श्रीगणेशपुराणे क्रीडाखण्डे सप्तचत्वारिंशादधिकशततमोऽध्यायः
गणेशगीता - "उपदेशयोगो'' नाम दशमोऽध्यायः
॥ श्री गजानन उवाच ॥
दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् ।
तासां फलानि चिह्नानि सङ्क्षेपात्तेऽधुना ब्रुवे ॥ १ ॥
आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।
चिह्नं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु ॥ २ ॥
अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् ।
तेजोऽभयहिंसा च क्षमा शौचममानिता ॥ ३ ॥
इत्यादिचिह्नमाद्याया आसुर्याः शृणु साम्प्रतम् ।
अतिवादोऽभिमानश्च दर्पोऽज्ञानं सकोपता ॥ ४ ॥
आसुर्या एवमाद्यानि चिह्नानि प्रकृतेर्नृप ।
निष्ठुरत्वं मदो मोहोऽहङ्कारो गर्व एव च ॥ ५ ॥
द्वेषो हिंसा दया क्रोध औद्धत्यं दुर्विनीतता ।
आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ॥ ६ ॥
अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ।
निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ॥ ७ ॥
मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ।
पाखण्डवाक्ये विश्वासः सङ्गतिर्मलिनात्मनाम् ॥ ८ ॥
सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ।
अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ॥ ९ ॥
परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ।
इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ॥ १० ॥
पृथिव्या स्वर्गलोके च परिवृत्य वसन्ति ते ।
मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥ ११ ॥
तामसीं ये श्रिता राजन् यान्ति ते रौरवं ध्रुवम् ।
अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ॥ १२ ॥
दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः ।
जात्यन्धाः पङ्गवो दीनाहीनजातिषु ते नृप ॥ १३ ॥
पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।
उत्पतन्ति हि मद्भक्ता यां काञ्चिद् योनिमाश्रिताः ॥ १४ ॥
लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्च भूमिप ।
सुलभा सा सकामानां मयि भक्तिः सुदुर्लभा ॥ १५ ॥
विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।
अहं हर्ता अहं कर्ता अहं भोक्तेति वादिनः ॥ १६ ॥
अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी ।
एतादृशी मतिर्नॄणामधः पातयतीह तान् ॥ १७ ॥
तस्मादेतत् समुत्सृज्य दैवीं प्रकृतिमाश्रय ।
भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा ॥ १८ ॥
सापि भक्तिस्त्रिधा राजन् सात्त्विकी राजसीतरा ।
यद्देवान् भजते भक्त्या सात्त्विकी सा मता शुभा ॥ १९ ॥
राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।
यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः ॥ २० ॥
वेदेनाविहितं क्रूरं साहङ्कारं सदम्भकम् ।
भजन्ते प्रेतभूतादीन् कर्म कुर्वन्ति कामुकम् ॥ २१ ॥
शोषयन्तो निजं देहमन्तस्थं मां दृढाग्रहाः ।
तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा ॥ २२ ॥
कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमि ।
महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् ॥ २३ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते
श्रीगजाननवरेण्यसंवादे ``उपदेशयोगो'' नाम दशमोऽध्यायः ॥ १० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे उपदेशयोगोनाम सप्तचत्वारिंशादधिकशततमोऽध्यायः ॥
१४७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें