श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशदुत्तरशततमोऽध्यायः

व्यासानुग्रहसिद्धिक्षेत्रवर्णनं
॥ सोमकान्त उवाच ॥

कथं प्रादुरभूद्देवः पुरस्तस्य महात्मनः ।
भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः ॥ १ ॥
॥ भृगुरुवाच ॥
यथा तत्पुरतः प्रादुरासीद् देवो गजाननः ।
तत्सर्वं कथयिष्येऽहं सादरं श‍ृणु भूमिप ॥ २ ॥

रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ।
गजाननोऽब्जनयनः सिन्दूरारुणमस्तकः ॥ ३ ॥
अनेकसूर्यसङ्काशो दिव्यकुण्डलमण्डितः ।
अङ्गदे मुकुटं बिभ्रत् कङ्कणे शेषमेव च ॥ ४ ॥
मुनिरित्थं निरीक्ष्यैनं निमील्य नयने पुनः ।
चकम्पे भयसंत्रस्तः स्मृत्वा मन्त्रं मुमूर्च्छ च ॥ ५ ॥
ततोऽब्रवीन्नागमुखो मा भैस्त्वं मुनिसत्तम ।
यं ध्यायसि दिवारात्रौ सोऽहं त्वां समुपागतः ॥ ६ ॥
ब्रह्मादीनामगम्यो यो वरं दातुं मुने तव ।
॥ भृगुरुवाच ॥
श्रुत्वेत्थं मधुरां वाणीं जहर्ष मुनिपुङ्गवः ॥ ७ ॥
मूर्द्धानं न्यस्य तत्पादे धन्योऽहं पितरौ तपः ।
धन्योऽहं धरणी वृक्षाः पुनः पुनरवीवदत् ॥ ८ ॥
यतो दृष्टः सर्वरूपो गुणातीतोऽखिलाश्रयः ।
चिदानन्दघनोऽनन्तोऽखिलकारणकारणम् ॥ ९ ॥
एवं स्तुत्वा प्रार्थयन् स वरदं तं गजाननम् ।
॥ मुनिरुवाच ॥
निरस्य भ्रान्ति सर्वां मे यच्छ भक्तिं दृढां त्वयि ॥ १० ॥
अष्टादशपुराणानां यथा स्यां करणे क्षमः ।
तवापि स्तवने शक्तिः स्याद् यथा तत्कुरुष्व भोः ॥ ११ ॥
हृदये वस देवेश प्रसन्नश्चेन्ममानघ ।
॥ गजानन उवाच ॥
त्वया यत्प्रार्थितं वत्स सर्वमद्य भविष्यति ॥ १२ ॥
सर्वमान्यो व्यासनामा सर्वपावनपावनः ।
अपरोक्षज्ञानवांश्च भविष्यसि गुरोर्गुरुः ॥ १३ ॥
नारायणपरः ख्यात्या गुणैः कीर्त्या श्रियापि च ।
अष्टादशपुराणानां कर्ता त्वं हि भविष्यसि ॥ १४ ॥
तथैवोपपुराणानां तावतां च मुनीश्वर ।
त्वया पूर्वं दम्भवशान्न कृतं मम पूजनम् ॥ १५ ॥
स्मरणं वा ततः स्तम्भो जातो वाण्या महाद्भुतः ।
धातुर्मुखाच्छ्रुतो यस्मान् महिमा तेन मेऽनघ ॥ १६ ॥
विलीनं सर्वमधुना प्रविशामि तवोदरम् ।
॥ भृगुरुवाच ॥
एवमुक्त्वा प्राविशत् स तन्मुनेरुदरं विभुः ॥ १७ ॥
प्रकाशमतुलं लेभे सूर्यकोटिसमं मुनिः ।
दीपयामास ककुभस्ततो मूर्तिं विधाय सः ॥ १८ ॥
गजाननस्य महतीं प्रासादेऽस्थापयच्च सः ।
पूजयामास विविधैरुपचारैः पृथक् पृथक् ॥ १९ ॥
सिद्धिक्षेत्रमिदं सर्वलोकानां पावनं दृशोः ।
अनुष्ठानवतां मन्त्रनानासिद्धिप्रदं शुभम् ॥ २० ॥
एवमुक्त्वाप्यनुज्ञाप्य व्यासो नारायणस्तदा ।
पुराणं तद्गणेशस्य यच्छ्रुतं ब्रह्मणो मुखात् ॥ २१ ॥
प्राह वैशम्पायनाय ततस्तद्भुवि पप्रथे ।
तदेतदखिलं तेऽद्य मयापि कथितं नृप ॥ २२ ॥
नानेन सदृशं किञ्चित् पावनं त्रिषु विद्यते ।
लोकेषु परमानन्ददायकं नृपसत्तम ॥ २३ ॥
सोमकान्त न चाख्येममिदं दुष्टजने त्वया ।
विनीतेषु च भक्तेषु त्वयाख्येयं प्रयत्नतः ॥ २४ ॥
मया निरन्तरमिदं जप्यते स्मर्यतेऽपि च ।
तवापि करुणायोगात् कथितं राजसत्तम ।
गजाननध्यानपरो नित्यं जपपरोभव ॥ २५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे व्यासानुग्रहसिद्धिक्षेत्रवर्णनं नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-150

कोई टिप्पणी नहीं:

123