवीर्यबलात् तव ॥ २० ॥
महिमा श्रुयते कर्णैर्बहुधा बहुवक्त्रतः ।
अनुभूतो मया सोऽपि पुराणश्रवणात्तव ॥ २१ ॥
एवं ब्रुवति भूपे तु दूता उत्तीर्य यानतः ।
प्रणिपत्याखिलाः प्रोचुः सोमकान्तं नृपं तदा ॥ २२ ॥
परात्परेण देवेन तव पुण्यात् स्मृतिः कृता ।
गजाननेन शुद्धात्मन् पुराणश्रवणादिना ॥ २३ ॥
वयं दूता आज्ञयाऽस्य विमानेन समागताः ।
नेतुं त्वां पुण्यकीर्तिं च याहि लोकमनुत्तमम् ॥ २४ ॥
तद्दर्शनाज्जन्ममृतेर्मुक्तस्तत्सन्न्निधिं गतः ।
सुखमात्यन्तिकं तत्र प्राप्स्यसे तत्प्रसादतः ॥ २५ ॥
निशम्य दूतवाक्यं तद् देहातीत इवाभवत् ।
रोमाञ्चाञ्चितसर्वाङ्गः प्राह गद्गदया गिरा ॥ २६ ॥
परात्परेण देवेन चराचरकृताऽमुना ।
निर्गुणेन गुणक्षोभकारिणा विश्वयोनिना ॥ २७ ॥
दीननाथेन भो दूताः स्मृतोऽहं कृपयाऽनघाः ।
ब्रह्माद्या न विदुर्यं हि ध्यात्वा च सनकादयः ॥ २८ ॥
अनन्तगणपूर्णः सोऽप्रेषयद् यानमुत्तमम् ।
नानावतारान् नानारूपी परममायिकः ॥ २९ ॥
तेन मे स्मरणं कस्मात् कृतमाश्चर्यकारकम् ।
एवमुक्त्वा नमस्कृत्य भृगुं तं प्राह भूमिपः ॥ ३० ॥
आज्ञया ते गमिष्यामि दूतैः सह विमानगः ।
प्रसादात् ते च देवस्य न मां विस्मर्तुमर्हसि ॥ ३१ ॥
॥ सूत उवाच ॥
निशम्य गदितं तस्य भृगुः सम्भ्रमविह्वलः ।
आनन्दाश्रुः सरोमाञ्चः कण्ठे धृत्वा नृपस्य सः ॥ ३२ ॥
प्राहाहं नृपते विप्रोऽभाग्यवांस्त्वं महाफलः ।
गणेशपुरगो भूत्वा न मां विस्मर कर्हिचित् ॥ ३३ ॥
एवमुकत्वा बहिर्यातौ धृत्वा हस्तावुभावपि ।
नमस्कृत्य विमानं तन्नृपो मुनिवरं च तम् ॥ ३४ ॥
आरुहत् परमप्रीतो दूतवाक्यात् त्वरान्वितः ।
द्वावमात्यौ सुधर्मा च रुरुहुर्यानमुत्तमम् ॥ ३५ ॥
ततो दूताश्च वाद्यानां घोषैर्व्याप्तं दिगन्तरम् ।
विमानशोभां वीक्ष्यैव सोमकान्तो ननन्द ह ॥ ३६ ॥
जन्मान्तरीयपुण्येन प्राप्तमेतदमन्यत ।
ततोऽस्मिन् पश्यति भृगौ विमानं यानमम्बरे ॥ ३७ ॥
सर्वोत्तमपदं प्राप्तं मर्त्यदेहेन वीक्ष्य च ।
विस्मयं परमं प्राप नत्वा दूतान् ययौ पदम् ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तविमानप्राप्तिवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥ १५१ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-151

कोई टिप्पणी नहीं:

123