श्रीगणेशपुराणे क्रीडाखण्डे त्रिपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे त्रिपञ्चाशदुत्तरशततमोऽध्यायः

सोमकान्तस्य देवपदप्राप्तिवर्णनं
॥ सूत उवाच ॥

तदमात्याश्च चत्वारः सोमकान्तं पुरो ययुः ।
प्रणिपत्याखिलान् प्रोचुरागतस्ते सुतो नृप ॥ १ ॥
सर्ववीरैर्नागरिकैरिन्द्रः सुरगणैरिव ।
वृतो हर्षेण शोकेन दृष्ट्वा नृयानमेव च ॥ २ ॥

एवं निवेदितोऽमात्यैः सोऽपि शीघ्रं समागतः ।
आबालवनितावृद्धैः सेवकैश्च समन्वितः ॥ ३ ॥
दृष्ट्वा शोभां विमानस्य सर्व आनन्दनिर्भराः ।
तन्मध्ये सोमकान्तं ते दृष्ट्वा नेमुर्धरातले ॥ ४ ॥
युक्तं दूतैर्गणेशस्य कान्तयाप्यतिकान्तया ।
तत उत्तीर्य यानात् स आलिलिङ्ग सुतं मुदा ॥ ५ ॥
आनन्दाश्रूणि मुञ्चन्तौ सरोमाञ्चावुभावपि ।
विदेहाविव सञ्जातौ न किञ्चिदूचतुः क्षणम् ॥ ६ ॥
तत ऊचे पिता पुत्रं स्नेहेन वत्सरागतम् ।
त्वामेव नित्यं ध्यायामि सत्पुत्रं वंशभूषणम् ॥ ७ ॥
न त्वया सदृशं पश्ये पुत्रेषु जनवर्तिषु ।
ततः सुधर्मा सस्नेहा धावमाना सुतं ययौ ॥ ८ ॥
आलिलिङ्ग मुदा युक्ता गलदश्रू उभावपि ।
तत ऊचे सुतं माता चिरदृष्टोऽसि बालक ॥ ९ ॥
न में सुखीं किञ्चिदभूत् त्वदुत्कण्ठितचेतसः ।
इदानीं ते मुखं दृष्ट्वा सानन्दं मे मनोऽभवत् ॥ १० ॥
वियोगेन च ते देहो मम जातः कृशो भृशम् ।
तत आलिङ्गनं चक्रुर्नागरा नामधारकाः ॥ ११ ॥
केचित् प्रदिक्षिणां चक्रुः केचित् पादौ तदाऽस्पृशन् ।
केचिच्च दर्शनादेव प्रतियाताः पुरं प्रति ॥ १२ ॥
तत ऊचे नृपः सर्वान् भृगुणाऽनुग्रहान्मम ।
गणेशस्य पुराणं यच्छ्रावितं पापनाशनम् ॥ १३ ॥
अभवं तेन निष्पापो दिव्यदेहो विमानगः ।
सर्वेषां दर्शनं जातं पुनर्यास्यामि यानगः ॥ १४ ॥
कृपावता गणेशेन यानं मे प्रेषितं भुवि ।
राज्यं च परिभुक्तं मे स्वेच्छया सम्पदः सुत ॥ १५ ॥
धामं यास्यामि परमं प्रसादाद् भृगुसम्भवात् ।
एवं ते शुश्रुवुर्वाणीं सोमकान्तसमीरताम् ॥ १६ ॥
रुरुदुः सुस्वरं सर्वे पतिता भुवि केचन ।
श्रेणी मुख्यास्ततः प्रोचुः सोमकान्तं कृपानिधम् ॥ १७ ॥
नो विना जगतीपाल कथं यास्यसि धाम तत् ।
प्राणांस्त्यक्त्वा वयं सर्वे यास्यामोऽप्यनु ते नृप ॥ १८ ॥
हत्या त्वन्मस्तके राजन् सर्वेषां नो भविष्यति ।
न नः पुण्यं तथा येन द्रक्ष्यामस्तं गुणेश्वरम् ॥ १९ ॥
तव प्रसादाद् देवस्य यास्यामो लोकमुत्तमम् ।
न संसारे सुखं किञ्चिदायुर्नाशो वृथाऽत्र हि ॥ २० ॥
अस्माकं न भवेत् किञ्चित्साधनं धामसाधनम् ।
ततोऽवदद् हेमकण्ठो जनकं वाक्यमादृतः ॥ २१ ॥
कथं त्यक्त्वाऽर्भकं तात यासि द्रष्टुं गजाननम् ।
मन राज्येन को हेतु राज्ञया तव वत्सरम् ॥ २२ ॥
पालितं राज्यमखिलं नेच्छेदानीं ममापि च ।
शपथस्ते तथा राजन् अतो नेतुं ममार्हसि ॥ २३ ॥
॥ सोमकान्त उवाच ॥
सर्वेषामेव सन्द्रष्टुमिच्छा देवपदाम्बुजम् ।
अहं च परवानत्र कथं कार्यं मया जनाः ॥ २४ ॥
भवत्स्नेहन शोचामि पुत्रस्नेहाद्विशेषतः ।
अत एवोर्ध्वगं यानमुत्तार्य द्रष्टुमागतः ॥ २५ ॥
॥ सूत उवाच ॥
ततः शोचत्सु लोकेषु सोमकान्ते रुदत्यपि ।
पुत्रे च देवदूतानां दया प्रादुरभूत् तदा ॥ २६ ॥
ते ऊचुः सोमकान्तं तं धन्यो राजन् यतो जनाः ।
त्वयि सङ्कल्पितप्राणा यथा त्वं जगदीश्वरे ॥ २७ ॥
अतः सर्वान् गृहीत्वैव यामः शीघ्रं गजाननम् ।
॥ राजोवाच ॥
यदि सर्वा पुरी नीता तदा कीर्तिर्दृढा मम ॥ २८ ॥
भविष्यति रसायां मे नान्यथा तु भविष्यति ।
॥ सूत उवाच ॥
एवमुक्त्वा पुराणस्य गणेशस्य श्रवोद्भवम् ॥ २९ ॥
पुण्यं हस्ते जले नैषां ददौ राजा तदाज्ञया ।
तोये हस्ते गते लोका निष्पापाः पुण्यमूर्तयः ॥ ३० ॥
आबालवनितावृद्धा रुरुहुर्यानमुत्तमम् ।
गणेशस्य तु ये दूतास्ततोऽगुरूर्ध्वमार्गतः ॥ ३१ ॥
ततः केचिन्नराः पापा यैर्नापि च जलं करे ।
ते पुनर्नगरे याताः शशंसुः शेषितं जनम् ॥ ३२ ॥
ततो ददृशिरे सर्वे ऊर्ध्वगं नगरं बहु ।
ऊचुः परस्परं शेषा द्रव्यलाभेन तोषिणः ॥ ३३ ॥
नानाव्यवसायरता बभूवुर्हृष्टमानसाः ।
कांश्चित् पलायनपरान् दूता दण्डप्रहारिणः ॥ ३४ ॥
बलाद्गृहीत्वा प्राक्षिपन् यानमध्येति कौतुकात् ।
नानामिषेण जग्मुर्ये तांस्तथैव निचिक्षिपुः ॥ ३५ ॥
उपविष्टा मध्यदेशे राजपत्नीसुतादयः ।
अमात्याः परितो लोका नागरा विविशुः सुखम् ॥ ३६ ॥
मयूरेश मयूरेश जय त्वमिति घोषिणः ।
वाद्यत्सु देववाद्येषु नृत्यत्यप्सरसां गणे ॥ ३७ ॥
प्रतिनादेन गर्जन्ति मण्डलानि दिशामपि ।
अतिवेगेन ते प्राप्ता गणेशस्य पदं शुभम् ॥ ३८ ॥
सुषमां परिपश्यन्तो विस्मयेनाब्रुवन्निति ।
अहो महत् पुण्यमस्य येन दृष्टो गजाननः ॥ ३९ ॥
समीपतां ययुः सर्वे राजा सायुज्यमाप च ।
॥ सूत उवाच ॥
एवं वः कथिता विप्रा गणेशस्य पुराणना ॥ ४० ॥
कथा सर्वजनस्यापि श्रवणात्पापनाशिनि ।
श‍ृणुध्वं देवदूतेभ्यो विमाने पृष्टवान् नृपः ।
तत्सर्वं भवतां विप्राः कथयामि कथानकम् ॥ ४१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-153

कोई टिप्पणी नहीं:

123