श्रीलिङ्गमहापुराण -[पूर्वभाग] -025
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचीसवाँ अध्याय
लिङ्गार्चन विधि के अन्तर्गत शरीर एवं मन की शुद्धि के लिये अन्तः एवं बाह्य स्नान की प्रक्रिया और विविध मन्त्रों से आत्माभिषेचन
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चविंशोऽध्यायः
स्नानविधि
॥ ऋषय ऊचुः ॥
कथं पूज्यो महादेवो लिङ्गमूर्तिर्महेश्वरः ।
वक्तुमर्हसि चास्माकं रोमहर्षण साम्प्रतम् ॥ १ ॥
॥ सूत उवाच ॥
देव्या पृष्टो महादेवः कैलासे तां नगात्मजाम् ।
अङ्कस्थामाह देवेशो लिङ्गार्चनविधिं क्रमात् ॥ २ ॥
