श्रीगणेशपुराणे क्रीडाखण्डे चत्वारिंशादधिकशततमोऽध्यायः
गणेशगीता - ब्रह्मार्पणयोगोनाम तृतीयोऽध्यायः
॥ श्रीगजानन उवाच ॥
पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरहम् ।
निर्माय चैनमवदं विष्णवे योगमुत्तमम् ॥ १ ॥
अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरेनं महर्षयः ॥ २ ॥
कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।
अश्रद्धयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ॥ ३ ॥
एनं पुराभवं योगं श्रुतवानसि मन्मुखात् ।
गुह्याद् गुह्यतमं वेदहरस्यं परमं शुभम् ॥ ४ ॥
॥ वरेण्य उवाच ॥
साम्प्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।
प्रोक्तवान् कथमेतं त्वं विष्णवे योगमुत्तमम् ॥ ५ ॥
॥ श्रीगजानन उवाच ॥
अनेकानि च ते जन्मान्यतीतानि ममापि च ।
संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ॥ ६ ॥
मत्त एव महाबाहो जाताविष्णवादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥ ७ ॥
अहमेव परो ब्रह्मा महारुद्रोऽहमेव च ।
अहमेव जगत् सर्वं स्थावरं जङ्गमं च यत् ॥ ८ ॥
अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥ ९ ॥
अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून् संरक्षितुं दुष्टांस्ताडितु सम्भवाम्यहम् ॥ १० ॥
उच्छिद्याधर्म निचयं धर्मं संस्थापयाम्यहम् ।
हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ॥ ११ ॥
वर्णाश्रमान् मुनीन् साधून् पालये बहुरूपधृक् ।
एवं यो वेत्ति सम्भूतीं मम दिव्यां युगे युगे ॥ १२ ॥
तत्तत्कर्म च वीर्यं च मम रूपं समासतः ।
त्यक्त्वाहं ममताबुद्धिं न पुनर्भूः स जायते ॥ १३ ॥
निरीहा निर्भयारोषा मत्परा मद्यपाश्रयाः ।
विज्ञान तपसा शुद्धा अनेके मामुपागताः ॥ १४ ॥
येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥ १५ ॥
जनाः स्युरितरे राजन् मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥ १६ ॥
कुर्वन्ति देवताप्रीतिं वाञ्छन्तं कर्मणां फलम् ।
प्राप्नुवन्तीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् ॥ १७ ॥
चत्वारो हि मया वर्णा रजःसत्त्वतमोंऽशतः ।
कर्मां शतश्च संसृष्टा मृत्युलोके मया नृप ॥ १८ ॥
कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः ।
अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥ १९ ॥
निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् ।
चक्रुः कर्माणि बुद्ध्वैवं पूर्वं पूर्वं मुमुक्षवः ॥ २० ॥
वासनासहितादाद्यात् संसारकारणाद् दृढात् ।
अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् ॥ २१ ॥
तदकर्म च कर्मापि कथयाम्यधुना तव ।
यत्र मौनं गता मोहात् ऋषयो बुद्धिशालिनः ॥ २२ ॥
तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि सुनिम्नैषां गतिः प्रिय ॥ २३ ॥
क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्य स्यात् स हि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थ कृत् ॥ २४ ॥
कर्माङ्कुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥ २५ ॥
फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः ।
उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः ॥ २६ ॥
निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वै गृहं कर्माचरन्नायाति पातकम् ॥ २७ ॥
अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः ।
यथाप्राप्त्येह सन्तुष्टः कुर्वन् कर्म न बध्यते ॥ २८ ॥
अखिलैविषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते ॥ २९ ॥
अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः ॥ ३० ॥
योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ॥
ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ॥ ३१ ॥
संयमाग्नौ परेभूप इन्द्रियाण्युपजुह्वति ॥
खाग्निष्वन्ये तद्विषयान् शब्दादीनुपजुह्वति ॥ ३२ ॥
प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः ।
निजात्मरसिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति ॥ ३३ ॥
द्रव्येण तपसा वापि स्वाध्याये नापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥ ३४ ॥
प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्ध्वा गतीश्चोभयोस्ते प्राणायाम परायणाः ॥ ३५ ॥
जित्वा प्राणान् प्राणगतीरूपजुह्वति तेषु च ।
एवं नाना यज्ञरता यज्ञध्वंसितपातकाः ॥ ३६ ॥
नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः । (यज्ञाशेषामृताशिनः)
अयज्ञकारिणो लोकोनायमन्यः कुतो भवेत् ॥ ३७ ॥
कायिकादित्रिधाभूतान् यज्ञान् वेदे प्रतिष्ठितान् ।
ज्ञात्वा तानखिलान् भूप मोक्ष्यसेऽखिलबन्धनात् ॥ ३८ ॥
सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ॥ ३९ ॥
तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् ।
शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः ॥ ४० ॥
नानासङ्गान् जनः कुर्वन्नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः ॥ ४१ ॥
सत्सङ्गाद्गुणसम्भूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिहलोके परत्र च ॥ ४२ ॥
इतरत् सुलभं राजन् सत्सङ्गोऽतीवदुर्लभः ।
यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं ततस्ततः ॥ ४३ ॥
ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते ॥ ४४ ॥
विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ॥ ४५ ॥
न ज्ञान समतामेति पवित्रमितरन्नृप ।
आत्मन्येवावगच्छन्ति योगात् कालेन योगिनः ॥ ४६ ॥
भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् ।
लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ॥ ४७ ॥
भक्तिहीनोऽश्रद्दधानः सर्वत्रसंशयी तु यः ।
तस्य शं नापि विज्ञातमिह लोके न चापरे ॥ ४८ ॥
आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् ।
योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ॥ ४९ ॥
ज्ञानखड्गप्रहारेण सम्भूतामज्ञतां बलात् ।
छित्त्वाऽन्तःसंशयं तस्माद् योगयुक्तो भवेन्नरः ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते
श्रीगजाननवरेण्यसंवादे ब्रह्मार्पणयोगोनाम तृतीयोऽध्यायः ॥ ३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे ब्रह्मार्पणयोगोनाम चत्वारिंशादधिकशततमोऽध्यायः ॥
१४० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें