श्रीगणेशपुराणे क्रीडाखण्डे पञ्चपञ्चाशदुत्तरशततमोऽध्यायः
फलश्रुति निरूपणं
॥ सूत उवाच ॥
जन्ममृतिः न च स्यातां पुराणस्यास्य संश्रयात् ।
एकशो बहुशश्चेत् स्याद् यद्यस्य श्रवणं द्विजाः ॥ १ ॥
न शक्नुतामलं वक्तुं शेषपद्मासनावपि ।
यो ददाति कुरुक्षेत्रे सोमसूर्यग्रहे नरः ॥ २ ॥
हेमभारसहस्राणि विप्रेभ्यो भक्तिभावतः ।
तदस्य श्रवणात् पुण्यं प्राप्नुयाद् भक्तिमान् नरः ॥ ३ ॥
यज्ञानां साङ्गजातानां सर्वेषां दक्षिणावताम् ।
फलं कस्तुलयामास पुराणश्रवणस्य च ॥ ४ ॥
पुराणश्रणस्यास्य पुण्यं तस्माद् विशेषवत् ।
व्रतानां जलदानानां तत्र का गणना मता ॥ ५ ॥
कोटिकन्याप्रदानानां गोदानानां सहस्रशः ।
तत्पुण्यं कोटिगुणितं श्रवणादस्य जायते ॥ ६ ॥
चतुर्णामपि वेदानां साङ्गानां पठनात् सदा ।
शास्त्राणां व्याकृतेर्वापि सदा सत्सेवनादपि ॥ ७ ॥
तत्पुण्यं कोटिगुणितं तदस्य श्रवणाद् भवेत् ।
भारतस्य पुराणस्य सम्पूर्णस्य श्रवादपि ।
यत्पुण्यं कोटिगुणितं तदस्य श्रवणाद् भवेत् ॥ ८ ॥
यस्य गेहे गणेशस्य पुराणं लिखितं भवेत् ।
न तत्र राक्षसा भूताः प्रेताश्च पूतनादयः ॥ ९ ॥
ग्रहा बालग्रहा नैव पीडां कुर्वन्ति कर्हिचित् ।
तद् गृहं हि गणेशेन रक्ष्यते सर्वदा स्वयम् ॥ १० ॥
इदं पुराणं शृणुयात् पूजयेद् वा समाहितः ।
तस्य दर्शनतः पूता भवन्ति पतिता नराः ॥ ११ ॥
ब्रह्मादीनां मुनीनां स मान्यो भवति मानवः ।
क्रुद्धो दहेत् स भुवनं तुष्टो दद्यान् महत् पदम् ॥ १२ ॥
अष्टसिद्धीः समाप्नोति श्रवणात् प्रत्यहं नरः ।
न दारिद्रयं समाप्नोति न सङ्कष्टं नरः क्वचित् ॥ १३ ॥
ईप्सितं समवाप्नोती पद्मादींश्च निधीनपि ।
कल्पद्रुमः कामधेनुर्निधिश्चिन्तामणिस्तथा ॥ १४ ॥
तस्य वश्यत्वमभ्येति सोऽपि वन्द्यो भवत्यपि ।
जारणं मारणं स्तम्भं उच्चाटनमथापि च ॥ १५ ॥
अस्य स्मरणमात्रेण निरस्तं स्यात् क्षणेन ह ।
गणेशनिकटे स्थित्वा पुराणं शृणुयान् नरः ॥ १६ ॥
महापापाद् विनिर्मुक्तः स्त्रीबालहत्ययापि च ।
सान्निध्यमाप्नुयादन्ते गणेशस्य न संशयः ॥ १७ ॥
शूद्रोऽपि मध्ये संस्थाप्य ब्राह्मणान् शृणुयादिदम् ।
क्रमेण लभते वर्णान् वैश्यक्षत्रद्विजाह्वयान् ॥ १८ ॥
नित्यनैमित्तिकर्मभ्यश्च्युतो यः शृणुयादिदम् ।
कर्मसाद्गुण्यमाप्नोति गणेशस्य प्रसादतः ॥ १९ ॥
भाद्रे शुक्लचतुर्थ्यां यः कृत्वा मूर्तिं महीमयीम् ।
मण्डपे तोरणे रम्ये सम्पूज्य परमादरात् ॥ २० ॥
पुराणं शृणुयात् सद्यस्तस्य तुष्टो विनायकः ।
ददाति निखिलान् कामानन्ते मोक्षं च विघ्नपः ॥ २१ ॥
स्तोत्राण्यत्र च यावन्ति तावन्ति प्रत्यहं नरः ।
पठते यदि यो भक्त्या स सिद्धः स्यान्न संशयः ॥ २२ ॥
असाध्यमपि यत् किञ्चित् तेषां पाठाल्लभेन्नरः ।
अनुष्ठानविधानेन मासमात्रं जपेत्तु यः ॥ २३ ॥
ब्राह्मणान् भोजयेद् भक्त्या सोऽपि तन्मयतामियात् ।
॥ ऋषय ऊचुः ॥
कथमस्य श्रवात् पुण्यं केन प्राप्तं पुराऽनघ ॥ २४ ॥
तन्नः शंस महाभाग पृच्छतां सूतनन्दन ।
॥ सूत उवाच ॥
शृण्वन्तु मुनयः पूर्वं कश्चिन्मूकोऽभवन्मुनिः ॥ २५ ॥
ब्रह्मलोकं गतोऽकस्माल्लोमशोऽपि यदृच्छया ।
नमस्कृत्य च लोकेशमुपविष्टस्तदाज्ञया ॥ २६ ॥
पूजितः परया भक्त्या लोमशोऽथाब्रवीद् विधिम् ।
॥ लोमश उवाच ॥
व्यासाय कथितं देव पुराणं पुण्यवर्धनम् ॥ २७ ॥
गणेशस्य महाभाग तन्मे वक्तुमिहार्हसि ।
॥ ब्रह्मोवाच ॥
शृणु लोमश यत्नेन सर्वपापहरं शुभम् ॥ २८ ॥
पुराणं हि गणेशस्य काममोक्षप्रदं नृणाम् ।
॥ सूत उवाच ॥
ततः स कथयामास ब्रह्मा स्वीयेन यामतः ॥ २९ ॥
लोमशाय गणेशस्य पुराणं काममोक्षदम् ।
मूकेन नादलुब्धेन श्रुतं भक्त्याऽखिलं तु तत् ॥ ३० ॥
ततः स वागीश्वरवत् प्रोवाच भारतीं मुनिः ।
अधीत्य पाठतः कृत्वा श्रावयामास चेतरान् ॥ ३१ ॥
भुक्त्वा भोगान् यथा कामान् पुत्रान् पौत्रानवाप्य च ।
अन्ते जगाम परमं धाम गाणेश्वरं शुभम् ॥ ३२ ॥
पुनः शृण्वन्तु मुनय इतिहासं पुरातनम् ।
इक्ष्वाकुकुलसम्भूतो राजा शुद्धात्मकः शुचिः ॥ ३३ ॥
यज्वा दानप्रदो नित्यं स्वाध्यायपरमोऽरिहा ।
आख्याता सर्वधर्माणां प्रजानां पालने रतः ।
षष्ठांशभागी लोकानां मान्यः प्रियतरोऽपि च ॥ ३४ ॥
विख्यातः त्रिषु लोकेषु गोप्ता संवरणाभिधः ।
अनपत्यः स पुत्रार्थे पुत्रीयामिष्टिमाहरत् ॥ ३५ ॥
साङ्गां सदक्षिणामन्नदानैः सुविहितां ततः ।
न लेभे सन्ततिं राजा हरिवंशमथाशृणोत् ॥ ३६ ॥
पूजयित्वा द्विजानन्ते वाचकं परितोष्य च ।
वस्त्रधेनुहिरण्याद्यै रत्नमूलफलादिभिः ॥ ३७ ॥
ततोऽपि नाभवत् पुत्रो दैवान् मूकस्तु तद् गृहम् ।
समायातस्तु विख्यातो गणेशाख्यपुराणवित् ॥ ३८ ॥
स्थापितः प्रार्थयित्वा च राज्ञा संवरणेन सः ।
श्रुत्वा पुराणं तद्वक्त्राद्गणेशाख्यं मुदा नृपः ॥ ३९ ॥
तदन्ते तोषयामास मूकं तं द्विजपुङ्गवम् ।
रत्नमुक्ताफलैर्वस्त्रैर्भूषणैर्हेमनिर्मितैः ॥ ४० ॥
लेभे ततः कुमारं स गणेशे तत्परोऽभवत् ।
भुक्त्वानेकसुखान् प्राप गाणेशं पदमुत्तमम् ॥ ४१ ॥
भगिनी तस्य वन्ध्यासीत् त्रिंशद्वर्षा रजस्वला ।
यथाकालं भवत्येव श्रुत्वा तस्याथ सन्ततिम् ॥ ४२ ॥
गणेशाख्यपुराणस्य श्रवाज्जातां च तं मुनिम् ।
आकार्य परिशुश्राव पुराणं तन्मुखाच्छुभम् ॥ ४३ ॥
लेभे पुत्रं महाशूरं गणेशभजने रता ।
पुत्रान् पौत्रान् समावाप्य भुक्त्वा भोगान् मनोहरान् ॥ ४४ ॥
जगाम सा गणेशस्य निजधामावसानतः ।
सगरस्य तु पुत्राणामेकः पङगुरभूत् सुतः ॥ ४५ ॥
तेनापीदं श्रुतं पुण्यं पुराणं लोमशात् पुरा ।
भक्त्या द्वादशवर्षेण विनीतेनाथ भक्तितः ॥ ४६ ॥
सन्तोष्य लोमशं द्रव्यैस्ततोङ्घ्रि समवाप सः ।
विजयं पुष्टिमायुष्यं प्राणान्ते धामतत्परः ॥ ४७ ॥
अष्टादशपुराणानां श्रवणे यत् फलं लभेत् ।
तदेकस्य पुराणस्य गणेशस्य श्रुतेर्भवेत् ॥ ४८ ॥
काकवन्ध्या बहुसुता श्रवणादस्य जायते ।
स्रवद्गर्भा भवेद् विप्रा दृढगर्भा भवत्यपि ॥ ४९ ॥
मूको वागीशतां याति श्रवणान् मुनिपुङ्गवाः ।
वेदाध्ययनसम्पन्नो मान्योऽपि द्विजपुङ्गवः ॥ ५० ॥
शुद्रो वैश्यत्वमाप्नोति वैश्यः क्षत्रियतामियात् ।
क्षत्रियो द्विजतां याति स्मरणादप्यमुष्य हि ॥ ५१ ॥
कन्या तु लभते चास्याप्येकाध्यायस्य संश्रवात् ।
गणवन्तं कुलीनं च पतिं साधुं धनान्वितम् ॥ ५२ ॥
जात्यन्धो लभते दृष्टिं पुराणस्यास्य संश्रयात् ।
सर्वतीर्थेषु यः स्नायाद् दद्दाद् दानानि सर्वशः ॥ ५३ ॥
तत्फलं समवाप्नोति भक्त्या यः शृणुयादिदम् ।
पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् ॥ ५४ ॥
वर्षास्वाकाशवासं यः कुरुते बहुवत्सरम् ।
तत्फलं प्राप्नुयान्मर्त्यः संश्रुतेऽध्यायपञ्चके ॥ ५५ ॥
अग्निहोत्रं सदा यस्तु सेवते भक्तिमान् नरः ।
तत्फलं हि पुराणस्य श्रवणादस्य जायते ॥ ५६ ॥
एकाङ्गुष्ठेन यस्तिष्ठेद् वर्षाणामयुतं नरः ।
दशाध्यायश्रुतेरस्य पुराणस्य तथा फलम् ॥ ५७ ॥
लभते मानवो भक्त्या निश्चितं नात्र संशयः ।
आजन्ममरणान्नित्यं शृणुयान् मानवो भुवि ॥ ५८ ॥
पुराणं तु गणेशस्य चक्रवर्ती भवेत् तु सः ।
आजन्ममरणाद् यस्तु काशीवासं करोति यः ॥ ५९ ॥
तत्पुण्यं लभते मर्त्यो गणेशस्य पुराणतः ।
सहस्रं माघमासान् यः प्रयागे स्नाति मानवः ॥ ६० ॥
तत्फलं लभते मर्त्यः पुराणस्यास्य संश्रवात् ।
गोमतीसङ्गमे तद्वत् स्नानं भक्त्या करोति यः ॥ ६१ ॥
तत्फलं कोटिगुणितं लभते चास्य संश्रवात् ।
गणेशस्य पुराणं यः शृणुयाद् भक्तिमान् नरः ॥ ६२ ॥
न भयं तस्य शूलात् तु वज्राच्च चक्रिचक्रतः ।
इदं वः कथितं सर्वं पुराणं च सविस्तरम् ॥ ६३ ॥
सम्पूर्णो महिमा वक्तुं न शक्यो वर्षकोटिभिः ।
ब्रह्मणा षण्मुखेनापि शेषेणापि मुनीश्वराः ॥ ६४ ॥
युष्माभिः परिपृष्टं यत् सर्वपापप्रणाशनम् ।
सर्वं कामप्रदं भुक्तिमुक्तिदं पुण्यवर्धनम् ॥ ६५ ॥
गणेशस्य परेशस्य नानालीलाधरस्य च ।
वक्तृश्रोत्रोरघहरं किमन्यच्छ्रोतुमिच्छथ ॥ ६६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे फलश्रुतिनिरूपणं नाम
पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५५ ॥
॥ इति श्रीमद्गणेशमहापुराणे उत्तरखण्डं (क्रीडाखण्डं) समाप्तम् ॥
॥ श्रीगजाननार्पणमस्तु ॥
॥ शुभं भवतु ॥
इति श्रीगणेशपुराणं समाप्तम् ।

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें