श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशत्तमोऽध्यायः
गणेशलोकवर्णनं

॥ मुनिरुवाच ॥

कथं च काशीराजेन प्राप्तं तत् स्थानमुत्तमम् ।
मुद्गलस्योपदेशेन तन्मे शंसितुमर्हसि ॥ १ ॥
॥ ब्रह्मोवाच ॥
तीर्थयात्राप्रसङ्गेन मुद्गलस्तं नृपं ययौ ।
स पूजयित्वा पप्रच्छ सर्वज्ञं तं मुनिं नृपः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकोनपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकोनपञ्चाशत्तमोऽध्यायः
शमीमन्दारफलवर्णनं

॥ ब्रह्मोवाच ॥

एवं लब्धवरा कीर्तिः शेषां रात्रि निनाय च ।
उषः स्नात्वा प्रपूज्याशु मूर्तिं पुत्रयुता ययौ ॥ १ ॥
हर्षिता दुःखिता देव विरहान्नगरं स्वकम् ।
नानाध्वजपताकाभिः सेकैर्धूपरलङकृतम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे अष्टचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टचत्वारिंशोऽध्यायः
कीर्तेवरप्रदनं

॥ मुनिरुवाच ॥

त्यक्तं राज्यमिति ज्ञात्वा निजं रूपं समाश्रितः ।
अवसत् सर्वलोकानां ढुण्ढिस्तत्रार्थदायकः ॥ १ ॥
दूतं च प्रेषयामास शीघ्रमागम्यतामिति ।
शङ्कराय महाबुद्धिस्ततः स हर्षनिर्भरः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे सप्तचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे सप्तचत्वारिंशोऽध्यायः
दिवोदासस्य राजपरित्यागः

॥ राजोवाच ॥

अवश्यं मुनिशार्दूल करिष्ये वचनं तव ।
करवाण्यन्यथा चेन्मे शपथोऽस्ति हरस्य ह ॥ १ ॥
॥ गृत्समद उवाच ॥
एवं तेन सर्व जनाः काशिस्थाः स्ववशीकृताः ।
त्यक्त्वा सर्वाणि कर्माणि तमेव परिसेविरे ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे षट्चत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे षट्चत्वारिंशोऽध्यायः
बालचरिते ज्योतिर्विद्रूपदर्शनं

॥ मुनिरुवाच ॥

अविमुक्तवियोगेन परितप्तः शिवस्तदा ।
सर्वार्थवशगं ढुण्ढिं नत्वा प्रार्थयदातुरः ॥ १ ॥
॥ शिव उवाच ॥
पञ्चानामपि भूतानां कारणानां च कारणम् ।
चिदानन्दघनो विश्वध्येयो वेदान्तगोचरः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चचत्वारिंशोऽध्यायः
बालचरिते दिवोदासोपाख्याने शिवचिन्तावर्णनं

॥ कीर्तिरुवाच ॥

कथं मुने सर्वदेवाः प्रयाता मन्दरं गिरिम् ।
शिवेन च कथं त्यक्ता रम्या वाराणसी पुरी ॥ १ ॥
एतन्मे शंस देवर्षे संशयोऽत्र महान्मुने ।
॥ मुनिरुवाच ॥
द्वादशाब्दमनावष्टौ नष्टे स्थावरजङ्गमे ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे चतुश्चत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे चतुश्चत्वारिंशोऽध्यायः
बालचरिते दिवोदासोपाख्यानं

॥ कीर्तिरुवाच ॥

ढुण्डिराजावतारोऽयं ख्यातस्ते शक्तिसम्भवः ।
दुरासदवधार्थाय त्रिलोकीपालनाय च ॥ १ ॥
एकपादः स्थितस्तुण्डनगरे चैकपादतः ।
स्थितो दैत्यं समाक्रान्त्य वाराणस्यामिति श्रुतम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे त्रिचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रिचत्वारिंशोऽध्यायः
बालचरिते ढुण्डिराजाख्यानं

॥ गृत्समद उवाच ॥

विजिते तु गणेशेन दैत्ये तस्मिन् दुरासदे ।
दिक्पाला मुनयश्चैव शशी सूर्यो गुरुः कविः ॥ १ ॥
प्रशशंसुर्देवदेवं दुरासदरिपुं विभुम् ।
श्रुतिस्मृतिकृतो मार्गः स्थापितो निहितोऽसुरः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे द्विचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे द्विचत्वारिंशोऽध्यायः
बालचरिते काशीस्थ षटपञ्चाशत् विनायकाः

॥ गृत्समद उवाच ॥

ज्ञात्वा पराक्रमं तस्य वक्रतुण्डस्य दैत्यराट् ।
आययौ धैर्यमालम्ब्य योद्धुमस्त्रैर्गजाननम् ॥ १ ॥
शिवं स्मृत्वा च मन्त्रं च वह्निदैवतमादरात् ।
अभिमन्त्र्य शरं तेन तत्याज स विनायके ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकचत्वारिंशोऽध्यायः
बालचरिते श्रीगणेशदुरासदयुद्धवर्णनं

॥ बृह्मोवाच ॥

एवं प्रशंसितो देव्या देवैश्च स विनायकः ।
उवाच पार्वतीं प्रीत्या प्रणिपत्य मुदा युतः ॥ १ ॥
॥ गणेश उवाच ॥
देवानां सर्वलोकानां कर्तुं पालनमुत्तमम् ।
दुरासदं निहन्तुं च हर्तुं भूभारमेव च ॥ २ ॥

123