श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः

 गजानन पूजा निरूपणं
 ॥ भृगुरुवाच ॥
 व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।
 सोमकान्त प्रवक्ष्यामि तां कथां श‍ृणु सादरम् ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम ।
 भ्रमता भ्रमता व्योमजले दृष्टो वटो महान् ॥ २ ॥
 महावातातपाद्भिस्तु नष्टे स्थावरजङ्गमे ।
 अवशिष्टः कशमयमेकएव वटो महान् ॥ ३ ॥
 एवं संशयमापन्नस्तत्पत्रे बालकं लघुम् ।
 चतुर्बाहुं सुमुकुटं कुण्डलाभ्यां विराजितम् ॥ ४ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुर्दशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे चतुर्दशोऽध्यायः

 ब्रह्मचिन्तावर्णनं
 ॥ राजोवाच ॥
 ततः किमकरोद् ब्रह्मा वीक्ष्याण्डानि सहस्रशः ।
 कथञ्च सृष्टिमकरोदाज्ञां प्राप्य गजाननात् ॥ १ ॥
 ॥ भृगुरुवाच ॥
 अभवद् गर्वसम्पन्नः स्वात्मन्येवं विचारयत् ।
 वेद्मि शास्त्राणि वेदाँश्च पुराणान्यागमानपि ॥ २ ॥
 ज्ञानविज्ञानसम्पन्नः शापानुग्रहशक्तिमान् ।
 ब्रह्माण्डानि च दृष्टानि सृष्टीनां रचनास्तथा ॥ ३ ॥
 इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।
 इत्येवं सर्वसम्पन्ने सृष्टयर्थं कमलोद्भवे ॥ ४ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्यायः

 ब्रह्मस्तुतिवर्णनं
 ॥ व्यास उवाच ॥
 पञ्चास्यश्चतुरास्यश्च सहस्रमस्तकोऽपि च ।
 गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणात् ।
 प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्वादशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे द्वादशोऽध्यायः

 गजाननदर्शनं
 ॥ सूत उवाच ॥
 इति श्रुत्वा तु वचनं निर्गतं ब्रह्मणो मुखात् ।
 हर्षेण महता युक्तो मुनिः पप्रच्छ तं पुनः ॥ १ ॥
 ॥ व्यास उवाच ॥
 अवधानं मया प्राप्तं पीत्वा वागमृतं तव ।
 इदानीं श्रोतुमिच्छामि मन्त्रराजमिमं पितः ॥ २ ॥
 को जजाप कथं सिद्धिमवाप च गजाननात् ।
 एतं मे संशयं छिन्धि त्वत्तोऽन्यो नास्ति मे गुरूः ॥ ३ ॥

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...