श्रीगणेशपुराणे उपासनाखण्डे
विंशतितमोऽध्यायः
दक्षस्तुतिः
॥ ब्रह्मोवाच ॥
ततः स ब्राह्मणान् साधून् दैवज्ञान् वेदनिष्ठितान् ।
आकार्य प्रतिपूज्यादौ रत्नवासोधनादिभिः ॥ १ ॥
पृष्ट्वा तान् दक्ष इत्येव नामचक्रे सुतस्य सः ।
जपमन्त्रप्रयोगांश्च चकारौषधसञ्चयान् ॥ २ ॥
स्वयं च द्वादशाब्दानि चकार परमं तपः ।
पुत्ररोगविमुक्त्यर्थं स्वसन्तानस्य वृद्धये ॥ ३ ॥
