श्रीलिङ्गमहापुराण -[पूर्वभाग] -020

 श्रीलिङ्गमहापुराणे पूर्वभागे विंशोऽध्यायः

ब्रह्मप्रबोधनं
॥ ऋषय ऊचुः ॥

कथं पाद्मे पुरा कल्पे ब्रह्मा पद्मोद्भवोऽभवत् ।
भवं च दृष्टवांस्तेन ब्रह्मणा पुरुषोत्तमः ॥ १ ॥
एतत्सर्वं विशेषेण साम्प्रतं वक्तुमर्हसि ।
॥ सूत उवाच ॥
आसीदेकार्णवं घोरमविभागं तमोमयम् ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -019

 श्रीलिङ्गमहापुराणे पूर्वभागे एकोनविंशोऽध्यायः

विष्णुप्रबोधं
॥ सूत उवाच ॥

अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ।
पश्यतां मां महादेवं भयं सर्वं विमुच्यताम् ॥ १ ॥
युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ ।
अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -018

 श्रीलिङ्गमहापुराणे पूर्वभागे अष्टादशोऽध्यायः

श्रीविष्णुकृतं महेश्वरस्तोत्रं
॥ विष्णुरुवाच ॥

एकाक्षराय रुद्राय अकारायात्मरूपिणे ।
उकारायादिदेवाय विद्यादेहाय वै नमः ॥ १ ॥
तृतीयाय मकाराय शिवाय परमात्मने ।
सूर्याग्निसोमवर्णाय यजमानाय वै नमः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -017

 श्रीलिङ्गमहापुराणे पूर्वभागे सप्तदशोऽध्यायः

लिङ्गोद्भव
॥ सूत उवाच ॥

एवं सङ्क्षेपतः प्रोक्तः सह्यादीनां समुद्भवः ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ १ ॥
स याति ब्रह्मसायुज्यं प्रसादात् परमेष्ठिनः ।
॥ ऋषय ऊचुः ॥
कथं लिङ्गमभूल्लिङ्गे समभ्यर्च्यः स शङ्करः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -016

 श्रीलिङ्गमहापुराणे पूर्वभागे षोडशोऽध्यायः

ईशानमाहात्म्यकथनं
॥ सूत उवाच ॥

अथान्यो ब्रह्मणः कल्पो वर्तते मुनिपुङ्गवाः ।
विश्वरूप इति ख्यातो नामतः परमाद्भुतः ॥ १ ॥
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे ।
ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -015

 श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चदशोऽध्यायः

अघोरेशमाहात्म्यं
॥ सूत उवाच ॥

ततस्तस्मिन् गते कल्पे कृष्णवर्णे भयानके ।
तुष्टाव देवदेवेशं ब्रह्मा तं ब्रह्मरूपिणम् ॥ १ ॥
अनुगृह्य ततस्तुष्टो ब्रह्माणमवदद्धरः ।
अनेनैव तु रूपेण संहरामि न संशयः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -014

 श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्दशोऽध्यायः

अघोरोत्पत्तिवर्णनं
॥ सूत उवाच ॥

ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः ।
पुनरन्यः प्रवृत्तस्तु कल्पो नाम्नासितस्तु सः ॥ १ ॥
एकार्णवे तदा वृत्ते दिव्ये वर्षसहस्रके ।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -013

 श्रीलिङ्गमहापुराणे पूर्वभागे त्रयोदशोऽध्यायः

तत्पुरुषमाहात्म्यं
॥ सूत उवाच ॥
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः ।
ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ॥ १ ॥
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः ।
प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रधृक् ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -012

श्रीलिङ्गमहापुराणे पूर्वभागे द्वादशोऽध्यायः
वामदेवमाहात्म्यं

॥ सूत उवाच ॥

ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः ।
ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ॥ १ ॥
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः ।
प्रादुर्भूतो महातेजाः कुमारो रक्तभूषणः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -011

 श्रीलिङ्गमहापुराणे पूर्वभागे एकादशोऽध्यायः

सद्योजातमाहात्म्यं
॥ ऋषय ऊचुः ॥

कथं वै दृष्टवान् ब्रह्मा सद्योजातं महेश्वरम् ।
वामदेवं महात्मानं पुराणपुरुषोत्तमम् ॥ १ ॥
अघोरं च तथेशानं यथावद्वक्तुमर्हसि ।
॥ सूत उवाच ॥
एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः ॥ २ ॥

123