श्रीगणेशपुराणे उपासनाखण्डे
अशीतितमोऽध्यायः
रामोपाख्याने और्ध्वदैहिकसंस्कारोपदेश
॥ ब्रह्मोवाच ॥
रेणुका तु गते तस्मिन् शुशोच भृशविह्वला ।
क्व गता मम पुत्रास्ते संहारेऽस्मिन्नुपस्थिते ॥ १ ॥
मृते भर्तरि किं कुर्यां बाणजालसमावृता ।
क्व गतोऽसौ महाक्रोधी रामो मे प्रियबालकः ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे अशीतितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे एकोनाशीतितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
एकोनाशीतितमोऽध्यायः
कामधेनुनोत्पन्नेन सैन्येन कार्तवीर्यस्य पराभवः जमदग्नेश्च हत्या
॥ मुनिरुवाच ॥
उपकारस्त्वयाऽऽरम्भि साधुवृत्तानुसारिणा ।
आत्मघातं पुरस्कृत्वा कामधेनुं त्वमिच्छसि ॥ १ ॥
भ्रान्तोऽसि नृप सत्यं त्वमप्राप्यं योऽभिवाञ्छसि ।
त्रैलोक्यनाशजं पापं तव मूर्ध्नि पतिष्यति ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे अष्टसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
अष्टसप्ततितमोऽध्यायः
कार्तवीर्येण (सहस्रार्जुनेन) कामधेनुं नेतुं प्रयत्नः
॥ ब्रह्मोवाच ॥
ततो मुनिः शिष्यगणमुवाच त्वरया व्रज ।
आकारयितुं नृपतिं नदीतीरनिवासिनम् ॥ १ ॥
ते शिष्यास्तं नृपं गत्वा गृह्य तत् प्रणतिं पुरा ।
दत्वाऽऽशीर्वर्चनं तस्मै मुनेराज्ञां तथाऽब्रुवन ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे सप्तसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
सप्तसप्ततितमोऽध्यायः
सहस्रार्जुनस्य जमदग्नेराश्रममागमनम्, भोजन प्रसङ्ग
॥ व्यास उवाच ॥
अन्येनाकारि केनेदं वद तत् कौतुकं महत् ।
॥ ब्रह्मोवाच ॥
जामदग्न्येन रामेण व्रतमेतत् पुरा कृतम् ॥ १ ॥
सोऽपि कीर्तिं जयं ज्ञानमायुर्दीर्घं च लब्धवान् ।
॥ व्यास उवाच ॥
रामः कथं समुत्पन्नः कस्मात् कस्यां पितामह ॥ २ ॥
एतत्सर्वं सुविस्तार्यं ब्रूहि त्वं मम पृच्छतः ।
श्रीगणेशपुराणे उपासनाखण्डे षट्सप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे पञ्चसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
पञ्चसप्ततितमोऽध्यायः
शूरसेनकृतचतुर्थीव्रतफलनिरूपणं
॥ ब्रह्मोवाच ॥
श्रुत्वा दृष्ट्वा शूरसेनो महिमानं व्रतोद्भवम् ।
स्वयं कर्तुमनाः प्राह वसिष्ठं मुनिपुङ्गवम् ॥ १ ॥
॥ राजोवाच ॥
मुहूर्तं वद सङ्कष्टचतुर्थीव्रत हेतवे ।
व्रतं कर्त्तुमिहेच्छामि सद्यः प्रत्ययकारकम् ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे चतुःसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
चतुःसप्ततितमोऽध्यायः
चाण्डाल्युपाख्यानं
॥ व्यास उवाच ॥
ब्रह्मन् कथं कृतं तेन शूरसेनन भूभुजा ।
सेतिहासं शक्रमुखात् श्रुत्वा सादरमुत्तमम् ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः स्वदूतान् प्राहेदं गच्छन्तु नगरं प्रति ।
स आनेयस्तु सङ्कष्टचतुर्थीव्रतकारकः ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे त्रिसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
त्रिसप्ततितमोऽध्यायः
कृतवीर्यपुत्राय प्रवालक्षेत्रानुष्ठानं गणेशदर्शनं, (कृतवीर्येण) सहस्रभुजानां च प्राप्तिः
॥ इन्द्र उवाच ॥
गुरुपदिष्टं मन्त्रं जजाप नियमेन सः ।
ध्यायनन् गजाननं देवं निष्ठामास्थाय नैष्ठिकीम् ॥ १ ॥
वायुभक्षो निराहारो लोष्ठपाषाणसन्निभः ।
एवं द्वादशवर्षाणि व्यतीतानि तपस्यतः ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे द्विसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
द्विसप्ततितमोऽध्यायः
कार्तवीर्यप्रादुर्भावः
॥ शुरसेन उवाच ॥
व्रते जाते कथमभू तयोः पुत्रः शतक्रतो ।
तत्सर्वं मे वद विभो विस्तरात् परिपृच्छतः ॥ १ ॥
॥ इन्द उवाच ॥
किं किं न जायते राजन् परितुष्टे गजानने ।
प्रसादात् तस्य सा राज्ञी गर्भं दध्रे नृपस्य यत् ॥ २ ॥
श्रीगणेशपुराणे उपासनाखण्डे एकसप्ततितमोऽध्यायः
श्रीगणेशपुराणे उपासनाखण्डे
एकसप्ततितमोऽध्यायः
सङ्कष्टचतुर्थीव्रतोद्यापनाविधिः
॥ राजोवाच ॥
उद्यापनं कथं कार्यं व्रतस्याऽस्य महामते ।
तन्मे विस्तरतो ब्रूहि लोकानां हितकाम्यया ॥ १ ॥
॥ ब्रह्मोवाच ॥
प्रथमे मासि कर्तव्यं पञ्चमे सप्तमेऽथवा ।
उद्यापनं मनुष्येन्द्र व्रतसम्पूर्तिहेतवे ॥ २ ॥
