श्रीगणेशपुराणे क्रीडाखण्डे द्विपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्विपञ्चाशदुत्तरशततमोऽध्यायः

हेमकण्ठदर्शनं
॥ सूत उवाच ॥

उपरिष्टाद् ददर्शाऽथ नृपो दैवपुरं निजम् ।
जहर्ष गोपुराट्टालशोभां दृष्ट्वाथ काञ्चनीम् ॥ १ ॥
ततः सुधर्मा सस्मार सभां रम्यां समीक्ष्य ह ।
निजं पुत्रं स्नेहवशात् प्राह गद्गदभाषिणी ॥ २ ॥

हेमकण्ठो मम सुतो भद्रासनगतो भवेत् ।
पित्रोर्मार्गं प्रतीक्षन् स जाते संवत्सरेऽधुना ॥ ३ ॥
स्वामिन् कृपानिधे तस्य दर्शनं दातुमर्हसि ।
स्त्रियो वाक्यं निशम्यैवं शुशोच नृपतिस्तदा ॥ ४ ॥
॥ नृप उवाच ॥
हेमकण्ठो मम सुतो जीवन् स्याद् वा मृतो भवेत् ।
उक्तमासीन् मया चास्मै वत्सराद् दर्शनं भवेत् ॥ ५ ॥
अनृतात् कुत्र गच्छेयं नोक्तमासीत् कदाचन ।
न तत्र गन्तुं नो हातुं शक्तोऽहं परमं पदम् ॥ ६ ॥
विरुद्धं कथमेतद्धि घटेतेत्यरुदद् भृशम् ॥
दृष्ट्वा दूतास्तयोः शोकमब्रुवन् राजसत्तमम् ॥ ७ ॥
युवयो रोदनं श्रुत्वा कृपा नः समुपागता ॥
क्षणमुत्तारयामोऽत्र दृष्ट्वा तं यात सत्वरम् ॥ ८ ॥
जाते भवत् समाधाने सन्तोषो नः परो भवेत् ।
तत उत्तारयामासुर्दूता देवपुरादुदक् ॥ ९ ॥
विमानं तद्गणेशस्य पुराणश्रवणागतम् ।
नगरं प्रभया व्याप्तं वाद्यघोषैश्च नादितम् ॥ १० ॥
सुबलो ज्ञानगम्यश्च नमस्कृत्य नृपं गणान् ।
ईयतुर्हेमकण्ठं तं सर्ववृत्तान्तमीरितुम ॥ ११ ॥
क्षणाद् भद्रासनगतं हेमकण्ठमपश्यताम् ।
सन्नद्धैर्वीरमुख्यैश्च परिवीतं महाबलैः ॥ १२ ॥
अमात्यनागरैर्युक्तमीक्षन्तं नृत्यमुत्तमम् ।
तदमात्यौ ज्ञानगम्यं सुबलं समपश्यताम् ॥ १३ ॥
उत्तस्थुः सर्ववीराश्व सामात्यो हेमकण्ठकः ।
आलिङ्गनाय ते सर्वे तयोः प्रापुः सुसम्भ्रमम् ॥ १४ ॥
तेषामालिङ्गने जाते ततो नृपसुतो ययौ ।
हर्षेण महता युक्तः सरोमाञ्चोऽब्रवीच्च तौ ॥ १५ ॥
मम माता पिताऽमात्यौ क्षेमयुक्तौ न वा क्वचित् ।
त्यक्त्वा तौ पितरौ यातो युवामेकाकिनौ कथम् ॥ १६ ॥
एवमुक्त्वा स्वासने तावुपवेश्य प्रपूज्य च ।
वस्त्रचन्दनभूषादिफलताम्बूलकाञ्चनैः ॥ १७ ॥
तयोर्विना मम प्राणाः कण्ठमात्रावलम्बिनः ।
अहर्निशं तयोर्ध्यानं नान्यस्य मम मानसे ॥ १८ ॥
पिता मे प्रावदत् पूर्वमेकदा दर्शनं पुनः ।
दास्यामीति कथं तच्चानृतं वाक्यं करिष्यति ॥ १९ ॥
॥ ता वूचतुः ॥
मा कुरुष्व वृथा चिन्तां पित्रोस्ते कुशलं नृप ।
तयोः पुण्यप्रभावं को जानाति भुवनत्रये ॥ २० ॥
अनुज्ञां भवतो गृह्य निर्गता नगराद् वयम् ।
चत्वारोऽपि पितुस्तेऽभूत् सौकुमार्यादिकं महत् ॥ २१ ॥
क्षुधया पीडितोऽत्यन्तं रक्तस्रावि पदाम्बुजम् ।
कन्दमूलैः फलैस्तृप्तिर्न चासीत् तस्य भूपतेः ॥ २२ ॥
मातुस्तेऽपि यथावस्था चेलतुर्न पदं तदा ।
भ्रमद्भिर्बहुधा पश्चाद् दृष्टं चारु सरो महत् ॥ २३ ॥
शीतलं वृक्षवल्लीभिस्तत्र सुष्वाप भूमिपः ।
सुधर्मा पादसंवाहं चकार श्रमकर्षिता ॥ २४ ॥
आवां तु कन्दमूलार्थे यातस्तत्राययौ मुनिः ॥
च्यवनो मुनिशार्दूलो जलार्थे तौ ददर्श ह ॥ २५ ॥
तयोर्हार्दं स गृह्यैव निजमाश्रममाययौ ॥
तत आवां समायातौ गृह्य मूलफलं बहु ॥ २६ ॥
सर्वे तदाश्रमे याता मुनिना पूजिता भृशम् ।
भोजिताः षड्रसैश्चान्नैर्विश्रान्तिं परमां गताः ॥ २७ ॥
ततःकथाप्रसङ्गोऽभून्मुनिना च नृपेण च ।
सर्वं चाकथयद्राजा वृत्तान्तं मुनये तदा ॥ २८ ॥
ततो मुनिर्ध्यानबलात् पूर्वं जन्मास्य सञ्जगौ ।
दुरितं तच्छमोपायमब्रवीत् करुणायुतः ॥ २९ ॥
दुरितश्रवणेचास्य सन्त्रासो नौ नृपाभवत् ।
स सन्दिग्धमना यावत् तावद् देहाद् विनिर्गताः ॥ ३० ॥
पक्षिणः श्वेतवर्णास्तमारब्धा भक्षितुं नृपम् ।
तेषां चञ्चुप्रहारेण विह्वलः पतितो नृपः ॥ ३१ ॥
रक्ष रक्षेति कारुण्यात्प्रोक्तः प्रार्थनया मुनिः ।
तस्य प्रेक्षणमात्रेण पक्षिणोऽन्तर्दधुः क्षणात् ॥ ३२ ॥
स तु हस्तयुगं बद्धवा तस्थौ मुनिमुखो नृपः ।
महज्ज्ञात्वा नृपैनः स भावयामास भक्तितः ॥ ३३ ॥
गणेशस्य पुराणं यद् वर्षमात्रं कृपानिधिः ।
अष्टोत्तरशतेनादौ देवनाम्ना प्रसिच्य च ॥ ३४ ॥
तदङ्गात् पुरुषं घोरं निष्कास्य तपसो बलात् ।
व्योमकेशो ललज्जिह्वो व्याकुलः क्षुधया भृशम् ॥ ३५ ॥
भक्ष्यं ययाचे स भृगुं सोऽवदत् तं पुरस्थितम् ।
भक्षयस्वाम्रवृक्षं त्वं महान्तं शुष्कमेव च ॥ ३६ ॥
तेन स्पृष्ट आम्रवृक्षो भस्मसादभवत् क्षणात् ।
ततस्तं धीवरं प्राह भक्षयस्वेत्यसौ मुनिः ॥ ३७ ॥
ततो नृपं मुनिः प्राह पुराणश्रवणं महत् ।
श्रेयो निक्षिप नित्यं त्वमस्मिन् भस्मनि भूमिप ॥ ३८ ॥
यावच्चूतस्य वक्षोऽत्र भवेदन्यो यथा पुरा ।
ततस्त्वमपि राजेन्द्र दिव्यदेहो भविष्यसि ॥ ३९ ॥
तथैव स नृपश्चक्रे स्नात्वा श्रुत्वा कथां बहु ।
न्यक्षिपत् प्रत्त्यहं श्रेयस्तस्मिन् भस्मनि भक्तितः ॥ ४० ॥
संवत्सरान्ते वृक्षोऽसौ भवन्नृप यथा पुरा ।
गणेशस्य पुराणे तु समाप्ते फलपुष्पवान् ॥ ४१ ॥
नृपोऽपि दिव्यकान्तिः स शशिसूर्यनिभोऽभवत् ।
यावन्नृपो मुनिं स्तौति विमानं तावदागतम् ॥ ४२ ॥
नृत्यगीतसमायुक्तं वाद्यघोषनिनादितम् ।
गणेशदूतसंयुक्तमाश्रमान्तिकमास्थितम् ॥ ४३ ॥
यच्छोभां पश्यतोर्नाथ दृशो नौ सफलाः किल ।
अतिपुण्यात् पितुस्ते ते दूता देवाज्ञया नृपम् ॥ ४४ ॥
न्यक्षिपन् यानमध्ये नौ नृपेक्षणप्रणोदिताः ।
सुधर्मा च मुनेराज्ञां गृह्य याता विमानगा ॥ ४५ ॥
दृष्टं देवपुरं यावत् तावत् त्वत्स्मृतिरागता ।
अत उत्तारितं यानं उत्तरे नगरान्नृप ॥ ४६ ॥
दिदृक्षया पितृभ्यां ते तौ यातौ त्वां निवेदितुम् ।
तयोः शीघ्रं दर्शनाय याहि नो चेद् गमिष्यति ॥ ४७ ॥
तयोर्वाक्यं निशम्यत्थं हेमकण्ठस्त्वरान्वितः ।
रोमाञ्चाश्रुसमायुक्तो धावमानः श्रुताखिलः ॥ ४८ ॥
ययौ तद्दर्शनौत्सुक्यात् पुरस्कृत्य तदा तु तौ ।
विशीर्णभूषणगणो नागरैः सेवकैर्वृतः ।
गलदश्रुः क्षणात् प्राप विमानं गणसङ्कुलम् ॥ ४९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे हेमकण्ठदर्शनं नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-152

कोई टिप्पणी नहीं:

123